भाष्यरत्नप्रभाव्याख्या
पूर्णानन्दीया
 

ननु तयोरेककर्तृकत्वं कुतो नास्तीत्यत आह -

शेषेति ।

येषामेकप्रधानशेषता, यथावदानानां प्रयाजादीनां च । ययोश्च शेषशेषित्वम् , यथा प्रयाजदर्शयोः । यस्य चाधिकृताधिकारित्वम्(अधिकृताधिकारत्वम्)* , यथा अपां प्रणयनं दर्शपूर्णमासाङ्गमाश्रित्य ‘गोदोहनेन पशुकामस्य’ इति विहितस्य गोदोहनस्य । यथा वा ‘दर्शपूर्णमासाभ्यामिष्ट्वा सोमेन यजेत’ इति दर्शाद्युत्तरकाले विहितस्य सोमयागस्य दर्शाद्यधिकृताधिकारित्वं(दर्शाद्यधिकृताधिकारत्वं)* तेषामेककर्तृकत्वं भवति । ततश्चैकप्रयोगवचनगृहीतानां तेषां युगपदनुष्ठानसम्भवात्क्रमाकाङ्क्षायां श्रुत्यादिभिर्हि क्रमो बोध्यते, नैवं जिज्ञासयोः शेषशेषित्वे श्रुतिलिङ्गादिकं मानमस्ति । ननु ‘ब्रह्मचर्यं समाप्य गृही भवेत् गृहाद्वनी भूत्वा प्रव्रजेद्’(चेत्यधिकः)*(जा॰उ॰ ४) इति श्रुत्या,
‘अधीत्य विधिवद्वेदान् पुत्रांश्चोत्पाद्य धर्मतः ।
इष्ट्वा च शक्तितो यज्ञैर्मनो मोक्षे निवेशयेत्’ ।
इति स्मृत्या चाधिकृताधिकारित्वं(अधिकृताधिकारत्वं)* भातीति तन्न । ‘ब्रह्मचर्यादेव प्रव्रजेत्’(जा॰उ॰ ४) । ‘आसादयति शुद्धात्मा मोक्षं वै प्रथमाश्रमे । ’ इति श्रुतिस्मृतिभ्यां त्वयोदाहृतश्रुतिस्मृत्योरशुद्धचित्तविषयत्वावगमात् । एतदुक्तं भवति यदि जन्मान्तरकृतकर्मभिः शुद्धं चित्तं तदा ब्रह्मचर्यादेव संन्यस्य ब्रह्म जिज्ञासितव्यम् , यदि(यदा)* न शुद्धमिति रागेण ज्ञायते तदा गृही भवेत् , तत्राप्यशुद्धौ वनीभवेत् , तत्राप्यशुद्धौ तथैव कालमाकलयेत् , वने शुद्धौ प्रव्रजेदिति । तथा च श्रुतिः - ‘यदहरेव विरजेत्तदहरेव प्रव्रजेत्’ इति । तस्मान्नानयोरधिकृताधिकारित्वे(अधिकृताधिकारत्वे)* किञ्चिन्मानमिति भावः ।

ननु मीमांसयोः शेषशेषित्वमधिकृताधिकारित्वं(अधिकृताधिकारत्वं)* च मास्तु । एकमोक्षफलकत्वेनैककर्तृकत्वं स्यादेव । वदन्ति हि - ‘ज्ञानकर्माभ्यां मुक्तिः’ इति समुच्चयवादिनः । एवमेकवेदार्थजिज्ञास्यकत्वाच्चैककर्तृकत्वम् । तथा चाग्नेयादिषड्यागानामेकस्वर्गफलकानाम् , द्वादशाध्यायानां चैकधर्मजिज्ञास्यकानां क्रमवत्तयोः क्रमो विवक्षित इति क्रमार्थोऽथशब्द इत्यशङ्क्याह -

