भाष्यरत्नप्रभाव्याख्या
पूर्णानन्दीया
 

तत्र हेतुः -

नित्येति ।

सदा सत्वादित्यर्थः ।

साध्यासाध्यत्वेन धर्मब्रह्मणोः स्वरूपभेदमुक्त्वा हेतुतोऽप्याह -

नेति ।

धर्मवत्कृत्यधीनं नेत्यर्थः ।

मानतोऽपि भेदमाह -

चोदनेति ।

अज्ञातज्ञापकं वाक्यमत्र चोदना । तस्याः प्रवृत्तिर्बोधकत्वं तद्वैलक्षण्याच्च जिज्ञास्यभेद इत्यर्थः ।

सङ्ग्रहवाक्यं विवृणोति -

या हीति ।

लक्षणं प्रमाणं ‘स्वर्गकामो यजेत’ इत्यादिवाक्यं हि स्वविषये धर्मे यागादिकरणकस्वर्गादिफलकभावनारूपे(यागादिकरणस्वर्गादीत्यादि- फलहेतुयागादिगोचरनियोगे वा हितसाधने यागादौ वा पुरुषं प्रवर्तयदेवावबोधयति । ‘अयमात्मा ब्रह्म’(बृ॰उ॰ २-५-१९) इत्यादि वाक्यं तु(वाक्यं तु इति नस्ति)* त्वमर्थं केवलमप्रपञ्चं ब्रह्म बोधयत्येव न प्रवर्तयति विषयाभावादित्यर्थः ।

नन्ववबोध एव विषयस्तत्राह -

न पुरुष इति ।

ब्रह्मचोदनया पुरुषोऽवबोधे न प्रवर्त्यत(प्रवर्तत)* इत्यत्र हेतुं पूर्ववाक्येनाह -

अवबोधस्येति ।

स्वजन्यज्ञाने स्वयं प्रमाणं न प्रवर्तकमित्यत्र दृष्टान्तमाह -

यथेति ।

मानादेव बोधस्य जातत्वात् , जाते च विध्ययोगात् , न वाक्यार्थज्ञाने पुरुषप्रवृत्तिः । तथा च प्रवर्तकमानमेयो धर्मः, उदासीनमानमेयं ब्रह्म, इति जिज्ञास्यभेदात् , न तन्मीमांसयोः क्रमार्थोऽथशब्द इति भावः ।

एवमथशब्दस्यार्थान्तरासम्भवात् आनन्तर्यवाचित्वे सति तदवधित्वेन पुष्कलकारणं वक्तव्यमित्याह -

तस्मादिति ।

उपदिश्यते ।

सूत्रकृतेति शेषः ।

तत्किमित्यत आह -

उच्यत इति ।

विवेकादीनामागमिकत्वेन प्रामाणिकत्वं पुरस्तादेवोक्तम् । लौकिकव्यापारात् मनस उपरमः शमः बाह्यकरणानामुपरमो दमः । ज्ञानार्थं विहितनित्यादिकर्मसन्यास उपरतिः । शीतोष्णादिद्वन्द्वसहनं तितिक्षा । निद्रालस्यप्रमादत्यागेन मनःस्थितिः समाधानम् । सर्वत्राऽऽस्तिकता श्रद्धा । एतत्षट्कप्राप्तिः शमदमादिसम्पत्( शमादिसम्पत्)*। अत्र विवेकादीनामुत्तरोत्तरहेतुत्वेनाधिकारिविशेषणत्वं मन्तव्यम् ।

जिज्ञास्यभेदे हेत्वन्तरपरत्वेनोत्तरभाष्यमवतारयति –

मानतोपीति ।

प्रमेययोर्धर्मब्रह्मणोः प्रमाणभेदादपि भेदमाहेत्यर्थः ।

अत्र धर्मे ब्रह्मणि च अज्ञातत्वं समानमित्यभेप्रेत्याह –

अज्ञातज्ञापकमिति ।

बोधकत्वमिति ।

चोदनानिष्ठं शाब्दबोधजनकत्वमित्यर्थः । तथा च चोदनाजन्यशाब्दबोधवैलक्षण्यात् बोधकत्ववैलक्षण्यं ततो प्रमाणवैलक्षण्यमिति भावः ।

स्वविषय इति – भाष्यप्रतीकमादाय मतभेदेन विषयभेदमाह –

स्वविषये धर्म इति ।

स्वशब्देन वाक्यमुच्यते । यागादौ वाक्येन पुरुषः प्रवर्त्यते तस्माद्वाक्यजन्यप्रवृत्तिविषयत्वमेव वाक्यविषयत्वमित्यर्थः ।

