भाष्यरत्नप्रभाव्याख्या
पूर्णानन्दीया
 

अथ तृतीयवर्णकम्

एवं वर्णकद्वयेन वेदान्तविचारस्य कर्तव्यतायां विषयप्रयोजनवत्त्वमगतार्थत्वं चेति हेतुद्वयं सूत्रस्यार्थिकार्थं व्याख्यायाक्षरव्याख्यामारभमाणः पुनरप्यधिकारिभावाभावाभ्यां शास्त्रारम्भसन्देहे सति अथशब्दस्यानन्तर्यार्थकत्वोक्त्या अधिकारिणं साधयति -

तत्राथशब्द इति ।

सूत्र इत्यर्थः ।

‘मङ्गलानन्तरारम्भप्रश्नकार्त्स्न्येष्वथो अथ’ इत्यमरकोशेऽव्ययवर्गे अथशब्दस्य बहवोऽर्थाः सन्ति । तत्र ‘अथ योगानुशासनम्’(यो॰सू॰ १-१) इत्यत्र सूत्रे यथा अथशब्द आरम्भार्थकः योगशास्त्रमारभ्यत इति तद्वदत्र किं न स्यादित्यत आह -

नाधिकारार्थ इति ।

अयमाशयः - किं जिज्ञासापदं ज्ञानेच्छापरमुत विचारलक्षकम् ? आद्येऽथशब्दस्यारम्भार्थत्वेन(आरम्भार्थत्वे)* ब्रह्मज्ञानेच्छारभ्यत इति सूत्रार्थः स्यात्स चासङ्गतः, तस्या अनारभ्यत्वात् । न हि प्रत्यधिकरणमिच्छा क्रियते किन्तु तया विचारः । न द्वितीयः, कर्तव्यपदाध्याहारं विना विचारलक्षकत्वायोगात् , अध्याहृते च तेनैवारम्भोक्तेरथशब्दवैयर्थ्यात् । किन्त्वधिकारिसिद्ध्यर्थमानन्तर्यार्थतैव युक्तेति ।

अधुना सम्भावितमर्थान्तरं दूषयति -

मङ्गलस्येति ।

वाक्यार्थो विचारकर्तव्यता । न हि तत्र मङ्गलस्य कर्तृत्वादिनान्वयोऽस्तीत्यर्थः ।

ननु सूत्रकृता शास्त्रादौ मङ्गलं कार्यमित्यथशब्दः प्रयुक्त(प्रत्युक्त)* इति चेत्सत्यम् , न तस्यार्थो मङ्गलं किन्तु तच्छ्रवणमुच्चारणं च मङ्गलकृत्यं करोति । तदर्थस्त्वानन्तर्यमेवेत्याह -

अर्थान्तरेति ।

अर्थान्तरमानन्तर्यम् । श्रुत्या श्रवणेन शङ्खवीणादिनादश्रवणवदोङ्काराथशब्दयोः श्रवणं मङ्गलफलकम् ।
‘ओङ्कारश्चाथशब्दश्च द्वावेतौ ब्रह्मणः पुरा ।
कण्ठं भित्त्वा विनिर्यातौ तस्मान्माङ्गलिकावुभौ(माङ्गलिकाविमौ)* ॥ ’
इति स्मरणादिति भावः ।

ननु प्रपञ्चो मिथ्येति प्रकृते सति, अथ मतं प्रपञ्चः सत्य इत्यत्र पूर्वप्रकृतार्थादुत्तरार्थस्यार्थान्तरत्वार्थोऽथशब्दो दृष्टः, तथात्र किं न स्यादित्यत आह -

