अपि च नैवायं विधौ कृत्यः, किं तर्हि ? ‘अर्हे कृत्यतृचश्चे’त्यर्हे कृत्यः । एतेन (छा. उ. ८-१२-१)‘आत्मेत्येवोपासीत’ (बृ. उ. १-४-१५) ‘आत्मानमेव लोकमुपासीते’त्येवमादीनि विधिच्छायानि वाक्यानि व्याख्यातानि वेदितव्यानि ॥
अतो हानोपादानशून्यात्मावगमादेव कृतकृत्यता प्रतीयते श्रुतिस्मृतिवादानां च तथा प्रस्थितत्वात् ।
तस्मान्न प्रतिपत्तिविधिविषयतया ब्रह्मणः समर्पणमित्युपसंहरति ॥
तस्यायमर्थः — न प्रमाणात्मकेनेतरेण वा ज्ञानव्यापारेण विधीयमानत्वेन कल्पितेन संस्पर्शो ब्रह्मण इति ॥
विधीनामपि सतां स्तावकत्वमुक्तम् , इदानीं शब्दस्यार्थान्तरमाह -
अपि च नैवायमिति ।
मा भूवन् ज्ञानविधय उपासनाविधयस्तु श्रूयन्त इति नेत्याह -
ऐतेनात्मेत्येवोपासीतेत्यादि ।
सर्वत्रैव कारकविशेषणश्रवणादहमिति स्वभावप्राप्तप्रत्ययावृत्त्यनुवादेन आत्माख्यविषयविशेषः प्रतिपाद्यते । न तु प्रत्ययावृत्तिर्विधीयत इत्यर्थः ।