ननु ज्ञानस्यापि न गोचरो ब्रह्मेत्युक्तं
‘न च विदिक्रियाकर्मत्वेन कार्यानुप्रवेशो ब्रह्मणः’ इति
वदता । सत्यं कर्मत्वं ज्ञानं प्रति निषिद्धम् ; न पुनरनुपयोग एवैकान्ततो ज्ञानस्याभिहितः ।
तथा च तत्रैवोपयोगप्रकारो दर्शितः —
अविद्यापरिकल्पितभेदनिवृत्तिपरत्वादित्यादिना भाष्येण ।
मा तर्हि वोचः क्रियाया गन्धमात्रस्याप्यनुप्रवेश इह नोपपद्यत इति,
ननु ज्ञानं मानसी क्रिया, न वैलक्षण्यादित्युत्तरम् ।
कथं वैलक्षण्यम् ? अजन्यफलत्वात् , उक्तमजन्यफलत्वमहङ्कारटीकायाम् । इदमपरं वैलक्षण्यं — ज्ञानं न चोदनाजन्यं, वस्तुजन्यं हि तत् । वस्तु च ज्ञानात्प्रागेव स्वरूपे व्यवस्थितम् । अतस्तत्तन्त्रं ज्ञानम् । न तद् ज्ञानेनान्यथा कर्तुं शक्यम् । अथापि स्यात् भवेत्प्रत्यक्षं वस्तुजन्यम् , अनुमानादिषु कथम् ? तत्रापि लिङ्गादिपरतन्त्रम् , न चोदनायास्तत्रानुप्रवेशः । किं च न चोदनाजन्यं ज्ञानमेकान्ततो वस्तुपरिच्छेदकम् ; योषादिष्वग्न्यादिदृष्टिविधानदर्शनात् । अतो वस्तुविषयस्य ज्ञानस्य क्रियात्वेऽपि न चोदनाजन्यत्वं, न वा पुरुषतन्त्रत्वम् , अपि तु प्रमाणवस्तुपरतन्त्रत्वम् , एवं सम्यग्ज्ञानत्वोपपत्तेरग्नाविवाग्निज्ञानस्य । एवं सति ब्रह्मात्मैकत्वविज्ञानस्यापि यथाभूतवस्तुविषयत्वान्न चोदनाजन्यत्वम् । अतो न विधेरत्रावकाशः ॥
कर्मत्वमिति
ज्ञानाधीनप्रकाशातिशयवत्वं निषिद्धमित्यर्थः ।
जन्याजन्यफलत्वेन क्रियाज्ञानयोः वैलक्षण्यमुक्तम् । इदानीं चोदनाजन्यपुरुषेच्छाप्रयत्नसाध्या हि क्रिया तदनपेक्षमात्मज्ञानमनिच्छतोऽपि दुर्गन्धादिज्ञानदर्शनादिति कारणतो वैलक्षण्यमाह -
इदमपरं वैलक्षण्यमिति ।
शब्दजन्यस्य विषयजन्यत्वाभावात् न वस्तुतन्त्रता, ततश्चोदनाजन्यत्वमिति शङ्कते -
अथापि स्यादिति ।
लिङ्गादिपरतन्त्रमिति ।
विषयजन्यत्वाभावेऽपि शब्दलिङ्गादिजन्यमित्यर्थः ।
वस्तुपरिच्छेदकमिति ।
अत्र नञ् अधिकं दृश्यतेसम्यगर्थपरिच्छेदकमित्यर्थः ।
वस्तुविषयस्य ज्ञानस्य क्रियात्वेऽपि इति ।
मनःपरिणामत्वेऽपीत्यर्थः ।
एवमिति ।
प्रमाणवस्तुपरतन्त्रत्वे सतीत्यर्थः । सम्यग्ज्ञानेनैवज्ञानैवेति भवितव्यम् । वेदान्तविज्ञानसुनिश्चितार्था इति तस्यैव मोक्षहेतुत्वाभिधानादिति भावः ।
यथाभूतवस्तुविषयत्वादिति ।
सम्यग्ज्ञानत्वादित्यर्थः ।