पूर्वेति ।

फलतः फलस्येत्यर्थः । ब्रह्मजिज्ञासायाः पूर्वम् अर्थविशेषः प्रकृतो नास्ति यस्मात्तस्या अर्थान्तरत्वमथशब्देनोच्येत । यतः कुतश्चिदर्थान्तरत्वं सूत्रकृता न वक्तव्यम् , फलाभावात् । यदि फलस्य जिज्ञासापदोक्तकर्तव्यविचारस्य हेतुत्वेन यत्पूर्वं प्रकृतं तदपेक्षास्तीत्यपेक्षाबलात्प्रकृतहेतुमाक्षिप्य ततोऽर्थान्तरत्वमुच्यते, तदार्थान्तरत्वमानन्तर्येऽन्तर्भवति हेतुफलभावज्ञानायानन्तर्यस्यावश्यं वाच्यत्वात् । तस्मादिदमर्थान्तरमित्युक्ते तस्य हेतुत्वाप्रतीतेः । तस्मादिदमनन्तरमित्युक्ते भवत्येव हेतुत्वप्रतीतिः । न चाश्वादनन्तरो गौरित्यत्र हेतुत्वभानापत्तिरिति वाच्यम् , तयोर्देशतः कालतो वा व्यवधानेनानन्तर्यस्यामुख्यत्वात् । अतः सामग्रीफलयोरेव मुख्यमानन्तर्यम् , अव्यवधानात् । तस्मिन्नुक्ते सत्यर्थान्तरत्वं न वाच्यं ज्ञातत्वाद्वैफल्याच्चेति भावः । फलस्य विचारस्य पूर्वप्रकृतहेत्वपेक्षया(पूर्वप्रकृतहेत्वपेक्षाया)* बलाद्यदर्थान्तरत्वं तस्यानन्तर्याभेदात् न पृथगथशब्दार्थत्वमित्यध्याहृत्य भाष्यं योजनीयम् । यद्वा पूर्वप्रकृतेऽर्थेऽपेक्षा यस्या अर्थान्तरतायास्तस्याः फलं ज्ञानं तद्द्वारानन्तर्याव्यतिरेकात्तज्ज्ञाने तस्याः ज्ञानतोऽन्तर्भावान्नाथशब्दार्थतेत्यर्थः ।

नन्वानन्तर्यार्थकत्वेऽप्यानन्तर्यस्यावधिः क इत्याशङ्क्याह -

सति चेति ।

यन्नियमेन पूर्ववृत्तं पूर्वभावि असाधारणकारणं पुष्कलकारणमिति यावत् , तदेवावधिरिति वक्तव्यमित्यर्थः ।

नन्वस्तु धर्मविचार इव ब्रह्मविचारेऽपि वेदाध्ययनं पुष्कलकारणमित्यत आह -

स्वाध्यायेति ।

समानं ब्रह्मविचारे साधारणकारणं न पुष्कलकारणमित्यर्थः ।

ननु संयोगपृथक्त्वन्यायेन ‘यज्ञेन दानेन’ इत्यादिश्रुत्या ‘यज्ञादिकर्माणि ज्ञानाय विधीयन्ते’ इति सर्वापेक्षाधिकरणे वक्ष्यते । तथा च पूर्वतन्त्रेण तदवबोधः पुष्कलकारणमिति शङ्कते -

नन्विति ।

इह ब्रह्मजिज्ञासायां विशेषोऽसाधारणं कारणम् । ‘एकस्य तूभयार्थत्वे संयोगपृथक्त्व’ इति जैमिनीसूत्रम् , तदर्थस्तु - एकस्य कर्मण उभयार्थत्वेऽनेकफलसम्बन्धे संयोगः उभयसम्बन्धबोधकं वाक्यं तस्य पृथक्त्वं भेदः स हेतुः । ततश्चात्रापि ज्योतिष्टोमादिकर्मणां स्वर्गादिफलकानामपि ‘यज्ञेन दानेन’ इत्यादि वचनात् ज्ञानार्थत्वं चेति । इत्यधिकः पाठः ।

