भाष्यरत्नप्रभाव्याख्या
पूर्णानन्दीया
 

अथ द्वितीयवर्णकम्

विचारस्य साक्षाद्विषया वेदान्ताः, तेषां गतार्थत्वागतार्थत्वाभ्यामारम्भसन्देहे कृत्स्नस्य वेदस्य विधिपरत्वात् , विधेश्च ‘अथातो धर्मजिज्ञासा’(जै.सू. १-१-१) इत्यादिना पूर्वतन्त्रेण विचारितत्वात् , अवगतार्था एव वेदान्ता इत्यव्यवहितविषयाभावान्नारम्भ इति प्राप्ते ब्रूते -

वेदान्तेति ।

वेदान्तविषयकपूजितविचारात्मकशास्त्रस्य व्याख्यातुमिष्टस्य सूत्रसन्दर्भस्येदं प्रथमसूत्रमित्यर्थः । यदि विधिरेव वेदार्थः स्यात्तदा सर्वज्ञो बादरायणो ब्रह्मजिज्ञासां न ब्रूयात् , ब्रह्मणि मानाभावात् । अतो ब्रह्मणो जिज्ञास्यत्वोक्त्या केनापि तन्त्रेणानवगतब्रह्मपरवेदान्तविचार आरम्भणीय इति सूत्रकृद्दर्शयति । तच्च ‘व्याचिख्यासितस्य’ इति पदेन भाष्यकारो बभाषे ॥

॥ इति द्वितीयवर्णकम् ॥

विषयसम्भवासम्भवाभ्यां अधिकरणमारचयितुं पूर्वोक्तं स्मारयति –

विचारस्येति ।

गतार्थत्वेति ।

श्रीभगवता जैमिनिना विचारितार्थकत्वं गतार्थत्वमित्यर्थः ।

विधेश्चेति ।

सच्चिदानन्दात्मको जीवस्तत्कृतं कर्मेति कर्ममाहात्म्यं किं वक्तव्यम् इति कर्मस्तावकत्वेन सर्वेषां वेदान्तानामर्थवादत्वं जीवस्य तु सच्चिदानन्दात्मकत्वमवास्तवं किन्तु स्तोत्रार्थमित्येवं पूर्वतन्त्रविचार एव विचारितत्वादवगतार्था एव वेदान्ता इति भावः ।

फलितमाह –

इत्यव्यवहितेति ।

इति पदं हेत्वर्थकम् अव्यवहितस्य पूर्वतन्त्राविचारितत्वेन बुद्धिस्थस्य प्रतिपाद्यस्याभावादित्यर्थः । पूर्वतन्त्रे विचारितत्वाद्वेदान्तानां केनापि तन्त्रेणाविचारितं सद्बुद्धिविषयः किञ्चित्प्रतिपाद्यं वस्तु नास्तीति भावः । विचारस्य पूजितत्वं सर्वविचारापेक्षयोत्कृष्टत्वम् ।

शास्त्रमेव विशिनष्टि –

सूत्रसन्दर्भस्येति ।

सूत्रकर्तुः श्रीवेदव्यासस्य भ्रान्तिं वारयति –

सर्वज्ञ इति ।

बादरायणशब्दो व्याख्यातः । यदि विधिरेव वेदार्थः स्यात्तदा विधिविचारेण कृत्स्नवेदविचारो जात एवेति वेदान्तानामर्थवादत्वेन ब्रह्मप्रतिपादकत्वाभावाद्ब्रह्मणि प्रमाणाभावेन प्रथमसूत्रे ब्रह्मणः जिज्ञास्यत्वोक्तेर्वैयर्थ्यं स्यादिति भावः ।

अतःशब्दार्थं कथयन्फलितमाह –

अत इति ।

अनवगतम् अविचारितत्वेनाज्ञातं यद्ब्रह्म तदेव परं प्रधानं यस्य वेदान्तस्य स ब्रह्मपरः स चासौ वेदान्तश्च तस्य विचार इति विग्रहः ।

स्वोक्तेऽर्थे श्रीभाष्यकारसम्मतिमाह -

तच्चेति ।

आरम्भणीयत्वमित्यर्थः ।