फलेति ।

फलभेदाज्जिज्ञास्यभेदाच्च न क्रमो विवक्षित इत्यनुषङ्गः । यथा सौर्यार्यमणप्राजापत्यचरूणां(सौर्यार्यम्णप्राजापत्यचरूणां)* ब्रह्मवर्चसस्वर्गायुःफलभेदात् , यथा वा कामचिकित्सातन्त्रयोर्जिज्ञास्यभेदान्न क्रमापेक्षा तद्वन्मीमांसयोर्न क्रमापेक्षेति भावः ।

तत्रफलभेदं विवृणोति -

अभ्युदयेति ।

विषयाभिमुख्येनोदेतीत्यभ्युदयो विषयाधीनं सुखं स्वर्गादिकं तच्च धर्मज्ञानहेतोर्मीमांसायाः फलमित्यर्थः ।

न केवलं फलस्य स्वरूपतो भेदः किन्तु हेतुतोऽपीत्याह -

तच्चेति ।

ब्रह्मज्ञानहेतोर्मीमांसायाः फलं तु तद्विरुद्धमित्याह -

निश्रेयसेति ।

नित्यं निरपेक्षं श्रेयो निश्रेयसं मोक्षस्तत्फलमित्यर्थः ।

ब्रह्मज्ञानं च स्वोत्पत्तिव्यतिरिक्तमनुष्ठानं नापेक्षत इत्याह -

न चेति ।

स्वरूपतो हेतुतश्च फलभेदान्न समुच्चय इति भावः ।

जिज्ञास्यभेदं विवृणोति -

भव्यश्चेति ।

भवतीति भव्यः । साध्य इत्यर्थः ।

साध्यत्वे हेतुमाह -

नेति ।

तर्हि तुच्छत्वम् , नेत्याह -

पुरुषेति ।

पुरुषव्यापारः प्रयत्नस्तन्त्रं हेतुर्यस्य तत्त्वादित्यर्थः । कृतिसाध्यत्वात्कृतिजनकज्ञानकाले धर्मस्यासत्वं न तुच्छत्वादित्यर्थः ।

ब्रह्मणो धर्माद्वैलक्षण्यमाह -

इह त्विति ।

उत्तरमीमांसायामित्यर्थः । भूतमसाध्यम् ।

ननु तयोरिति ।

एककर्तृकत्वमेकपुरुषकर्तृकत्वमित्यर्थः ।

आहेति ।

यत्रैककर्तृकत्वं तत्र शेषशेषित्वाद्यन्यतममिति व्याप्तिः सिद्धा प्रकृते व्यावकाभावाद्व्याप्याभाव इति परिहर्तुरभिप्रायः ।

भाष्ये –

आनन्तर्यनियम इति ।

आनन्तर्योक्तिद्वारा नियमरूपक्रम इत्यर्थः । अथशब्दार्थ इति शेषः । क्रमो विवक्षित इत्यनन्तरं श्रुतो न क्रमार्थोऽथशब्द इति शेषः । तथा चावदानानां क्रमस्य विवक्षितत्वात् क्रमो यथाऽथशब्दार्थस्तथा धर्मजिज्ञासयोः क्रमस्याविवक्षितत्वान्न तत्क्रमोथशब्दार्थ इति भावः ।

शेषशेषित्व इति ।

एकप्रधानशेषत्वस्येदमुपलक्षणम् धर्मब्रह्मजिज्ञासयोः एकप्रधानशेषत्वे शेषशेषित्वे अधिकृताधिकरे वा प्रमाणाभावादित्यन्वयः । धर्मब्रह्मजिज्ञासयोः फलजिज्ञास्यभेदाच्चेत्यन्वयः ।

व्याख्याने –

येषामेकप्रधानशेषतेति ।

यच्छब्दत्रयस्योत्तरेण तेषामित्यनेनान्वयः । प्रधानत्वं शेषित्वमङ्गित्वं चेति पर्यायः, शेषत्वमङ्गत्वमित्यर्थः । अवदानानां समिधो यजतीत्यादिवाक्यविहितप्रयाजादीनां चैकप्रधानाग्निष्टोमीये पशुयागे शेषत्वमित्यर्थः ।