परिहरति -

नेत्यादिना ।

अयमाशयः - न तावत्पूर्वतन्त्रस्थन्यायसहस्रं ब्रह्मज्ञाने तद्विचारे वा पुष्कलकारणम् , तस्य धर्मनिर्णयमात्रहेतुत्वात् । नापि कर्मनिर्णयः, तस्यानुष्ठानहेतुत्वात् । न हि धूमाग्न्योरिव धर्मब्रह्मणोर्व्याप्तिरस्ति, यया धर्मज्ञानात् ब्रह्मज्ञानं भवेत् । यद्यपि शुद्धिविवेकादिद्वारा कर्माणि हेतवः, तथापि तेषां नाधिकारिविशेषणत्वम् , अज्ञातानां तेषां जन्मान्तरकृतानामपि फलहेतुत्वात् । अधिकारिविशेषणं ज्ञायमानं प्रवृत्तिपुष्कलकारणमानन्तर्यावधित्वेन वक्तव्यम् । अतः कर्माणि, तदवबोधः, तन्न्यायविचारो वा नावधिरिति न ब्रह्मजिज्ञासाया धर्मजिज्ञासाऽऽनन्तर्यमिति ।

ननु धर्मब्रह्मजिज्ञासयोः कार्यकारणत्वाभावेऽप्यानन्तर्योक्तिद्वारा क्रमज्ञानार्थोऽथशब्दः । ‘हृदयस्याग्रेऽवद्यत्यथ जिह्वाया अथ वक्षसः’(तै०स० ६-३-१०-५४) इत्यवदानानां क्रमज्ञानार्थाथशब्दवदित्याशङ्क्याह -

यथेति ।

अवदानानामानन्तर्यनियमः क्रमो यथाथशब्दार्थस्तस्य विवक्षितत्वात् न तथेह धर्मब्रह्मजिज्ञासयोः क्रमो विवक्षितः, एककर्तृकत्वाभावेन तयोः क्रमानपेक्षणात् । अतो न क्रमार्थोऽथशब्द इत्यर्थः ।

एवमिति ; विषयेति ; पुनरप्यधिकारीति ; अधिकारिणमिति ; योगशास्त्रमिति ; नाधिकारार्थ इतीति ; तस्या अनारभ्यत्वादिति ; न हीति ; कर्तव्येति ; अधुना सम्भावितमिति ; न हि तत्रेति ; अथ शब्द इति ; सत्यमिति ; न तस्येति ; मङ्गलकृत्यमिति ; श्रवणेनेति ; तथात्र किं न स्यादिति ; ब्रह्मजिज्ञासाया इति ; यतः कुतश्चिदिति ; फलाभावादिति ; यदि फलस्येति ; आक्षिप्येति ; हेतुफलेति ; तस्मादिदमर्थन्तरमिति ; तस्मादिदमनन्तरमिति ; न चेति ; तयोरिति ; तस्मिन्निति ; ज्ञातत्वादिति ; वैफल्याच्चेति ; फलस्येति ; यद्वेति ; पूर्वप्रकृत इति ; फलं ज्ञानं तद्द्वारेति ; तज्ज्ञान इति ; नन्वानन्तर्येत्यादिना ; पूर्वभावीति ; पुष्कलकारणमिति ; तदेवेति ; नन्वस्त्वित्यादिना ; समानमिति ; यज्ञेनेति ; एकस्य तूभयत्वे संयोगपृथक्त्वमिति ; शङ्कत इति ; असाधारणकारणमिति ; परिहरतीति ; अयमाशय इति ; न्यायसहस्रमिति ; न हि धूमेति ; अधिकारिविशेषणं त्विति ; अत इति ; इति नेतीति ; ननु धर्मेति ; हृदयस्याग्र इति ; नियमः क्रम इति ; तस्येति ; न तथेति ; अत इति ;

वृत्तानुवादपूर्वकमधिकरणमारचयन् वर्णकान्तरपरत्वेनोत्तरभाष्यमवतारयति –

एवमिति ।

ननु वर्णकद्वयमसङ्गतं तत्प्रतिपाद्यहेतुद्वयस्य सूत्राक्षरानारूढत्वादित्यत आह –

विषयेति ।

पुनरप्यधिकारीति ।

अधिकारिविशेषणसाधनचतुष्टयभावाभ्यामधिकारिभावाभावौ ताभ्यामित्यर्थः । पूर्वोक्तविषयवाक्य एवारम्भसन्देह इत्यधिकरणप्रथमाङ्गं पुनःशब्देन द्योत्यते अपिशब्देन सन्देहस्य तृतीयत्वं ज्ञाप्यते ।

