ननु नञर्थे नियोगः प्रतिषेधेषु, तेन यागाद्यनुष्ठानादिव नञर्थानुष्ठानान्नियोगः साध्यः, किमुच्यते क्रियानिवृत्त्यौदासीन्यं प्रतीयत इति ? वार्तमेतत् । नञर्थो हि नाम न क्रिया, नापि साधनम् , अपि तु येन संसृज्यते तस्याभावो न तत्सिद्धिहेतुः । एवं प्रतिषेधस्य विधेरन्यत्वं सिध्यति । अन्यथा विधिरेव सर्वं स्यात् । तस्माद् संसृज्यमानाभावमात्रे प्रतिषेधवाक्यं पर्यवस्यति । तत्र न विधिगन्धोऽपि विद्यते । तच्च संसृज्यमानं विधिनिमन्त्रणामन्त्रणाधीष्टसम्प्रश्नाभ्यनुज्ञानानामभावात्प्रतिपाद्यधर्मः । प्रतिषिध्यमानक्रियाफलं प्रार्थना प्रतिषेधवाक्ये लिङाद्यर्थः । तेन तदभावः प्रतिषेधार्थः, स च प्रागभावः स्वभावसिद्धः । तस्मात्संस्कारोद्बोधनिमित्तसन्निधावपि तत्प्रतिबन्धे प्रयत्न आस्थेयः । स च यद्यपि साध्यः ; तथाऽप्यन्वयव्यतिरेकगम्यो न शब्दार्थः ; तत्प्रतिपादकपदाभावाच्च, एकवाक्ये संसृष्टपदार्थव्यतिरेकेणान्यत्र वाक्यार्थत्वाभावाच्च । अतो यश्चार्थादर्थो न स चोदनार्थः । वाक्यन्तु क्रियाशून्यमेवावसितम् । न साध्यं किञ्चित्तेन विषयीकृतम् ; औदासीन्यमात्रावसितत्वात्तस्य ॥
प्रतिषेधवाक्येषु नञर्थाख्याभावे नियोगो न, क्रियात्वात् , अतो नियोगपर्यवसितं प्रतिषेधवाक्यमिति प्राभाकरश्चोदयति -
ननु नञर्थ इति ।
नञर्थो हि नामेति ।
अनुष्ठेयम्भावार्थो दध्यादिगुणो वा नियोगविषयतया तन्निवृत्तिहेतुस्तदुभयं नञर्थो न भवति, अपि तु संसृज्यमानस्याभावो नञर्थस्तस्य प्रागभावतयाऽनादित्वादननुष्ठेयतया नियोगाविषयत्वेन नियोगनिष्पादकत्वं नास्तीत्यर्थः ।
येन संसृज्यत इति ।
येन धात्वर्थेन संसृज्यते नञ्शब्द इत्यर्थः ।
दूषणान्तरमाह -
एवं प्रतिषेधस्येति ।
अन्यथेति ।
नञर्थेऽपि नियोगश्चेदित्यर्थः ।
तस्मात् संसृज्यमानाभावमात्र इति
संसृज्यमानधात्वर्थभावमात्र न इत्यर्थः ।
ह्ननस्यैव नञ्शब्दान्वयमङ्गीकृत्य ह्ननाभावोऽर्थान्तरं वा न विधेयमित्यक्तम् । इदानीं प्रत्ययार्थ एव नञा सम्बध्यते प्रकृत्यर्थस्य प्रत्ययार्थोपसर्जनत्वात् , प्रधानेन च इतरेषामन्वयादित्याह -
तच्च संसृज्यमानमिति ।
विधिनिमन्त्रणामन्त्रणाधीष्टसम्प्रश्नाभ्यनुज्ञानानामभावादिति ।
ब्राह्मणं प्रत्यक्षेण दृष्ट्वा तद्धननमिष्टसाधनमिति च बुद्ध्या बुध्द्यान्वयमितिस्वयमेव प्रवर्तते । विध्यादीनां तु पुरुषान्तरनिबन्धनानां ह्ननस्य पुरुषान्तरनिबन्धननिबन्धेतिप्रवृत्तित्वाभावात् विध्यादीनां प्रत्ययार्थत्वाभावादित्यर्थः ।
प्रतिपाद्य धर्म इति ।
अनुष्ठेयहननाख्यधात्वर्थधर्म इत्यर्थः ।
कोऽसौ धर्मः यः प्रत्ययार्थः स्यादिति तत्राह -
प्रतिषिध्यमानक्रियाफलफकारो न दृश्यतेप्रार्थनेति ।
निवर्त्यमानह्ननक्रियागतफलसाधनत्वमित्यर्थः । फलाय प्रार्थ्यत इति फलप्रार्थनेति फलसाधनत्वमुच्यते ।
तदभावः प्रतिषेधार्थ इति ।
हननस्य यदिष्टसाधनत्वं प्रवर्तकं तदेव हन्तव्य इत्यत्र प्रत्ययेनानूद्य ब्राह्मणहननमिष्टसाधनं न भवतीति प्रतिषिध्यत इत्यर्थः । ननु प्रत्यक्षमिष्टसाधनत्वं न अदृष्टाविरोधि दृष्टप्रयोजनस्य इष्टशब्दार्थत्वात् इदमदृष्टाविरोधिदृष्टसाधनं न भवतीत्यर्थः ।
सर्वत्र चार्थानर्थसंयोगादनर्थादधिकोऽर्थः पुरुषार्थ इत्युच्यते । अर्थाच्च अधिकोऽनर्थोऽपुरुषार्थ इति । तत्र पुरुषार्थसाधनं न भवति । ह्ननमित्युक्तेऽनर्थादधिकोऽर्थो नास्तीत्युक्तं भवति । ततश्चार्थादनर्थस्याअनर्थनस्येतिधिक्यादर्थादनर्थं साधनमित्युक्तम् । ततश्च प्रत्ययार्थाभावोऽननुष्ठेय इत्याह -
स च प्रागभावः स्वभावसिद्ध इति ।
अनादिसिद्ध इत्यर्थः ।
किं तर्हि अनुष्ठेयमित्यत आह -
तत्संस्कारोद्बोध इति ।
ह्ननसंस्कारोद्बोधनिमित्तो ह्नने हितसाधनत्वभ्रमहेतुको रागस्तस्य सन्निधावपि प्राप्तावपि तत्र प्रतिबन्धे रागप्रध्वंसे प्रयत्न आस्थेयोऽनुष्ठेय इत्यर्थः ।
स एव रागप्रध्वंसः कर्तव्य इति विधीयतामिति नेत्याह -
स च यद्यपि साध्य इति ।
ह्ननमिष्टसाधनं न भवत्यधिकानर्थसाधनं चेत्यवगतौ ह्ननसंस्कारोद्बोधनिमित्तभूतरागनिरोधस्य अन्वयव्यतिरेकाभ्यामेव अनुष्ठेयत्वात् न तत्र साधने साधनेदितिहेत्यर्थः इति मातृकायां वाक्यं सम्पूर्णम् । निमित्तेति वाक्यान्तरं दृश्यतेशब्दापेक्षेति निमित्तनिरोधकर्तव्यतायां वाक्यस्य असामर्थ्याच्चेत्याह -
तत्प्रतिपादकेतिपादक इतीति ।
अन्यत्रेति ।
अन्यस्येत्यर्थः ।
इष्टसाधनं न भवतीति बोधकशब्दसामर्थ्याच्चेन्निमित्तनिरोधः, सोऽपि तर्हि शब्दार्थ इति नेत्याह -
यश्चायश्चायादर्थ इतिर्थादर्थ इति ।