अधिकृताधिकारित्वमिति ।

अधिकृतस्य पुरुषस्याधिकारो यस्मिन् गोदोहनादौ सोऽधिकृताधिकारी तत्त्वमित्यर्थः ।

अधिकृताधिकारित्वमुपपादयति –

यथेति ।

चमसेनापः प्रणयेद्गोदोहनेन पशुकामस्येति वाक्यम् । अप इति द्वितीयाबहुवचनम् । चमसेन चमसाख्यदारुपात्रविशेषेण अपः प्रणयेदपां प्रणयनं कुर्यादित्यर्थः । चमसे अप्प्रणयनं कुर्यादिति यावत् । गौः दुह्यते यस्मिन्पात्रे तद्गोदोहनं तेन पशुकामस्यापां प्रणयनं कुर्यादित्यर्थः । पशुकामश्चेद्यजमानः चमसं विहाय गोदोहने अप्प्रणयनं कुर्यादिति भावः । तथा चाप्प्रणयनाश्रितेन गोदोहनेन पशुलक्षणं फलं भावयेदिति वाक्यार्थः ।

इममेवार्थं सङ्ग्रहेणोपपादयति –

अपां प्रणयनमिति ।

जलपूरणमित्यर्थः ।

गोदोहनस्येति ।

एतस्य दर्शाद्यधिकृताधिकारित्वमित्युत्तरेणान्वयः । दर्शादौ यः अधिकारी स गोदोहने अधिकारी तस्माद्दर्शाद्यधिकृताधिकारित्वं गोदोहनस्येति भावः ।

अधिकृताधिकारित्व एवोदाहरणान्तरमाह –

यथा वेति ।

दर्शपूर्णमासाभ्यां दर्शत्रिकपौर्णमासत्रिकाभ्यामित्यर्थः । दर्शाद्युत्तरकालविहितेन सोमयागेनेष्टं भावयेदिति वाक्यार्थः ।

एकप्रयोगवचनेति ।

प्रयोगानुष्ठानं तस्य वचनं विधिः स एक इत्यर्थः ।

श्रुत्यादिभिरिति ।

श्रुत्यर्थपाठस्थानमुख्यप्रवृत्त्याख्यानि क्रमबोधकानि षट् प्रमाणानि तैरित्यर्थः । तथा च हृदयाग्रे अवद्यतीत्यत्र अवदानं कुर्यादिति पाठक्रमानुसारेणानुष्ठानप्रतिपादकैकविधिपरिगृहीतानामवदानानामग्रपदरूपश्रुत्या पाठक्रमानुसारेण च क्रमो बोध्यते । इष्ट्वा सोमेन यजेतेत्यत्र दर्शसोमयागमुक्त्वा श्रुत्या क्रमो बोध्यते प्रयाजादीनां तु पाठक्रमानुसारेण च क्रमो बोध्यते यथायोग्यमेवं सर्वत्र क्रम ऊहनीय इति भावः ।

श्रुतिलिङ्गादिकमिति ।

श्रुतिलिङ्गवाक्यप्रकरणस्थानसमाख्यारूपाण्यङ्गत्वबोधकानि षट् प्रमाणानि जन्मादिसूत्रे निरूप्यन्ते ।

धर्मब्रह्मजिज्ञासयोरधिकृताधिकारित्वे प्रमाणमस्तीति शङ्कते –

नन्विति ।

अधिकृताधिकारित्वमिति ।

धर्मविचारोत्तरकाले विहितस्य ब्रह्मविचारस्य कर्माधिकृतपुरुषाधिकारवत्त्वं भातीत्येककर्तृकत्वलाभात्क्रमार्थोथशब्द इति भावः ।

ननु कथमशुद्धचित्तविषयत्वं शब्दतस्त्वप्रतीयमानत्वादित्यत आह –

एतदुक्तं भवतीति ।

रागेण ज्ञायत इति ।

रागेण लिङ्गेनानुमीयत इत्यर्थः । तत्राप्यशुद्धौ वनी भवेदिति । गृहस्थाश्रमेपि चित्तशुद्ध्यभावे सति वानप्रस्थाश्रमं कुर्यादित्यर्थः । तथैव कालमाकलयेदिति एवप्रकारेण चतुर्थ आश्रमे निषिध्यते मरणपर्यन्तं तस्मिन् वानप्रस्थाश्रमे एव स्थातव्यमिति भावः ।