अधिकारिणमिति ।

साधनचतुष्टयसाधनपूर्वकमधिकारिणं साधयतीत्यर्थः ।

अनुशासनपदस्यार्थकथनद्वारान्वयमभिनयति –

योगशास्त्रमिति ।

नाधिकारार्थ इतीति ।

नारम्भार्थ इत्यर्थः ।

अनधिकार्यत्वादिति भाष्यस्यार्थं सङ्गत्या स्फोरयति –

तस्या अनारभ्यत्वादिति ।

लोके यदारभ्यं तत्कृतिसाध्यमिति नियमः यथा घटादि, तथा चानेकजन्मकृतपुण्यपुञ्जपरिपाकसाध्यायाः ज्ञानेच्छायाः कृतिसाध्यत्वरूपव्यापकस्याभावादारभ्यत्वस्याभाव इति भावः । इच्छा अनारभ्या कृतिसाध्यत्वाभाववत्त्वान्नित्यपदार्थवदिति प्रयोगः ।

विपक्षे बाधकमुत्तराधिकरणविरोधरूपमाह -

न हीति ।

कर्तव्येति ।

’श्रोतव्य’ इत्यादिश्रुतिसमानार्थत्वाय कर्तव्यपदमध्याहर्तव्यं पश्चादन्वयाद्विचारे लक्षणा स्वीकर्तव्या तथा च कर्तव्यपदेनैवारम्भोक्तेरथशब्दवैयर्थ्यमिति भावः । ननु अस्तु अथशब्दोक्तारम्भार्थान्वयानुपपत्त्यैव जिज्ञासापदस्य विचरे लक्षणा मास्तु कर्तव्यपदाध्याहारः अध्याहारस्य दोषत्वात् समानार्थत्वमथशब्दबोधितारभ्यत इत्यनेन स्यात् , तथा च ब्रह्मविचार आरभ्यत इत्यथशब्दः सार्थक इति चेन्न । आरभ्यत इत्येतस्य विध्यर्थकत्वाभावेन श्रुतिसूत्रयोरेकार्थकत्वालाभात्सम्बन्धग्रन्थे साधितं समानार्थत्वं न विस्मर्तव्यमिति भावः ।

अधुना सम्भावितमिति ।

शास्त्रारम्भे विघ्नोपशान्तये मङ्गलं कर्तव्यमिति मङ्गलार्थकोऽथशब्दः स्यादित्येव सम्भावितमर्थान्तरमधुना दूषयतीत्यर्थः । श्रीभाष्यकारेणाथशब्दस्य प्रश्नाद्यर्थकत्वमाशङ्क्य किमिति न परिह्रीयत इत्याशङ्कां वारयितुं सम्भावितपदम् ।

न हि तत्रेति ।

आदिशब्देन करणत्वमुच्यत्ते । अधिकारिणा विचारः कर्तव्यः इति यथा अधिकारिणः कर्तृत्वेनान्वयो न सम्भवति, तथा मङ्गलेन विचारः कर्तव्य इति मङ्गलस्य कर्तृत्वेनान्वयो न सम्भवति प्रमाणाभावादेवं मङ्गलस्य विचारं प्रति कर्तृत्वरूपकारणाभावेन कारणत्वेनाप्यन्वयो न सम्भवतीति भावः ।

अथ शब्द इति ।

मङ्गलार्थक इति शेषः । आदौ मङ्गलं कर्तव्यमिति न्यानेन मङ्गलस्याथशब्दार्थत्वेनावश्यकत्वात्कर्तृत्वादिनान्वयासम्भवेऽपि यथा दधिदूर्वादिदर्शनं मङ्गलं तथा ब्रह्मजिज्ञासापि मङ्गलमिति सामानाधिकरण्येनान्वयः सम्भवतीति शङ्कितुरभिप्रायः ।

