पञ्चपादिका
वक्तव्यकाशिका
 

व्यतिरेकेऽपि सर्वगतत्वेन नित्यप्राप्तत्वदाकाशेनेव क्रियापेक्षा प्राप्तिःअथ विकारावर्तिनोऽपि अथ यदतः परो दिवो ज्योतिर्दीप्यते’ (छा. उ. ३-१३-७) इति श्रूयमाणस्य प्राप्तये क्रियापेक्षेति, ; विकारदेशेऽपि ब्रह्मणो विकारसंस्पर्शाभावादविशेषात्अथ विकारावर्त्येव ब्रह्म विकारदेशेऽस्ति, तेन तत्प्राप्तये क्रियापेक्षेति, सा तर्हि तत्प्राप्तिरात्मनस्तादात्म्यापत्तिः ? उत स्वेनैव रूपेण तत्रावस्थानम् ? यदि पूर्वकल्पः, तदा स्वरूपनाशःअथ द्वितीयः, संयोगस्य विप्रयोगावसानत्वात् पुनरावृत्तिः चापुनरावृत्तिश्रुतिर्वर्तमानापदेशिनी ; तथाभावे प्रमाणान्तरमपेक्षमाणा स्वयं प्रमाणीभवतिसंस्कार्यत्वमपि सम्भवति ; गुणदोषयोराधेयापनेययोस्तत्रासम्भवात्अथ विद्यमानस्याभिव्यक्तिरादर्शस्येव निघर्षणेन, तच्च ; आत्मनः क्रियारहितत्वात्अन्याश्रयायास्तु विषयः ; प्रत्यग्रूपत्वात्

विकारास्पृष्टस्यापि सर्वगतत्वसम्भवात् न प्रदेशवर्तित्वमित्याह -

न, विकारदेशेऽपीति ।

तादात्म्यापत्तिरैक्यापत्तिरित्यर्थः ।

स्वेनैव रूपेणेति ।

देहादिभ्यो विलक्षणविलक्षणमितिस्वीयाणुरूपेणेत्यर्थः ।

स्वरूपनाश इति ।

अणुरूपे स्थिते ब्रह्मैक्यायोगादणुरूपस्य नाशः स्यादित्यर्थः ।

क्रियया वास्तवमूलरूपतिरोधाननिरासेन विद्यमानब्रह्मभावस्याभिव्यक्तिः संस्कार इति शङ्कते -

अथ विद्यमानस्येति ।

आदर्शस्येवेति ।

आदर्शस्य विद्यमानभास्वरत्वस्याभिव्यक्तिरिवेत्यर्थः ।

किमात्मगतक्रिययाक्रियाया इति मलापनयनं किं वा अन्याश्रययेति विकल्प्य दूषयति -

आत्मनः क्रियारहितत्वादिति ।

निरवयवत्वेन परिस्पन्दपरिणामरहितत्वादित्यर्थः । अन्याश्रयत्वेतिअन्याश्रयायाः कर्मत्वमात्मनो नास्ति, प्रत्यग्रूपत्वादिति योजना ।