अथ पुनर्नञर्थविषयो नियोग एव प्रतिषेधेऽपि वाक्यार्थ इत्यभिनिवेशः, भवतु ; तथाऽपि प्रतिषिध्यमानक्रियानिवृत्त्या स सिध्यति, क्रियोपादाने च तत्फलप्रार्थनैव हेतुरिति तत्कारणप्रतिबन्धे प्रयत्नास्थानान्नियोगसिद्धिः । तच्चान्वयव्यतिरेकावसेयमिति पूर्वोक्तान्मार्गान्न विशिष्यते । तदेवं वृद्धव्यवहारानुसारेणैव समन्वयानुसरणे सति तद्गम्यं ब्रह्म न धर्मवच्चोदनागम्यम् । दर्शितानि च वेदान्तवाक्यानि कारणसामान्ये सिद्धे तद्विशेषावगमाय समन्वितानि ‘यतो वा इमानि भूतानि जायन्ते’ (तै. उ. ३-१-१) इत्यादीनि तत्त्वमसीत्यादीनि च ।
प्रत्ययार्थाभावे नियोगमङ्गीकरोति -
अथ पुनरिति ।
नञ्विषय इतिनञर्थविषयो नियोग एवेति ।
नञर्थविषयो नियोग एवेत्यर्थः ।
प्रतिषिध्यमानक्रियानिवृत्त्येति ।
निवर्त्यमानक्रियाभावेन हितसाधनत्वाभावोऽपि स्यात्तेन नियोगोऽपि सिद्धः स्यादिति नानुष्ठानापेक्षेत्यर्थः ।
क्रियाया अनुपादानसम्भवात् निवर्त्यमानत्वमयुक्तमिति तत्राह -
क्रियोपादाने चेति ।
तत्फलप्रार्थनैव हेतुरिति ।
क्रियागतफलसाधनत्वभ्रान्तिरेव हेतुरित्यर्थः ।
तत्कारणप्रतिबन्धे प्रयत्नाप्रयत्नावस्थानादितिस्थानादिति ।
फलसाधनत्वभ्रान्तिकरणभूततद्भ्रमसंस्कारप्रतिबन्धे विनाशे प्रयत्नास्थानाद्विनाशानुष्ठानादित्यर्थः ।
तच्चातस्येतिन्वयव्यतिरेकाकासेयमितिवसेयमिति ।
हितसाधनं न भवतीति ज्ञानसंस्कारदाढ्ये सति विपरीतभ्रमसंस्कारो नश्यतीत्येतदन्वयव्यतिरेकावसेयमिति न शब्दापेक्षपेक्षानुष्ठानमितिमनुष्ठानमित्यर्थः ।
वृद्धव्यवहारानुसारेणैवेति ।
शब्दस्यान्यान्वितस्वार्थे प्रयोगप्रत्ययानुसारेणैवेत्यर्थः ।