मङ्गलस्याथशब्दार्थत्वमेव नास्तीति परिहरति –

सत्यमिति ।

आदौ मङ्गलं कार्यमित्यथशब्दः प्रयुक्तः इत्यंशेऽङ्गीकारः मङ्गलार्थकोथशब्द इत्यंशे अनङ्गीकारः तमनङ्गीकरं व्यनक्ति –

न तस्येति ।

अथशब्दस्य वाच्यार्थो लक्ष्यार्थो वा मङ्गलं न भवति प्रयोजनाभावादित्यर्थः । ननु तर्हि ’मङ्गलानन्तरारम्भे’त्यादिकोशः कथमिति चेन्न । कोशस्य मङ्गलमथशब्दगम्यार्थ इति ज्ञाप्यार्थप्रतिपादकत्वात् , न हि ज्ञाप्यार्थस्य वाक्यार्थेऽन्वयो दृष्टः अतिप्रसक्तत्वात्तस्मान्मङ्गलं नाथशब्दवाच्योऽर्थः । अस्तु वा कोशबलाद्वाच्यार्थः तथाप्यथशब्दस्य तदुच्चारणादिनैव मङ्गलफलत्वसम्भवेन मङ्गलस्य वाच्यार्थत्वेन ग्रहणे प्रयोजनाभान्न प्रकृते मङ्गलार्थकोऽथश्ब्दः किन्तु आनन्तर्यार्थक एव, अत एवास्मिन् ग्रन्थे अत्रानन्तर्यमेवेति वाक्येन ग्रन्थकृताप्येषोऽर्थः सूचितः । न चानन्तर्यार्थकत्वेपि प्रयोजनाभाव इति वाच्याम् । अथशब्दस्यानन्तर्योक्तिद्वारा अधिकारिप्रतिपत्त्यर्थत्वात् । किञ्च यथा दधिदूर्वादिदर्शनं मङ्गलं तथा ब्रह्मजिज्ञासापि मङ्गलमिति समानाधिकरणान्वयः पूर्वपक्षिणा उक्तः, स चायुक्तः, प्रशंसापरतया अर्थवादत्वप्रसङ्गात्सूत्रस्य स्तुतिहेतुत्वेन न्यायोपपादकसूत्रत्वाभावप्रसङ्गाच्चेति भावः ।

मङ्गलकृत्यमिति ।

मङ्गलफलं विघ्ननिवृत्यादिकमित्यर्थः ।

श्रुत्येति भाष्यपदस्यार्थमाह –

श्रवणेनेति ।

श्रवणपदमुपलक्षणम् उच्चारणमपि मङ्गलफलकमित्यर्थः । माङ्गलिकाविति । मङ्गलफलकावित्यर्थः । अथ मतं प्रपञ्चः सत्य इति वाच्यस्यापेक्षितमर्थं पूरयति – प्रपञ्चो मिथ्येति – मते प्रकृते सतीति, अन्योर्थः अर्थान्तरं तस्य भावोऽर्थान्तरता, तथा च मिथ्यात्वरूपात्पूर्वप्रकृतार्थादुत्तरार्थस्य सत्यत्वरूपस्य याऽर्थान्तरता सैवार्थो यस्याथशब्दस्य स तथेत्यर्थः ।

तथात्र किं न स्यादिति ।

धर्मजिज्ञासारूपपूर्वार्थाद्भिन्नार्थस्वरूपा ब्रह्मजिज्ञासेति किं न स्यादित्यर्थः ।

जिज्ञासायाः पूर्वकाले प्रकृतादर्थविशेषात् किं भिन्नार्थत्वमुच्यते अर्थसामान्याद्वा हेतुत्वेन पूर्वप्रकृतार्थाद्वा ? नाद्य इत्याह –

