एवं च सति पदानां परस्परसमन्वयजनितविज्ञानातिरेकेण चक्षुरादिवत्प्रवर्तकत्वस्याभावात् तद्विषयः शास्त्रारम्भः पृथगुपपद्यते । अन्यथाऽत्रापि बोधकत्वातिरेकेण प्रवर्तकत्वमपि चेत् , ‘अथातो धर्मजिज्ञासे’त्येवारब्धत्वान्न पृथगारभ्येत । अथाप्यबहिःसाधनत्वात्ततः परिशेषितमिति, तथाप्यथातः परिशिष्टधर्मजिज्ञासेति प्रतिज्ञा स्यात् ; प्रवर्तकविशेषजिज्ञासनात् । तदेवं ब्रह्मावगमात् प्रागेव विधिविधेयप्रमाणप्रमेयव्यवहारः । परतस्तु प्रमातुर्विधिविषयस्य चाभावान्न तत्सद्भाव इति ।
विधेअपेक्षभूतवस्तु इतिरपेक्षितभूतवस्तुप्रतिपादनेन प्रवर्तकवाक्यत्वाभावे शास्त्रारम्भभेदसिद्धिः नान्यथा इत्याह -
एवं च सतीतितालपत्रं भग्नं किमपि न दृश्यतेऽत्र ।
तद्विषयः,
समन्वयविषय इत्यर्थः ।
आरब्धत्वादिति ।
समन्वयविचारस्याप्यारब्धत्वादित्यर्थः ।
शरीरेन्द्रियनिर्वर्त्यविधिभेदाः कर्मकाण्डे निरूपिताः, इह तु केवलमनः साध्यो विधिर्निरूप्यत इति पृथगारम्भः स्यादिति चोदयति -
अथाप्यबहिः साधनत्वादितिपूर्वोक्तस्यायमिति ।