पञ्चपादिका
वक्तव्यकाशिका
 

अपि नैवायं विधौ कृत्यः, किं तर्हि ? ‘अर्हे कृत्यतृचश्चे’त्यर्हे कृत्यःएतेन (छा. उ. ८-१२-१)आत्मेत्येवोपासीत’ (बृ. उ. १-४-१५)आत्मानमेव लोकमुपासीते’त्येवमादीनि विधिच्छायानि वाक्यानि व्याख्यातानि वेदितव्यानि

अतो हानोपादानशून्यात्मावगमादेव कृतकृत्यता प्रतीयते श्रुतिस्मृतिवादानां तथा प्रस्थितत्वात्

तस्मान्न प्रतिपत्तिविधिविषयतया ब्रह्मणः समर्पणमित्युपसंहरति

तस्यायमर्थः प्रमाणात्मकेनेतरेण वा ज्ञानव्यापारेण विधीयमानत्वेन कल्पितेन संस्पर्शो ब्रह्मण इति

विधीनामपि सतां स्तावकत्वमुक्तम् , इदानीं शब्दस्यार्थान्तरमाह -

अपि च नैवायमिति ।

मा भूवन् ज्ञानविधय उपासनाविधयस्तु श्रूयन्त इति नेत्याह -

ऐतेनात्मेत्येवोपासीतेत्यादि ।

सर्वत्रैव कारकविशेषणश्रवणादहमिति स्वभावप्राप्तप्रत्ययावृत्त्यनुवादेन आत्माख्यविषयविशेषः प्रतिपाद्यते । न तु प्रत्ययावृत्तिर्विधीयत इत्यर्थः ।