ब्रह्मजिज्ञासाया इति ।

प्रकृतः सङ्गत्या प्राप्तः इत्यर्थः । तस्याः ब्रह्मजिज्ञासायाः यस्मादर्थविशेषादर्थान्तरत्वमथशब्देनोच्यते सः प्रकृतोऽर्थविशेषो नास्तीति पूर्वेणान्वयः ।

द्वितीयं दूषयति –

यतः कुतश्चिदिति ।

यस्मात्कस्माच्चिदित्यर्थः ।

फलाभावादिति ।

प्रयोजनाभावादित्यर्थः ।

तृतीयमिष्टापत्त्या परिहरति –

यदि फलस्येति ।

आक्षिप्येति ।

अन्यथानुपपत्त्या अध्याहृत्येत्यर्थः ।

नन्वविशेषादर्थान्तरत्वमेवास्तु किमानन्तर्येणेत्यत आह –

हेतुफलेति ।

पूर्वार्थो हेतुरुत्तरार्थः कार्यमिति ज्ञानायेत्यर्थः ।

नन्वर्थान्तरेणापि हेतुफलभावज्ञानं स्यादित्यत आह –

तस्मादिदमर्थन्तरमिति ।

आनन्तर्यस्य हेतुत्वज्ञानजनकत्वे अनुभवं प्रमाणयति –

तस्मादिदमनन्तरमिति ।

अर्थान्तरेण यथा हेतुफलभावज्ञानं नोत्पद्यते तथा आनन्तर्येणापि तन्नोपत्पद्यत इत्यभिप्रायेणातिप्रसक्तिमाशङ्क्य परिहरति –

न चेति ।

गौणानन्तर्येण हेतुफलभावज्ञानाभावेऽपि मुख्यानन्तर्येण तदस्तीति परिहारं विवृणोति –

तयोरिति ।

अहेतुफलयोर्गवाश्वयोरित्यर्थः । अमुख्यत्वाद्गौणत्वादित्यर्थः । सामग्री कारणसमुदाय इत्यर्थः । यस्मिन्देशे काले वा गोः सत्त्वं तस्मिन्नियमेनावश्वस्य सत्त्वं नास्ति अतस्तयोर्व्यवधानं, यस्मिन्देशे काले वा सामग्र्याः सत्त्वं तस्मिन्नियमेन कार्योत्पत्तेः सत्त्वं तस्मात्तयोरव्यवधानम् तथा च सामग्रीफलयोः कालिकी दैशिकी च व्याप्तिरनुभवसिद्धेति प्रतिपादकमिति भावः ।

तस्मिन्निति ।

मुख्यानन्तर्यं इत्यर्थः ।

ज्ञातत्वादिति ।

भेदघटितकार्यकारणभावज्ञानेनार्थान्तरत्वस्य ज्ञातत्वादित्यर्थः । आनन्तर्यज्ञाने सति अर्थान्तरत्वज्ञानं भवतीति भावः ।

वैफल्याच्चेति ।

हेतुफलभावज्ञानासम्पादकत्वेन व्यर्थत्वाच्चेत्यर्थः । यस्मिन् सत्यग्रिमक्षणे यस्य नियमेन सत्त्वं तयोरेव मुख्यमानन्तर्यं सामग्रीसत्त्वे फलावश्यम्भावनियमात्सामग्रीफलयोरेव मुख्यमितरयोस्तु गौणम् तथा च मुख्यानन्तर्याभिधाने अर्थान्तरत्वमभिहितं भवति नार्थान्तरत्वाभिधाने मुख्यानन्तर्यम् , तस्माद्धेतुत्वेन पूर्वप्रकृतसाधनचतुष्टयावद्योतनायानन्तर्यार्थोऽथशब्द इति सुष्ठूक्तम् ।

अर्थान्तरत्वपदमात्रमध्याहृत्य पूर्वप्रकृतेत्यादि भाष्यार्थं परिष्करोति –

फलस्येति ।

अध्याहारं विनैव भाष्यं योजयति –

यद्वेति ।

अर्थान्तरत्वं नामान्यार्थत्वं तच्च कस्मादन्यार्थः स्वाश्रय इति पूर्वप्रकृतमर्थमपेक्षते अतोर्थान्तरत्वं पूर्वप्रकृतापेक्षावदित्येनमर्थं बहुव्रीहिणा स्फुटीकरोति –

