पञ्चपादिका
वक्तव्यकाशिका
 

तस्य कदाचिदभावः सम्भवति ; अभावहेतूनामविषयत्वात् निर्हेतुको विनाशः चितेरेकरूपावभासेन क्षणभङ्गनिराकरणात्अतोऽवच्छेदत्रयशून्ये तस्मिन् स्वयम्प्रकाशमाने सर्वस्य पुरुषावधिर्विनाशःसा काष्ठा सा परा गतिःतदेवमसंसार्यात्मनि प्रमाणान्तरागोचरे वेदान्तवाक्यसमन्वयात् प्रतीयमाने कथं तत्परो वेदभागो भवेत् ? कथं वा प्रतीयमानो निराक्रियेत ?

पुरुषावधिरिति ।

स्वयं प्रकाशमाने पुरुषे कल्पिततया प्रतिपन्नस्य सर्वस्य पुरुषावशेषतया विनाश इत्यर्थः ।

काष्ठेति ।

बाधाबाधनार्ह इतिनर्हः सत्य इत्यर्थः ।

परा गतिः इति ।

पूर्णचिद्रूप इत्यर्थः ।