पञ्चपादिका
वक्तव्यकाशिका
 

उच्यतेनैव सूत्रकारभाष्यकारयोरभिप्रायो लौकिको वा न्यायः सम्यगवगतो भवतापश्यतु भवान् देवदत्त ! ‘गामभ्याज’ ‘शुक्लां दण्डेने’ति प्रवर्तकाभ्याजेतिपदातिरेकिणां देवदत्तादिभूतार्थवादिनामप्रवर्तकानामपि प्रवर्तकादेव वाक्याद्भूतवस्तुविषयमपि सामर्थ्यं प्रतीयते ? वेति ? प्रतीयते चेत् , निष्प्रयोजनत्वमानर्थक्यं, निरालम्बनत्वम्

तदाह भाष्यकारः

अपि आम्नायस्य क्रियार्थत्वादित्यादिना भाष्येण

प्रयोजनं चानन्तरं पारम्पर्येण वा सुखावाप्तिर्दुःखपरिहारो वा स्यात्अतस्तदर्थक्रियानुपयोग्यर्थवाचिनांसोऽरोदीदि’त्यादिपदानां भवत्वानर्थक्यं, ब्रह्मात्मत्वावगतिसमन्वितानां तु परमपुरुषार्थफलानां कथं निष्प्रयोजनत्वम्स्यादेतत् यद्यपि प्रवर्तकादेव वाक्याद्भूतार्थविषयमपि सामर्थ्यं प्रतीयते ; तथाऽपि नाप्रतिपन्नभूतार्थावगतेः सम्भवःक्रियार्थतयैव संसर्गावगमात् हि गोपदात्तदर्थः सास्नादिमत्पिण्डधर्मत्वेनावगतो व्युत्पत्तिकाले पुनः प्रयोगान्तरेष्वप्रतिष्ठितः केसरादिमत्पिण्डधर्मत्वेन वा प्रतीयते

लौकिकोलौकिक को वेति वा न्याय इति ।

शब्दस्यार्थज्ञानेनान्वयव्यतिरेकौव्यतिरेका इति न क्रियासंसृष्टार्थज्ञानेनेति भवताभवतो नावगत इत्यर्थः ।

अनन्वितकेवलपदार्थे शक्तिग्रहणात् अक्रियार्थानामपि सालम्बनत्वान्निरालम्बनत्वमानर्थक्यशब्देन वक्तुं न शक्यमित्यभिहितान्वयपक्षाश्रयेण परिहरति -

पश्यतु भानितिभवानिति ।

भूतवस्तुविषयमपीति ।

अनन्वितदेवदत्तगवादिभूतवस्तुविषयमपीत्यर्थः ।

तर्ह्यानर्थक्यशब्देनाक्रियार्थानां प्रयोजनाभाव उच्यते इत्याशङ्क्य क्रियायाः प्रयोजनत्वाभावात् अक्रियार्थानां प्रयोजनाभावोऽपि न वक्तुं शक्य इत्याह -

प्रयोजनं चानन्तरमिति ।

क्रियायाः प्रयोजनत्वाभावेऽपि क्रियाद्वारमेव प्रयोजनं स्यात् , अतोऽक्रियार्थानां निष्प्रयोजनत्वमित्याशङ्क्य सत्यं, केषाञ्चित् शब्दानां क्रियाद्वारप्रयोजनानां क्रियानुपयोग्यर्थत्वे निष्प्रयोजनत्वं स्यादित्याह -

अतस्तदर्थं क्रियेति ।

ननु सर्वं प्रयोजनं क्रियाद्वारमेव अतः क्रियानुपयोग्यर्थानां वेदान्तानां निष्प्रयोजनत्वमिति नेत्याह -

ब्रह्माब्रह्मायावगतीतित्मत्वावगतीति ।

कथं निष्प्रयोजनत्वमिति ।

अक्रियार्थत्वे क्रियानुपयोग्यर्थत्वेऽपि कथं निष्प्रयोजनत्वमित्यर्थः ।

अन्विताभिधानपक्षमाश्रित्य कार्यान्विते पदसामर्थ्यात् कार्यानुपयोगिभूतार्थवादिनामानर्थक्यमिति प्राभाकरः प्रत्यवतिष्ठते -

स्यादेतत् - यद्यपीति ।

सामर्थ्यग्रहणसमये भूतार्थे सामर्थ्यं प्रतीयते चेत् गृहीतसम्बन्धात् शब्दात् संसृष्टभूतार्थोऽपि प्रतीयतामिति, नेत्याह -

तथापि नाप्रतिपन्न इति ।

सामर्थ्यग्रहणसमये शक्तिविषयतया अप्रतिपन्नस्य संसृष्टभूतार्थस्य बोधनकाले अवगतिर्नअवगतिमिति सम्भवति, तस्मादवगतिरस्ति चेत् संसृष्टभूतार्थे सामर्थ्यमित्यर्थः ।

संसृष्टस्वार्थे शब्दसामर्थ्यं चेत् भूतार्थेन संसृष्टेऽपि सामर्थ्यं गृह्यतामिति नेत्याह -

क्रियार्थतयैवेति ।

नियोगसंसृष्टतयैवनियोगसंसृष्टतयैवसामर्थ्यविषयतयावगमादिति स्वार्थे सामर्थ्यावगमादित्यर्थः ।

कार्यसंसृष्टस्वार्थे सामर्थ्यग्रहणेऽप्यन्वितस्यार्थस्य तत्रान्तर्भावात् तेनैव प्रयोजकेन पुनर्गृहीतसम्बन्धात् शब्दात् भूतार्थसंसर्गोऽपि प्रतीयतामिति, नेत्याह -

न हि गोपदात्तदर्थ इति ।

गोत्वजातिरित्यर्थः । स्वप्रतिष्ठः स्वतन्त्र इत्यर्थः । अतो गृहीतसामर्थ्यानुसारेण कार्यसंसृष्टतयैव भूतमर्थं बोधयतीति भावः ।