अथ चतुर्थवर्णकम्
प्रथमवर्णके बन्धस्याध्यासत्वोक्त्या विषयादिप्रसिद्धावपि ब्रह्मप्रसिद्ध्यप्रसिद्ध्योर्विषयादिसम्भवासम्भवाभ्यां शास्त्रारम्भसन्देहे पूर्वपक्षमाह -
तत्पुनरिति । -
पुनःशब्दो वर्णकान्तरद्योतनार्थः । यदि वेदान्तविचारात्प्रागेव ब्रह्म ज्ञातं(ब्रह्मज्ञानं)* तर्ह्यज्ञातत्वरूपविषयत्वं नास्ति, अज्ञानाभावेन तन्निवृत्तिरूपफलमपि नास्तीति न विचारयितव्यम् । अथाज्ञातं केनापि तर्हि तदुद्देशेन विचारः कर्तुं न शक्यते, अज्ञातस्योद्देशायोगात् । तथा च बुद्धावनारूढस्य विचारात्मकशास्त्रेण वेदान्तैश्च प्रतिपादनायोगात् । तत्प्रतिपाद्यत्वरूपः सम्बन्धो नास्तीति ज्ञानानुत्पत्तेः फलमपि नास्तीत्यनारभ्यं शास्त्रमित्यर्थः ॥
आपातप्रसिद्ध्या विषयादिलाभादारम्भणीयमिति सिद्धान्तयति -
उच्यत इत्यादिना ।
प्रसिद्धं तावदित्यर्थः । अस्तित्वस्याप्रकृतत्वेनास्तिपदस्य प्रसिद्धिपरत्वात् ।
ननु केन मानेन ब्रह्मणः प्रसिद्धिः । न च ‘सत्यं ज्ञानमनन्तं ब्रह्म’ इति श्रुत्या सेति वाच्यम् । ब्रह्मपदस्य लोके सङ्गतिग्रहाभावेन तद्घटितवाक्यस्याबोधकत्वादित्याशङ्क्य ब्रह्मपदव्युत्पत्त्या प्रथमं तस्य निर्गुणस्य सगुणस्य च प्रसिद्धिरित्याह -
ब्रह्मशब्दस्य हीति ।
अस्यार्थः श्रुतौ सूत्रे (चेत्यधिकः पाठः)*ब्रह्मपदस्य प्रयोगान्यथानुपपत्त्या कश्चिदर्थोऽस्तीति ज्ञायते, प्रमाणवाक्ये निरर्थकशब्दप्रयोगादर्शनात् । स चार्थो महत्त्वरूप इति व्याकरणान्निश्चीयते, ‘बृहि वृद्धौ’ इति स्मरणात् । सा च वृद्धिर्निरवधिकमहत्त्वमिति सङ्कोचकाभावात् , श्रुतावनन्तपदेन सह प्रयोगाच्च ज्ञायते । निरवधिकमहत्त्वं चान्तवत्त्वादिदोषवत्त्वे सर्वज्ञत्वादिगुणहीनत्वे च न सम्भवति, लोके गुणहीनदोषवतोरल्पत्वप्रसिद्धेः । अतो बृंहणाद्ब्रह्मेति व्युत्पत्त्या देशकालवस्तुतः परिच्छेदाभावरूपं नित्यत्वं प्रतीयते । अविद्यादिदोषशून्यत्वं शुद्धत्वम् । जाड्यराहित्यं बुद्धत्वम् । बन्धकालेऽपि स्वतोबन्धाभावो मुक्तत्वं च प्रतीयते । एवं सकलदोषशून्यं निर्गुणं प्रसिद्धम् । तथा सर्वज्ञत्वादिगुणकं च तत्पदवाच्यं प्रसिद्धम् । ज्ञेयस्य कार्यस्य वा परिशेषेऽल्पत्वप्रसङ्गेन सर्वज्ञत्वस्य सर्वकार्यशक्तिमत्त्वस्य च लाभादिति ।
