यैः श्रवणादिभिरात्मा स्तूयते तान् विभज्य दर्शयति -
तथा च श्रवणं नामेति ।
शारीरकश्रवणमिति ।
सूत्रसन्दर्भाख्यशारीरकशारीरेतिश्रवणमित्यर्थः ।
विधेयस्येति ।
विधेयत्वे उपासनापर्यायः स्यात् , ततो निष्फलता स्यादपरोक्षप्रमितिहेतुता न स्यात् । अतो निदिध्यासनं वाक्यार्थे ज्ञानस्थैर्यमेवेत्यर्थः ।
श्रवणादिभिः किं फलं क्रियते, येनोत्कर्षवदिभिरेतैर्विषयीकरणादात्मनस्तुतिःतपः इति स्यादिति तदाह -
अतो वाक्यार्थे स्थैर्यादिति ।
विधेयस्यैव अर्थवादाख्यस्तुतिसम्बन्धः श्रुतेः प्रवृत्तिफलत्वात् न सिद्धरूपसिद्धरूत्मन इतिस्यात्मन इत्याक्षिपति -
कः पुनरत्रेति ।
फलप्रशंसाया अपि प्रवृत्त्युपयोगित्वात् फलभूतात्मप्रशंसाया अपि श्रवणादिप्रवृत्त्युपयोगित्वमुपपद्यत इत्यभिप्रेत्याह -
इदमत्र प्रस्तुतमित्यादि ।
सम्यग्दर्शनस्य फलरूपत्वात् प्रमाणाधीनत्वाच्चाविधेयतेति युक्ता द्रष्टव्य इत्यस्यार्थवादता, श्रवणादयस्तु क्रियारूपत्वात् सम्यग्दर्शनस्य दृष्टादृष्टोपकारितया विधेया एवेत्याशङ्क्य मनननिदिध्यासनोपबृंहितस्य श्रवणस्य सम्यग्दर्शनाय विधेयत्वमङ्गीकृत्य प्रथमसूत्रं प्रवृत्तमित्यभिप्रेत्याह -
एतच्च सर्वमिति ।