पूर्वप्रकृत इति ।

फलत इति भाष्यस्यार्थमाह –

फलं ज्ञानं तद्द्वारेति ।

आनन्तर्याव्यतिरेकादिति भाष्यस्यार्थमाह –

तज्ज्ञान इति ।

आनन्तर्यज्ञान इत्यर्थः । तस्यार्थानन्तरत्वस्येत्यर्थः । आनन्तर्यज्ञाने सत्यर्थान्तरत्वज्ञानं भवति तथा च समानकालीनज्ञानविषयत्वेन तयोरभेदो न स्वरूपत इति भावः । यद्यपि पूर्वोत्तरव्याख्यानयोरानन्तर्यज्ञाने सत्यर्थान्तरत्वज्ञानं भवतीत्ययमर्थः समानः तथापि यद्वेत्युत्तरव्याख्याने उपपादनभेदोस्ति अध्याहारोपि नास्तीति विज्ञेयम् ।

उक्तं हेत्वानन्तर्यं भाष्यारूढत्वेन स्फुटीकर्तुं शङ्कासमाधानाभ्यां भाष्यमवतारयति –

नन्वानन्तर्येत्यादिना ।

पूर्ववृत्तपदस्यार्थमाह –

पूर्वभावीति ।

नियमेन पूर्ववृत्तमिति पदद्वयस्यार्थमाह –

पुष्कलकारणमिति ।

यस्मिन् सत्यग्रिमक्षणे ब्रह्मविचाररूपकार्योत्पत्तिस्तदेवासाधारणकारणं पुष्कलकारणमित्युच्यते । तद्वक्तव्यमिति – पदद्वयं पदान्तराध्याहारेण योजयति –

तदेवेति ।

आनन्तर्यस्यावधिः क इति प्रश्नस्य पुष्कलकारणमवधिरिति प्रत्युत्तरे स्थिते तच्च पुष्कलकारणं किं वेदाध्ययनमाहोस्वित् कर्म तज्ज्ञानं वा तन्न्यायविचारो वेति विकल्प्य दूषयतीत्याशयं स्फुटीकर्तुं भाष्यमवतारयति –

नन्वस्त्वित्यादिना ।

धर्मविचारं प्रति कारणत्वाद्ब्रह्मविचारे स्वाध्यायशब्दितं वेदाध्ययनं नासाधारणकारणमित्याह –

समानमिति ।

ननु साधारणकारणानन्तर्यमेवाथशब्दार्थोस्तु किमसाधरणकारणानन्तर्येणेति चेन्न । साधारणकारणानन्तरं नियमेन कार्योत्पत्तेरभावादथशब्दवैयर्थ्यं स्यादिति भावः ।

संयोगपृथक्त्वन्यायो नाम पृथग्वचनं तदेव प्रतिपादयति –

यज्ञेनेति ।

ज्योतिष्टोमेनेत्यादिश्रुत्या कर्माणि स्वर्गोद्देशेन विधीयन्ते यज्ञेनेत्यादिवचनान्तरेण ज्ञानाय च विधीयन्ते इति भावः ।

तं न्यायं श्रीभगवान् जैमिनिराह –

एकस्य तूभयत्वे संयोगपृथक्त्वमिति ।

एकस्य कर्मणः उभयत्वे अनेकफलसम्बन्धे संयोगः उभयसम्बन्धबोधकं वाक्यं तस्य पृथक्त्वं भेदः स एव हेतुरिति जैमिनिसूत्रस्यार्थः । तथा च ज्योतिष्टोमादिश्रुत्या ज्योतिष्टोमादिकर्मणां स्वर्गादिफलकत्वं यज्ञेन दानेनेत्यादिपृथक्त्ववचनात् ज्ञानफलकत्वं चास्तीति प्रतिपादकं वचनं संयोहपृथक्त्वन्याय इत्युच्यत इति फलितार्थः ।