एवं तत्पदात्प्रसिद्धेरप्रमाणत्वेनापातत्वादज्ञानानिवर्तकत्वाज्जिज्ञासोपपत्तिरित्युक्त्वा त्वम्पदार्थात्मनापि ब्रह्मणः प्रसिद्ध्या तदुपपत्तिरत्याह -
सर्वस्येति ।
सर्वस्य लोकस्य योऽयमात्मा तदभेदाद्ब्रह्मणः प्रसिद्धिरित्यर्थः ।
नन्वात्मनः प्रसिद्धिः केत्यत आह -
सर्वो हीति ।
अहमस्मीति न प्रत्येतीति न किन्तु प्रत्येत्येव । सैव सच्चिदात्मनः प्रसिद्धिरित्यर्थः ।
आत्मनः कुतः सत्तेति शून्यमतमाशङ्क्याह -
यदि हीति ।
आत्मनः शून्यस्य प्रतीतौ अहं नास्मीति लोको जानीयात् । लोकस्तु अहमस्मीति जानाति तस्मादात्मनोऽस्तित्वप्रसिद्धिरित्यर्थः ।
आत्मप्रसिद्धावपि ब्रह्मणः किमायातं तत्राह -
आत्मा चेति ।
‘अयमात्मा ब्रह्म’(बृ॰उ॰ २-५-१९) इत्यादिश्रुतेरिति भावः ।
प्रसिद्धिपक्षोक्तं दोषं पूर्वपक्षेण स्मारयति -
यदीति ।
अज्ञातत्वाभावेन विषयाद्यभावादविचार्यत्वं प्राप्तमित्यर्थः । यथा इदं रजतमिति वस्तुतः शुक्तिप्रसिद्धिस्तद्वत् अहमस्मीति सत्त्वचैतन्यरूपात्मत्वसामान्येन(सत्त्वचैतन्यरूपत्वसामान्येन)* वस्तुतो ब्रह्मणः प्रसिद्धिः, नेयं पूर्णानन्दब्रह्मत्वरूपविशेषगोचरा, वादिनां विवादाभावप्रसङ्गात् ।
न हि शुक्तित्वविशेषदर्शने सति रजतं रङ्गमन्यद्वेति विप्रतिपत्तिरस्ति । अतो विप्रतिपत्त्यन्यथानुपपत्त्या सामान्यतः प्रसिद्धावपि विशेषस्याज्ञातत्वाद्विषयादिसिद्धिरिति सिद्धान्तयति -
न इत्यादिना ।
सामान्यविशेषभावः स्त्वात्मनि(स्वात्मनि)* सच्चित्पूर्णादिपदवाच्यभेदात्कल्पित इति मन्तव्यम् ।
तत्र स्थूलसूक्ष्मक्रमेण विप्रतिपत्तीरुपन्यस्यति -
देहमात्रमित्यादिना ।
शास्त्रज्ञानशून्याः प्राकृताः ।
प्रथमवर्णके विषयप्रयोजने आक्षिप्य तत्सद्भावसाधनेन विचारकर्तव्यता समर्थिता सम्प्रति पुनस्ते सम्बन्धं चाक्षिप्य तत्साधनद्वारा तत्कर्तव्यतां साधयितुं व्यवहितं वृत्तमनुवदन् वर्णकान्तरपरत्वेन भाष्यमवतारयति –
प्रथमवर्णक इति ।
अधिकरणमारचयति –
ब्रह्मप्रसिद्धीति ।
तर्ह्यज्ञातत्वेति ।
प्रत्यक्षादिना यदज्ञातं वस्तु तत्प्रतिपाद्यं सद्विषयो भवति ज्ञातेऽर्थे हि शास्त्रमकिञ्चित्करं भवति तस्मात् ज्ञातस्य ब्रह्मणः शास्त्रेणाप्रतिपाद्यत्वाद्विषयत्वं नास्तीति भावः ।
’यदि प्रसिद्ध’मित्यादिभाष्यस्य विषयप्रयोजनाक्षेपे मुख्यतात्पर्यमुक्त्वा ’अथाप्रसिद्ध’मित्यादिभाष्यस्य सम्बन्धप्रयोजनाक्षेपे मुख्यतात्पर्यमाह –
