पञ्चपादिका
वक्तव्यकाशिका
 

किञ्चब्राह्मणो हन्तव्यःइति प्रतिषेधवाक्यसमन्वये क्रिया क्रियार्थो वाऽवगम्यते, किन्तु क्रियानिवृत्तिरेव नियमेन प्रतीयतेव्रतशब्दसमन्वयात्तु प्रजापतिव्रतादिषुनेक्षेतोद्यन्तमादित्यमि’त्यादिष्वनीक्षणं मानसी सङ्कल्पक्रिया प्रतीयते अनीक्षणं कुर्यात् , नेक्षेऽहमिति सङ्कल्पयेदिति, नञः समन्वयमात्रात् , तस्य समन्वीयमानार्थाभावकरत्वात्

स्वभावप्राप्तहन्त्यर्थानुरागेण

इत्यादिभाष्यस्यायमर्थःस्वभावत एव रागादिनिमित्ताच्छास्त्रमन्तरेणैव हननक्रिया प्राप्ता यदि ञाऽनुरज्यते, विशेष्यते, तदा भवत्यहननमितिततश्चाहननं कुर्यादिति वाक्यार्थः स्यात् , हननं कुर्यादि’ति हननक्रियानिवृत्त्यौदासीन्यम्अतो हन्यामिति मानसी सङ्कल्पक्रियाऽपूर्वाऽभिहिता स्यात् चैतद्युक्तम् ; नञः सम्बन्ध्युपमर्दरूपत्वात्अनीक्षणे तु व्रतशब्दबलात्तथा समन्वयः, नञः सामर्थ्यादित्युक्तम्

पदानामन्यान्वितस्वार्थे सम्बन्धग्रहणात् क्रियामअवहायेतिपहाय अव्यतिरिक्तेतिअतद्व्यतिरिक्तैकरसप्रातिपदिकार्थान्वयो युक्त इत्युक्तमिदानीं क्रियान्विताभिधानवादिनामपि भूतेऽर्थे निषेधवाक्यसमन्वयो वक्तव्य इत्याह -

किं च ब्राह्मणो न हन्तव्य इति ।

प्रतिषेधवाक्यसमन्वय इति ।

वाक्यगम्यसमन्वये वार्थ इत्यर्थः ।

क्रियानिवृत्तिरेवेति ।

हननक्रियाभाव एवेत्यर्थः ।

नेक्षेतोद्यन्तमादित्यमित्यत्र नेक्षेतनेक्षत इति इति अनीक्षणनञर्थसङ्कल्पेतिसङ्कल्पक्रियाविधानवन्न हन्यामिति सङ्कल्पयेदिति अह्नननञर्थसङ्कल्पेतिनसङ्कल्पक्रियाविधानं स्यादिति नेत्याह -

व्रतशब्द इति न दृश्यते शब्दसमन्वयात्त्विति ।

तस्य व्रतमित्यनुष्ठेयवाचिव्रतशब्देनोपक्रमादित्यर्थः । संसृज्यमानाभाव एव नञ्शब्दस्य मुख्योऽर्थः ।

संसृज्यमानादन्यस्मिन्अन्यतद्विरोधिनीति तद्विरोधिनि च स्वार्थास्वार्थाख्यार्थाभावेतिविनाभावसम्बन्धाल्लक्षणया वर्तते । अतो नात्र मुख्यवृत्त्या ईक्षणविरोधिसङ्कल्पक्रिया प्रतीयत इत्याह -

न समन्वयमात्रादिति ।

न नञःन नञ्मासामव्यादिति समन्वयमात्रादित्यर्थः ।

अर्थाभावकरत्वादिति ।

अर्थाभावबोधकत्वादित्यर्थः ।

रागादिना प्राप्तहननक्रियया सम्बध्य भावान्तरातिरिक्ताभावायोगात् हननविरोधिनीं न हन्यादितिहन्यादिमिति सङ्कल्पक्रियां मुख्यवृत्त्याभिधाय नञ्शब्दो विधिप्रत्ययेन सम्बध्यते, अतो ह्ननविरोधिक्रियाविधायकमिदं वाक्यमिति प्राभाकरपक्षानुवादिभाष्यांशं व्याचष्टे -

स्वभावत एवेत्यादिना ।

स्वभावत एवेत्यस्य व्याख्या रागादिक्रियानिमित्तेति ।

अनुरज्यत

इत्यस्य व्याख्या विशेष्यत इति । सम्बध्यत इत्यर्थः ।

नञा विरोधिक्रियाभिधानेन हननसम्बन्धिरूपं दर्शयति -

हननमितीति ।

हननाभावाभिधानेन हननसम्बन्धरूपं दर्शयति -

हननं न कुर्यादिति ।

निवृत्त्यौदासीन्यमिति ।

निवृत्तिरूपमौदासीन्यं ह्ननप्रागभावो न वाक्यार्थः स्यादित्यर्थः ।

प्रदर्शितं प्राभाकरपक्षं भावान्तरातिरिक्ताभावं नञो मुख्यार्थमङ्गीकृत्य दूषयति -

न चैतद्युक्तमिति ।

उपमर्दरूपत्वादिति ।

अभावाभिधायिरूपत्वादित्यर्थः ।

तथा समन्वय इति ।

नञो धात्वर्थेन सम्बध्य तद्विरोधिक्रियान्तरविषयत्वमित्यर्थः ।