शङ्कत इति ।

कर्मज्ञानहेतुककर्मानुष्ठानद्वारा ब्रह्मविचारः कर्तव्य इति ज्ञानकर्मसमुच्चयवादी शङ्कत इति भावः ।

असाधारणकारणमिति ।

पुष्कलकारणमियर्थः ।

परिहरतीति ।

कर्मावबोधस्य कारणत्वमेव नास्त्यसाधारणत्वं सुतरां दुरापास्तमिति मत्वा परिहरतीत्यर्थः ।

ननु ब्रह्मजिज्ञासायाः कर्मावबोधानन्तर्यं स्यादिति पूर्वपक्षं कृत्वा धर्मजिज्ञासानन्तर्यं न सम्भवतीति परिहारः कथमित्याशङ्क्य धर्मजिज्ञासाया इति भाष्यस्य कर्मतज्ज्ञानं तन्न्यायविचारश्चार्थ इत्यभिप्रायं स्फोरयन् अधिकं तु न तद्धानिरिति न्यानेन तेषां कर्मादीनामानन्तर्यं ब्रह्मविचारस्य न सम्भवतीत्याह –

अयमाशय इति ।

न्यायसहस्रमिति ।

न्यायसहस्रं विचार इत्यर्थः ।

ननु लिङ्गज्ञानविधया धर्मज्ञानं ब्रह्मज्ञाने हेतुरस्त्वित्यत आह –

न हि धूमेति ।

अधिकारिविशेषणं त्विति ।

अस्मिन् शास्त्रे को वाऽधिकारीति विचार्य साधनचतुष्टयसम्पन्न इति निश्चित्याहमधिकारी साधनचतुष्टयवानिति ज्ञानानन्तरं पुरुषः प्रवर्तते, तस्माज्ज्ञायमानमेवाधिकारिविशेषणं प्रवृत्तिहेतुर्न स्वरूपं सदिति भावः ।

उपसंहरति –

अत इति ।

पुष्कलकारणत्वाभावादित्यर्थः ।

धर्मजिज्ञासायाः प्रागपीत्यादिभाष्यस्य फलितार्थमाह –

इति नेतीति ।

इतिशब्दो धर्मजिज्ञासाया अवधित्वाभावादिति हेत्वर्थकः ।

यद्यपि न पुष्कलकारणं धर्मजिज्ञासा तथाप्यकारणीभूतैवावधिः सा स्यात् तथा सति नानन्तर्याभिधानमुखेनाधिकारिविशेषणप्रतिपत्त्यर्थोथशब्दः किन्तु तदभिधानमुखेन क्रमप्रतिपत्त्यर्थ इत्यभिप्रायेण भाष्यमवतारयति –

ननु धर्मेति ।

ज्ञायमानक्रमार्थो वा क्रमज्ञानार्थो वा अथशब्द इत्यभिप्रेत्य दृष्टान्तं प्रतिपादयति –

हृदयस्याग्र इति ।

अवद्यति अवदानं कुर्यादित्यर्थः । प्रथमतः पशुहृदयस्य खण्डनमनन्तरं पशोर्जिह्वाखण्डनं कुर्यादित्यानन्तर्योक्तद्वारा क्रमज्ञानार्थाथशब्दवदित्यर्थः ।

नियमः क्रम इति ।

नियमरूपक्रम इत्यर्थः ।

तत्र हेतुमाह –

तस्येति ।

ज्ञायमानस्य क्रमस्येत्यर्थः ।

दृष्टान्तवैपरीत्येन दार्ष्टान्तिके प्रतिपादयति –

न तथेति ।

क्रमो न विवक्षित इत्यत्र स्वयं हेतुं पूरयति –

अत इति ।

क्रमस्याविवक्षितत्वादित्यर्थः । स्वोक्तहेतौ हेतुप्रतिपादकत्वेनोत्तरभाष्यं योजयति ।