प्रमाणान्तरानपेक्षं ब्रह्मणि प्रामाण्यं वेदान्तानामुक्तं प्रथमेन वर्णकेन, द्वितीयेन वर्णकेन मोक्षफलविधेयज्ञानब्रह्मस्वरूपनिरूपणायांनिरूपणायो इति विधिनिरपेक्षमेव ब्रह्मणि प्रामाण्यमुक्तम् , इदानीं तदुभयवर्णकार्थमाक्षिप्य समाधत्ते -
यदपि केचिदाहुरित्यादिना ।
योऽयमहंप्रत्ययावसेयः क्रियासु कर्तृत्वेकर्तृकत्वेनेतिनान्वित आत्मा स एव किं वेदान्तैःवेदान्त इति प्रतिपाद्यते किं वा ततोऽन्य इति विकल्प्य प्रथमपक्षे विधिवाक्यैर्वेदान्तानामेकवाक्यता स्यादित्यभिप्रेत्य द्वितीयं पक्षं दूषयति -
यदि स्वरूपमात्रनिष्ठ इति ।
किञ्चिदुद्दिश्य किञ्चित्प्रतिपाद्यं स्यादत्यन्ताप्रसिद्धात्मनस्तदसम्भवान्न तत्प्रतिपादकवेदभागोऽस्ति, अतो न स वेदार्थः स्यादिति स नास्त्येवेत्यर्थः ।
योऽयमहंप्रत्ययविषयात् कर्तुरन्यः आत्मा, स एव वेदान्तैः प्रतिपाद्यत इत्याह -
योऽयमहंप्रत्ययविषयादिति ।
शरीरपरिपरिणामत्वेतिमाणत्वशङ्कां व्यावर्त्य व्यापित्वमाह -
सम इति ।
प्रतिशरीरमात्मभेदशङ्कां व्यावर्तयति -
एकः सर्वभूतेष्विति ।
सत्तासामान्यं व्यावर्तयति -
अहङ्कर्तुरपि साक्षिसाक्षिभूत इतिभूत इति ।
स एव वेदान्तप्रमेय इत्यर्थः ।
नन्वसावपि चेतनश्चेदंप्रत्ययगम्यतया कर्मशेषः स्यादिति नेत्याह -
न स केनचिदिति ।
शास्त्रैकगम्यस्यापि कर्माङ्गता किं न स्यादित्यत आह -
न हि प्रमाणान्तरसिद्ध इति ।
अधिकारिणं कर्तारं च प्रमाणान्तरसिद्धावनूद्य विधिमात्रं प्रतिपाद्यते शास्त्रेण, अन्यथा वाक्यभेदादिति भावः ।
चेतनः प्रमाणान्तरागम्यत्वात् शास्त्रेणापि न गम्यत इति नेत्याह -
न च स चकारो न दृश्यतेन प्रतीयत इति ।
पदसमन्वयस्य
पदसंसर्गस्य वाक्यस्येत्यर्थः । अत एवेत्यस्य अनन्यविषयत्वादित्यनेन सम्बन्धः ।
पदसमन्वयात् ब्रह्मणि प्रतीयमानेऽपि प्रत्यक्षादिभिर्बाधात् मिथ्येति नेत्याह -
नैषः प्रतीयमानोऽपीति ।
आत्मनश्चानिराकार्यत्वादिति ।
स्वरूपं चिद्रूपं वा आत्मशब्दार्थः उभयस्याप्यात्मशब्दार्थस्यानिराकार्यत्वादित्यर्थः ।
तस्यैवात्मत्वप्रसङ्गादिति ।
निःस्वरूपत्वायोगादचिद्रूपअप्सुरिवरूपत्वेतित्वायोगाच्चेति भावः ।