पुरुषमिति ।

पुरुषं प्रवर्तयदेव पुरुषमवबोधयतीत्यन्वयः ।

बोधयत्येवेत्येवकारव्यावर्त्यमाह –

न प्रवर्तयतीति ।

पुरुषमित्यनुषङ्गः ।

ननु ब्रह्मबाक्यं कुतः पुरुषं न प्रवर्तयतीत्याशङ्क्याह –

विषयाभावादिति ।

पुरुषप्रवृत्तिविषयाभावादित्यर्थः । यथा धर्मचोदनास्थले पुरुषप्रवृत्तेः साध्ययागादिरूपो विषयो विद्यते तद्वदत्र न कश्चिद्विषयोऽस्ति ब्रह्मणस्तु सिद्धस्य पुरुषप्रवृत्त्यसाध्यत्वेनाविषयत्वादिति भावः । ज्योतिष्टोमवाक्यस्य त्वया कर्म कर्तव्यम् इति कर्मप्रवृत्तिजनकत्वेनैव पुरुषं प्रति कर्मबोधकत्वं ब्रह्मवाक्यस्य तु त्वं ब्रह्माभिन्न इति जीवस्य ब्रह्मत्वबोधकत्वमेव, तथा चाखण्डार्थब्रह्मविषयकात्प्रवृत्त्यजनकाच्छाब्दबोधात्कर्मविशेष्यकपुरुषकर्तव्यत्वप्रकारकशाब्दबोधस्य प्रवृत्तिजनकस्य विलक्षणत्वेन चोदनारूपप्रमाणे बोधकत्ववैलक्षण्यमस्तीति समुदायार्थः ।

नन्वेतावता प्रवर्तकत्वेन बोधकत्वं धर्मवाक्यस्योक्तं तच्च ब्रह्मवाक्यस्याप्यस्त्येव ब्रह्मवाक्येन ज्ञाने पुरुषः प्रवर्त्यत इति प्रसिद्ध्या ज्ञानरूपे विषये पुरुषप्रवर्तकत्वेनैव तस्य ब्रह्मबोधकत्वादिति शङ्कते –

नन्विति ।

अर्थानुसारात् व्युत्क्रमेण भाष्यमवतारयति –

ब्रह्मचोदनयेति ।

स्वजन्यज्ञान इति ।

अवबोधस्य ब्रह्मवाक्यजन्यत्वाद्ब्रह्मवाक्यं स्वजन्यज्ञाने स्वयं प्रमाणमेव न प्रवर्तकमित्यत्र दृष्टान्तमाहेत्यर्थः ।

मानादेवेति ।

आदिशब्देन प्रमेयादिकं ग्राह्यम् ।

वाक्यार्थज्ञान इति ।

ब्रह्मात्मैक्यज्ञान इत्यर्थः । प्रमाणप्रमेययोः सत्त्वे ज्ञानं स्वयमेवोत्पद्यते तत्र न प्रवृत्तिर्हेतुरन्यथा दुर्गन्धादिज्ञानं न स्यादिति भावः ।

प्रवृत्तिजनकत्वाजनकत्ववैलक्षण्याच्छाब्दबोधवैलक्षण्यं वक्तव्यं शाब्दबोधवैलक्षण्याद्बोधकत्ववैलक्षण्येन शब्दप्रमाणवैलक्षण्यस्य सत्त्वात्प्रमेयजिज्ञास्यवैलक्षण्यं च वक्तव्यम् , तस्मात् जिज्ञास्यभेदान्नैककर्तृकत्वं तन्त्रद्वयस्य ततः क्रमापेक्षाभावेन क्रमविवक्षाया अभावान्नानन्तर्योक्तिद्वारा क्रमार्थोऽथशब्द इत्येतमर्थं हृदि निधाय सङ्ग्रहेण भाष्यार्थं परिष्करोति –

तथा चेति ।

उदासीनत्वं प्रवर्तकभिन्नत्वम् ।

स्वयमवान्तरप्रकृतमुपसंहृत्य परमप्रकृतोपसंहारार्थकभाष्यमवतारयति –

एवमिति ।

उक्तरीत्येत्यर्थः ।

तच्छब्दार्थकथनद्वारा उक्तरीतिमेवाह –

अथशब्दस्येति ।

किमपीत्यंशस्यार्थमाह –

पुष्कलकारणमिति ।

एवं समुच्चयवादिना यदुक्तं तत्सर्वं यस्मात् खण्डितं तस्मादथशब्दस्यार्थान्तरत्वासम्भवात्सूत्रे यदनन्तरं ब्रह्मजिज्ञासा उपदिश्यते तत्पुष्कलकारणमानन्तर्यावधिभूतं वक्तव्यमित्याहेत्यर्थः ।

भाष्ये –

अवबोधस्य चोदनाऽजन्यत्वादिति ।

अजन्यत्वादिति च्छेदः । तस्मात्किमपि वक्तव्यमिति । यदनन्तरं ब्रह्मजिज्ञासा उपदिश्यते तत्पुष्कलकारणं वक्तव्यमिति तच्छब्दाध्याहारेण भाष्यं योजनीयम् ।

अमुत्रेति ।

परलोकेपीत्यर्थः ।

ज्ञातुं चेति ।

अपरोक्षीकर्तुं चेत्यर्थः ।

तस्मादथशब्देनेति |

तस्मादन्वयव्यतिरेकाभ्यां साधनचतुष्टयस्य हेतुत्वादित्यर्थः ।

व्याख्याने –

पुरस्तादेवोक्तमिति ।

पूर्वस्मिन्सम्बन्धग्रन्थ एवोपपादितमिति भावः ।