तदेतदन्यान्विते सामर्थ्यं वदन् सिद्धान्ती निराचष्टे -
विषम उपन्यास इति ।
अभिधेयसम्बन्धे गृह्यमाण इत्यर्थः ।
नानाविधं सामर्थ्यमिति ।
केसरादिमत्पिण्डधर्मगोत्वे स्वतन्त्रगोत्वे च सामर्थ्यं नोपलभ्यमित्यर्थः ।
एकरूपैव प्रतीतिरिति ।
सामर्थ्यग्रहणसमय इव बोधनकालेऽपि सास्नादिमत्पिण्डधर्मतयैव प्रतीतिर्युक्तेत्यर्थः । शब्दार्थान्तराद्यन्वये पुनर्गोशब्दस्य सामर्थ्ये गृह्यगृह्यमाबधने इतिमाणे बन्धने प्रयोगभेदादावापोद्वापनिबन्धनः प्रतिविभक्ति प्रतिपदार्थान्तरं च अन्यथा चान्यथा च समन्वयः सम्बन्धग्रहणकाले एव दृश्यत इत्यन्वयः । गोशब्दार्थस्य शक्लादिगुणसंसृष्टतया विभक्त्यभिधेयकारकत्वसंसृष्टतया दण्डादिद्रव्यसंसृष्टतया आनयनादिक्रियासंसृष्टतया प्रतिपन्नस्य पश्चात् कार्येणान्वयात् पूर्वं पूर्व एकवलान्येतिकेवलान्यान्वितस्वार्थे गोशब्दस्य सामर्थ्यं गृह्यत इत्यर्थः ।
सम्बन्धयोग्यताभिधायीति ।
कारकत्वाख्ययोग्यताभिधायीत्यर्थः ।
ऐदम्पर्यवशात्
तात्पर्यवशादित्यर्थः ।
वेदेऽपि कार्यमनपेक्ष्यैव संसर्गप्रमितिरङ्गीकृतेत्याह -
तथा च वषट्कर्तुरित्यादिना ।
भक्ष्यत इति व्युत्पत्त्या भक्ष इति पुरोडाशादिरुच्यते । कर्तव्य इति पदं तत्राप्यध्याहृत्य तेनैव वाक्यत्वोवाक्यत्वापगमेनेतिपगमेन संसर्गः प्रमीयत इति तत्राह -
यस्तु कर्तव्य इति ।
कलत्रयेतिकालत्रयास्पृष्टसंसर्गप्रतीतिनिमित्तो नियोगाध्याहार इत्यर्थः ।
कार्यान्वितस्वार्थे शब्दसामर्थ्यप्रदर्शनपरत्वेनाभिमतं सूत्रमुदाहरति -
यत्तु तद्भूतानामिति ।
तदपीति ।
तदपि नेत्यर्थः ।
अस्य सूत्रस्य शाबरभाष्यकारेण कृतयोजनामाह -
सिद्धरूपादिष्वित्यादिना ।
सूत्रगततच्छब्दार्थमाह -
सिद्धरूपादिष्विति ।
भूतानामित्यस्यार्थमाह -
वर्तमानानामिति ।
समाम्नाय इत्यस्य किञ्चिदध्याहृत्यार्थमाह -
समानाधिकरणेतिसामानाधिकरण्येति ।
इति यतीतियतो दर्शित इति ।
योजनया भाष्यकारेणैव गुणगुणागुण्येतिगुण्यादीनां विशेषणविशेष्यादिभावेन समन्वयो दर्शितो यत इत्यर्थः ।
क्रियार्थेनेति वचने कथं गुणगुण्यादि समानाधिकरण्येतिसामानाधिकरण्यसम्बन्ध इत्यत आह -
क्रियार्थेनेतिक्रियार्थे त्विति ।
अर्थसद्भावमात्रे कथनीय इति ।
आम्नायस्यार्थज्ञानज्ञानार्थेतिरूपप्रयोजनसद्भावमात्रे कथनीये सतीत्यर्थः ।
किमिति जैमिनीयसूत्रवचाद्वे इतिवचनात् वेदान्तानां कार्यनिष्ठत्वमिष्यते, कार्यनिष्ठत्वाभावमङ्गीकृत्य पूर्वेण तन्त्रेणागतार्थत्वाभिप्रायेण पृथगारभ्यमाणबादरायणसूत्रबलात् कार्यनिष्ठत्वाभावः किं नाभ्युपेयत इत्याह -
अत एव पूर्वेण तन्त्रेणेति ।
अर्थभेदाभावे कथं पृथगारम्भ इति शङ्कायामर्थविभागमाह -
तत्र हीत्यादिना ।
अधिकरण इति ।
विषय इत्यर्थः ।
ब्रह्मवाक्यगतसत्यादिप्रातिपदिकार्थानामेकरसब्रह्मपरतयान्वयेऽपि प्रथमाविभक्तेरव्यभिचारात् तदर्थास्तिक्रियाकर्तृत्वाख्यकारकत्वान्वयो वाक्यार्थे स्यादिति नेत्याह -
तथा च भगवानिति ।
तत्र लिङ्गसङ्ख्यादयस्त्वर्थात् प्रतीयमाना अपि अविज्ञानघन इतिविज्ञानघन एवाद्वितीयमित्यादिशब्दविरोधात् अनिर्वचनीया भविष्यन्तीत्यर्थः ।
नास्तिक्रियाकर्तर्येकर्तव्येवेतिवातिरिक्तार्थ इति ।
अस्तिक्रियाकर्तृत्वादेव प्रातिपदिकार्थात् व्यतिरिक्तार्थेव्यतिरिक्तार्थानानारस इति नानारसे प्रथमां न स्मरतीत्यर्थः ।
तेन च चकारो न दृश्यतेकात्यायनस्येति ।
घट इत्यत्र वर्तमानताभिधायिलट्परतयास्तिधातोरअप्रत्ययोगे इतिप्रयोगेऽपि प्रयुक्तप्रत्युक्तेतिवदर्थः स्वीकार्यः घटोऽस्तीत्येतन्मतं नानुमन्यत इत्यर्थः ।
वृक्षाः फलिता इति ज्ञात्वा ते सन्ति वा न सन्ति वा इति संशयानं प्रति तन्निरासाय न वाक्यप्रयोगः, अतोऽस्तिक्रियाया नाध्याहारः, किन्तु फलसम्बन्धमजानन्तं प्रति सम्बन्धमात्रमवबोधअवबोध्यावस्यतीतियति वाक्यमित्याह -
नानानात्रापीतित्रापि ये फलितेत्यादिनाइत्यदीत्येव दृश्यते ।
वस्तुस्वरूपान्तर्वर्तिन्या अपीति ।
षड्भावविकारेष्वस्तिक्रियाया एव वस्तुस्वरूपत्वं नेतरेषामिति भावः ।