ननु द्रष्टव्य इत्यादिना ब्रह्मज्ञाने विधयः श्रूयन्त इति तत्राह -
अतः श्रूयमाणा अपीति ।
अनुष्ठेयाभावाअनुमेयाभावाद्विदेभोद्विधेरभावे द्रष्टव्यः श्रोतव्य इत्यादिशब्दस्य वैयर्थ्यं स्यादिति, नेत्याह -
अतोऽर्थवादतयेति ।
अर्थवादान्तरवत् स्तावकत्वेऽपि विधिपदमर्थशून्यं स्यादित्याशङ्क्य विधिनिषेधयोः प्रवर्तकत्वनिवर्तकत्वाख्यकार्यलेशस्यात्रान्वयात् विधिवदवभास इत्याह -
तदुन्मुखीकरणादिति ।