तस्मादिति ।

त्वयोदाहृतश्रुतिस्मृत्योरशुद्धचित्तविषयत्वादित्यर्थः ।

अनयोरिति ।

धर्मब्रह्मजिज्ञासयोरित्यर्थः ।

धर्मब्रह्मजिज्ञासयोरिति भाष्यस्यार्थमाह –

मीमांसयोरिति ।

ननु स्वर्गफलकस्य पूर्वतन्त्रस्य कथं मोक्षफलकत्वमित्याशङ्क्याह –

वदन्ति हीति ।

एकवेदार्थेति ।

वेदार्थयोः धर्मब्रह्मणोर्वेदार्थत्वेनैकीकरणं कृत्वा जिज्ञास्यैकत्वं बोद्धव्यम् ।

एकफलकत्वादेककर्तृत्वमुदाहरति –

तथा चाग्नेयादीति ।

आग्नेयाग्नीषोमीयोपांशुयाजाः पौर्णमासत्रिकं आग्नेययाग एकः ऐन्द्रोपांशुयागौ द्वौ मिलित्वा दर्शत्रिकं तथा च षड्यागा भवन्तीति भावः ।

एकजिज्ञास्यकत्वादेककर्तृकत्वमुदाहरति –

द्वादशाध्यायानामिति ।

क्रमवदिति ।

यथा आग्नेयादीनां पाठक्रमानुसारेणानुष्ठानक्रमः यथा च द्वादशाध्यानां सङ्गत्या प्रथमाध्याये द्वितीयाध्यायाध्ययनक्रमस्तद्वदित्यर्थः ।

सौर्यं चरुं निर्वपेद्ब्रह्मवर्चसकामः, अर्यम्णो चरुं निर्वपेत्स्वर्गकामः, प्राजापत्यं चरुं निर्वपेच्छतकृष्णलमायुष्काम इति श्रुत्यवष्टम्भेन फलभेदं क्रमेणोपपादयन् एककर्तृकत्वाभावेन क्रमविवक्षाभावं दृढयति –

यथा सौर्येति ।

कृष्णलो नाम माषतुल्यः सुवर्णखण्डः ।

कामचिकित्सेति ।

कामशास्त्रे स्त्रीरूपः क्रमजिज्ञास्यः काम्यत इति कामो विषय इत्यर्थः । चिकित्साशास्त्रे शरीरं जिज्ञास्यमिति फलभेदान्नैककर्तृकत्वमतो न क्रमापेक्षेति भावः ।

तत्रेति ।

फलभेदजिज्ञास्यभेदयोर्मध्य इत्यर्थः ।

तद्विरुद्धमिति ।

कर्मफलविरुद्धमित्यर्थः ।

ब्रह्मज्ञानञ्चेति ।

यथा शुक्तिज्ञानं स्वकार्यभूतायां शुक्त्यधिष्ठानचैतन्यविषयकाज्ञाननिवृत्तौ स्वव्यतिरिक्तं साधनान्तरं नापेक्षते तथा ब्रह्मज्ञानमपि स्वव्यतिरिक्तं साधनान्तरं स्वकार्यभूतायां ब्रह्मचैतन्यविषयकाज्ञाननिवृत्तौ नापेक्षत इति भावः ।

न समुच्चय इति ।

समुच्चयासम्भवेनैककर्तृत्वं नास्तीति भावः ।

कृतिसाध्यत्वादिति ।

धर्मस्य कृतिसाध्यत्वात्कृतिजनकधर्मज्ञानकाले धर्मस्यासत्त्वमित्यर्थः । नन्वनुष्ठानं विना धर्मोत्पत्त्यभावे धर्मज्ञानं कथमिति चेन्न । अतीतानागतघटविज्ञानवत्तद्धर्मश्रवणेन तज्ज्ञानस्यानुभवसिद्धत्वादिति भावः ।