पञ्चपादिका
वक्तव्यकाशिका
 

ननु ईश्वराभिध्यानान्मलापगमो भविष्यति दीपप्रभयेव घटावगुण्ठनेन तमोऽपनयः, उच्यतेकिमसौ मलः परमार्थः सन् ? उताविद्यात्मकःयदि परमार्थः सन् , तर्हि स्वाश्रयविकारमन्तरेणापसारयितुं शक्यः हि विकार आत्मनः सम्भवति ; अविकारित्वश्रुतेःअथाविद्यात्मकः, तर्ह्यविद्यावद्गतेन सम्यग्ज्ञानेन विना तस्यापनयः ; लोके तथा दृष्टत्वात् , अन्यथा चादृष्टत्वात् स्नानादिक्रिययेव संस्कार्यत्वसम्भवः ; अहङ्कर्तुरिदमंशस्यैव तत्र संस्कार्यत्वात्

तस्मान्न संस्कार्योऽपि मोक्षः

इत्युपसंहरतिअथापि त्वन्यदपि क्रियाफलमस्ति, तद्द्वारेण मोक्षस्य क्रियानुप्रवेशः स्यादित्याशङ्क्याह

अतोऽन्यन्मोक्षं प्रतीत्यादि

हि दृष्टमदृष्टं वा क्रियाफलमुत्पत्त्यादिचतुष्टयातिरिक्तं शक्यं केनचिद् दर्शयितुम्तस्माज्ज्ञानस्यैव मोक्षो गोचरः, क्रियायाः

ननु शास्त्रीयकर्मभिः आत्मनो गुणाधानलक्षणो संस्कारः श्रूयतसंस्काराश्रयत इति इति नेत्याह -

न च स्नानादिक्रिययेवेति ।

अहङ्कर्तुरिदमंशस्यैवेति ।

चैतन्ये ऐक्येन अध्यस्ताहङ्कारस्य संस्कार्यत्वं न तु शुद्धचिद्रूपात्मन इत्यर्थः ।