ननु ईश्वराभिध्यानान्मलापगमो भविष्यति दीपप्रभयेव घटावगुण्ठनेन तमोऽपनयः, उच्यते — किमसौ मलः परमार्थः सन् ? उताविद्यात्मकः । यदि परमार्थः सन् , न तर्हि स्वाश्रयविकारमन्तरेणापसारयितुं शक्यः । न हि विकार आत्मनः सम्भवति ; अविकारित्वश्रुतेः । अथाविद्यात्मकः, न तर्ह्यविद्यावद्गतेन सम्यग्ज्ञानेन विना तस्यापनयः ; लोके तथा दृष्टत्वात् , अन्यथा चादृष्टत्वात् । न च स्नानादिक्रिययेव संस्कार्यत्वसम्भवः ; अहङ्कर्तुरिदमंशस्यैव तत्र संस्कार्यत्वात् ।
तस्मान्न संस्कार्योऽपि मोक्षः
इत्युपसंहरति । अथापि त्वन्यदपि क्रियाफलमस्ति, तद्द्वारेण मोक्षस्य क्रियानुप्रवेशः स्यादित्याशङ्क्याह —
अतोऽन्यन्मोक्षं प्रतीत्यादि ॥
न हि दृष्टमदृष्टं वा क्रियाफलमुत्पत्त्यादिचतुष्टयातिरिक्तं शक्यं केनचिद् दर्शयितुम् । तस्माज्ज्ञानस्यैव मोक्षो गोचरः, न क्रियायाः ॥
ननु शास्त्रीयकर्मभिः आत्मनो गुणाधानलक्षणो संस्कारः श्रूयतसंस्काराश्रयत इति इति नेत्याह -
न च स्नानादिक्रिययेवेति ।
अहङ्कर्तुरिदमंशस्यैवेति ।
चैतन्ये ऐक्येन अध्यस्ताहङ्कारस्य संस्कार्यत्वं न तु शुद्धचिद्रूपात्मन इत्यर्थः ।