पञ्चपादिका
वक्तव्यकाशिका
 

तथा श्रवणं नाम आत्मावगतये वेदान्तवाक्यविचारः, शारीरकश्रवणं मननं वस्तुनिष्ठवाक्यापेक्षितदुन्दुभ्यादिदृष्टान्तजन्मस्थितिलयवाचारम्भणत्वादियुक्तार्थवादानुसन्धानं, वाक्यार्थाविरोध्यनुमानानुसन्धानं निदिध्यासनं मननोपबृंहितवाक्यार्थविषये स्थिरीभावः, विधेयस्योपासनापर्यायस्य निष्फलत्वात्दर्शनम् अतो वाक्यार्थे स्थैर्यान्निरस्तसमस्तप्रपञ्चावभासविज्ञानघनैकतानुभवःकः पुनरत्रार्थवादः ? इदमत्र प्रस्तुतंक्रियाकारकफलात्मकात् संसाराद्विरक्तायै मैत्रेय्यै मुमुक्षवे मोक्षसाधनमात्मज्ञानं प्रतिपिपादयिषन् वा अरे पत्युः कामाय पतिः प्रियो भवती’ति पत्यादेरीप्सितत्वं प्रतिषिध्यात्मन ईप्सिततमत्वमाहननु नैवात्मन ईप्सिततमत्वमुच्यते, किन्तु पत्यादीनामेवात्मार्थतयेप्सितत्वमुच्यते — ‘आत्मनस्तु कामाय पतिः प्रियो भवती’ति, मैवम् ; हि तस्मिन्ननिष्टे तदर्थमिष्टं भवतितस्मादनेनोपायेनात्मन एवेप्सितत्वमुक्तम्ईप्सितश्चेत् , ‘द्रष्टव्यः श्रोतव्यःइत्येषोऽर्थवादःएतच्च सर्वं प्रथमसूत्रेणैव सूत्रितं, विवृतं भाष्ये

यैः श्रवणादिभिरात्मा स्तूयते तान् विभज्य दर्शयति -

तथा च श्रवणं नामेति ।

शारीरकश्रवणमिति ।

सूत्रसन्दर्भाख्यशारीरकशारीरेतिश्रवणमित्यर्थः ।

विधेयस्येति ।

विधेयत्वे उपासनापर्यायः स्यात् , ततो निष्फलता स्यादपरोक्षप्रमितिहेतुता न स्यात् । अतो निदिध्यासनं वाक्यार्थे ज्ञानस्थैर्यमेवेत्यर्थः ।

श्रवणादिभिः किं फलं क्रियते, येनोत्कर्षवदिभिरेतैर्विषयीकरणादात्मनस्तुतिःतपः इति स्यादिति तदाह -

अतो वाक्यार्थे स्थैर्यादिति ।

विधेयस्यैव अर्थवादाख्यस्तुतिसम्बन्धः श्रुतेः प्रवृत्तिफलत्वात् न सिद्धरूपसिद्धरूत्मन इतिस्यात्मन इत्याक्षिपति -

कः पुनरत्रेति ।

फलप्रशंसाया अपि प्रवृत्त्युपयोगित्वात् फलभूतात्मप्रशंसाया अपि श्रवणादिप्रवृत्त्युपयोगित्वमुपपद्यत इत्यभिप्रेत्याह -

इदमत्र प्रस्तुतमित्यादि ।

सम्यग्दर्शनस्य फलरूपत्वात् प्रमाणाधीनत्वाच्चाविधेयतेति युक्ता द्रष्टव्य इत्यस्यार्थवादता, श्रवणादयस्तु क्रियारूपत्वात् सम्यग्दर्शनस्य दृष्टादृष्टोपकारितया विधेया एवेत्याशङ्क्य मनननिदिध्यासनोपबृंहितस्य श्रवणस्य सम्यग्दर्शनाय विधेयत्वमङ्गीकृत्य प्रथमसूत्रं प्रवृत्तमित्यभिप्रेत्याह -

एतच्च सर्वमिति ।