किञ्च ‘ब्राह्मणो न हन्तव्यः’ इति प्रतिषेधवाक्यसमन्वये न क्रिया क्रियार्थो वाऽवगम्यते, किन्तु क्रियानिवृत्तिरेव नियमेन प्रतीयते । व्रतशब्दसमन्वयात्तु प्रजापतिव्रतादिषु ‘नेक्षेतोद्यन्तमादित्यमि’त्यादिष्वनीक्षणं मानसी सङ्कल्पक्रिया प्रतीयते अनीक्षणं कुर्यात् , नेक्षेऽहमिति सङ्कल्पयेदिति, न नञः समन्वयमात्रात् , तस्य समन्वीयमानार्थाभावकरत्वात् ।
न च स्वभावप्राप्तहन्त्यर्थानुरागेण
इत्यादिभाष्यस्यायमर्थः — स्वभावत एव रागादिनिमित्ताच्छास्त्रमन्तरेणैव हननक्रिया प्राप्ता यदि नञाऽनुरज्यते, विशेष्यते, तदा भवत्यहननमिति । ततश्चाहननं कुर्यादिति वाक्यार्थः स्यात् , न ‘हननं न कुर्यादि’ति हननक्रियानिवृत्त्यौदासीन्यम् । अतो न हन्यामिति मानसी सङ्कल्पक्रियाऽपूर्वाऽभिहिता स्यात् । न चैतद्युक्तम् ; नञः सम्बन्ध्युपमर्दरूपत्वात् । अनीक्षणे तु व्रतशब्दबलात्तथा समन्वयः, न नञः सामर्थ्यादित्युक्तम् ॥
पदानामन्यान्वितस्वार्थे सम्बन्धग्रहणात् क्रियामअवहायेतिपहाय अव्यतिरिक्तेतिअतद्व्यतिरिक्तैकरसप्रातिपदिकार्थान्वयो युक्त इत्युक्तमिदानीं क्रियान्विताभिधानवादिनामपि भूतेऽर्थे निषेधवाक्यसमन्वयो वक्तव्य इत्याह -
किं च ब्राह्मणो न हन्तव्य इति ।
प्रतिषेधवाक्यसमन्वय इति ।
वाक्यगम्यसमन्वये वार्थ इत्यर्थः ।
क्रियानिवृत्तिरेवेति ।
हननक्रियाभाव एवेत्यर्थः ।
नेक्षेतोद्यन्तमादित्यमित्यत्र नेक्षेतनेक्षत इति इति अनीक्षणनञर्थसङ्कल्पेतिसङ्कल्पक्रियाविधानवन्न हन्यामिति सङ्कल्पयेदिति अह्नननञर्थसङ्कल्पेतिनसङ्कल्पक्रियाविधानं स्यादिति नेत्याह -
व्रतशब्द इति न दृश्यते शब्दसमन्वयात्त्विति ।
तस्य व्रतमित्यनुष्ठेयवाचिव्रतशब्देनोपक्रमादित्यर्थः । संसृज्यमानाभाव एव नञ्शब्दस्य मुख्योऽर्थः ।
संसृज्यमानादन्यस्मिन्अन्यतद्विरोधिनीति तद्विरोधिनि च स्वार्थास्वार्थाख्यार्थाभावेतिविनाभावसम्बन्धाल्लक्षणया वर्तते । अतो नात्र मुख्यवृत्त्या ईक्षणविरोधिसङ्कल्पक्रिया प्रतीयत इत्याह -
न समन्वयमात्रादिति ।
न नञःन नञ्मासामव्यादिति समन्वयमात्रादित्यर्थः ।
अर्थाभावकरत्वादिति ।
अर्थाभावबोधकत्वादित्यर्थः ।
रागादिना प्राप्तहननक्रियया सम्बध्य भावान्तरातिरिक्ताभावायोगात् हननविरोधिनीं न हन्यादितिहन्यादिमिति सङ्कल्पक्रियां मुख्यवृत्त्याभिधाय नञ्शब्दो विधिप्रत्ययेन सम्बध्यते, अतो ह्ननविरोधिक्रियाविधायकमिदं वाक्यमिति प्राभाकरपक्षानुवादिभाष्यांशं व्याचष्टे -
स्वभावत एवेत्यादिना ।
स्वभावत एवेत्यस्य व्याख्या रागादिक्रियानिमित्तेति ।
अनुरज्यत
इत्यस्य व्याख्या विशेष्यत इति । सम्बध्यत इत्यर्थः ।
नञा विरोधिक्रियाभिधानेन हननसम्बन्धिरूपं दर्शयति -
हननमितीति ।
हननाभावाभिधानेन हननसम्बन्धरूपं दर्शयति -
हननं न कुर्यादिति ।
निवृत्त्यौदासीन्यमिति ।
निवृत्तिरूपमौदासीन्यं ह्ननप्रागभावो न वाक्यार्थः स्यादित्यर्थः ।
प्रदर्शितं प्राभाकरपक्षं भावान्तरातिरिक्ताभावं नञो मुख्यार्थमङ्गीकृत्य दूषयति -
न चैतद्युक्तमिति ।
उपमर्दरूपत्वादिति ।
अभावाभिधायिरूपत्वादित्यर्थः ।
तथा समन्वय इति ।
नञो धात्वर्थेन सम्बध्य तद्विरोधिक्रियान्तरविषयत्वमित्यर्थः ।