पञ्चपादिका
वक्तव्यकाशिका
 

यदपि केचिदाहुरित्यादि

अस्यायमर्थःयदि स्वरूपमात्रनिष्ठोऽपि वेदभागोऽस्ति, तत इदं पूर्वोक्तं प्रतिष्ठां लभते ; अन्यथा क्रियानुप्रवेशातिरिक्तमवेदार्थ एव स्यादिति,

अस्योत्तरं

तन्न ; औपनिषदस्य पुरुषस्यानन्यशेषत्वादिति

वस्तुसङ्ग्रहवाक्यम्

अस्यैव प्रपञ्चः

योऽसावुपनिषत्स्वेवाधिगत इत्यादिः

अस्यायमर्थःयोऽयमहंप्रत्ययविषयात् क्रियासम्बन्ध्यात्मनोऽतिरिक्तः सम एकः सर्वभूतेष्वहङ्कर्तुरपि साक्षिभूतः, केनचित्प्रमाणेन सिद्धः, येन क्रियाशेषतां नीयेत हि प्रमाणान्तरासिद्धः क्रियासम्बन्धितयोपदेष्टुं शक्यः प्रतीयत इति युक्तं वक्तुं, तत्प्रतिपादकोपनिषत्पदसमन्वयस्य दर्शितत्वात्अत एवौपनिषदत्वविशेषणम् ; अनन्यविषयत्वात्तच्च वेदान्तानां तत्परत्वेऽवकल्पतेनैष प्रतीयमानोऽपि शुक्तिरजतवन्मिथ्येति शक्यं वक्तुम् ; बाधाभावात्इतश्च शक्यते मिथ्येति विदितुं तस्मिन्नौपनिषदे पुरुषे एषः’ ‘नेति नेत्या’त्मशब्दप्रयोगात्आत्मनश्चानिराकार्यत्वात् , एव निराकर्ता तस्यैवात्मत्वप्रसङ्गात्

प्रमाणान्तरानपेक्षं ब्रह्मणि प्रामाण्यं वेदान्तानामुक्तं प्रथमेन वर्णकेन, द्वितीयेन वर्णकेन मोक्षफलविधेयज्ञानब्रह्मस्वरूपनिरूपणायांनिरूपणायो इति विधिनिरपेक्षमेव ब्रह्मणि प्रामाण्यमुक्तम् , इदानीं तदुभयवर्णकार्थमाक्षिप्य समाधत्ते -

यदपि केचिदाहुरित्यादिना ।

योऽयमहंप्रत्ययावसेयः क्रियासु कर्तृत्वेकर्तृकत्वेनेतिनान्वित आत्मा स एव किं वेदान्तैःवेदान्त इति प्रतिपाद्यते किं वा ततोऽन्य इति विकल्प्य प्रथमपक्षे विधिवाक्यैर्वेदान्तानामेकवाक्यता स्यादित्यभिप्रेत्य द्वितीयं पक्षं दूषयति -

यदि स्वरूपमात्रनिष्ठ इति ।

किञ्चिदुद्दिश्य किञ्चित्प्रतिपाद्यं स्यादत्यन्ताप्रसिद्धात्मनस्तदसम्भवान्न तत्प्रतिपादकवेदभागोऽस्ति, अतो न स वेदार्थः स्यादिति स नास्त्येवेत्यर्थः ।

योऽयमहंप्रत्ययविषयात् कर्तुरन्यः आत्मा, स एव वेदान्तैः प्रतिपाद्यत इत्याह -

योऽयमहंप्रत्ययविषयादिति ।

शरीरपरिपरिणामत्वेतिमाणत्वशङ्कां व्यावर्त्य व्यापित्वमाह -

सम इति ।

प्रतिशरीरमात्मभेदशङ्कां व्यावर्तयति -

एकः सर्वभूतेष्विति ।

सत्तासामान्यं व्यावर्तयति -

अहङ्कर्तुरपि साक्षिसाक्षिभूत इतिभूत इति ।

स एव वेदान्तप्रमेय इत्यर्थः ।

नन्वसावपि चेतनश्चेदंप्रत्ययगम्यतया कर्मशेषः स्यादिति नेत्याह -

न स केनचिदिति ।

शास्त्रैकगम्यस्यापि कर्माङ्गता किं न स्यादित्यत आह -

न हि प्रमाणान्तरसिद्ध इति ।

अधिकारिणं कर्तारं च प्रमाणान्तरसिद्धावनूद्य विधिमात्रं प्रतिपाद्यते शास्त्रेण, अन्यथा वाक्यभेदादिति भावः ।

चेतनः प्रमाणान्तरागम्यत्वात् शास्त्रेणापि न गम्यत इति नेत्याह -

न च स चकारो न दृश्यतेन प्रतीयत इति ।

पदसमन्वयस्य

पदसंसर्गस्य वाक्यस्येत्यर्थः । अत एवेत्यस्य अनन्यविषयत्वादित्यनेन सम्बन्धः ।

पदसमन्वयात् ब्रह्मणि प्रतीयमानेऽपि प्रत्यक्षादिभिर्बाधात् मिथ्येति नेत्याह -

नैषः प्रतीयमानोऽपीति ।

आत्मनश्चानिराकार्यत्वादिति ।

स्वरूपं चिद्रूपं वा आत्मशब्दार्थः उभयस्याप्यात्मशब्दार्थस्यानिराकार्यत्वादित्यर्थः ।

तस्यैवात्मत्वप्रसङ्गादिति ।

निःस्वरूपत्वायोगादचिद्रूपअप्सुरिवरूपत्वेतित्वायोगाच्चेति भावः ।