अथाज्ञातमिति ।
इति ज्ञानानुत्पत्तेरिति ।
ब्रह्मणः अप्रतिपाद्यत्वेन सम्बन्धस्याप्रसिद्धत्वादखण्डब्रह्मसाक्षात्कारस्यानुत्पत्तेरित्यर्थः । ज्ञानं प्रति वेदान्तविचारस्य हेतुत्वेन विचारात्प्रागापातज्ञानमपि नास्तीति पूर्वपक्षग्रन्थार्थः ।
अनधीतसाङ्गस्वाध्यायस्य पुरुषस्य विचारात्प्रागापातज्ञानासम्भवेप्यधीतस्वाङ्गस्वाध्यायस्य पुरुषस्य विचारात्प्रागापातज्ञानं सम्भवत्येव तथा च निश्चयं प्रति विचारस्य हेतुत्वं न ज्ञानं प्रतीति सिद्धान्ततात्पर्यमाह –
आपातप्रसिध्येति ।
वेदान्तानामपरोक्षनिश्चायकत्वेपि वादिभिरन्यथान्यथार्थस्य प्रतिपादितत्वाद्वेदान्तेभ्यो जायमानं ज्ञानमप्रामाण्यशङ्काकलङ्कितस्वरूपापातं भवति । तथा चापातज्ञानविषयत्वेन ब्रह्मणः प्रसिद्धिरापातप्रसिद्धिस्तयेत्यर्थः ।
व्याकरणाद्बृहत्वाद्ब्रह्मेति व्युत्पत्त्या सर्वोत्कृष्टत्वस्वरूपं निरवधिकमहत्त्वाभिन्नं व्यापकं निश्चीयते तच्च सर्वोत्कष्टत्वरूपव्यापकत्वं नित्यशुद्धबुद्धमुक्तत्वादिकमन्तरा सर्वज्ञत्वसर्वशक्तित्वादिकमन्तरा च न सम्भवति तस्माद्बृहत्वाद्ब्रह्मेति व्युत्पत्त्यैव सर्वोत्कृष्टलाभार्थं नित्यशुद्धत्वादिकं सर्वज्ञत्वादिकं च प्रतीयते तथा च व्युत्पाद्यमानब्रह्मशब्देन सगुणं निर्गुणं च ब्रह्म प्रसिद्धमित्येतमर्थं स्फुटीकर्तुं शङ्कासमाधानाभ्यामुत्तरभाष्यमवतारयति –
ननु केन मानेन ब्रह्मण इत्यादिना शक्तिमत्त्वलाभादित्यन्तेन ।
सङ्गतिग्रहेति ।
शक्तिग्रहेत्यर्थः ।
ब्रह्मपदव्युत्पत्त्येति ।
व्यापकत्वरूपाद्बृहत्वाद्ब्रह्मेति ब्रह्मपदव्युत्पत्त्यनुसरणेनेत्यर्थः ।
ननु जातिजीवकमलासनवेदेभ्यो विलक्षणे निरतिशयपुरुषार्थे मुमुक्षोर्जिज्ञासायोग्ये वस्तुनि ब्रह्मपदव्युत्पत्त्यापि ब्रह्मशब्दस्य कथं वृत्तिरित्याशङ्क्याह –
अस्यार्थ इति ।
नन्वेवमपि यत्किञ्चिदापेक्षिकमहत्त्वविशिष्टं वस्त्ववगम्यतामित्यत आह –
सा च वृद्धिरिति ।
निरवधिकमहत्त्वं सर्वतो निरवग्रहमहत्त्वमित्यर्थः । सर्वोत्कृष्टत्वमिति यावत् ।
सङ्कोचकाभावादिति ।
उपपदं प्रकरणादिकं वा सङ्कोचकं, तदभावादित्यर्थः । यथा बृहद्घट इत्यत्र घटपदसमभिव्याहारादापेक्षिकं बृहत्वं प्रतीयते, तद्वदत्र किमपि सङ्कोचकं न प्रतीयते प्रत्युतासङ्कोचक एव, अनन्तपदसहप्रयोगरूपज्ञापकं चास्ति तथा च निरतिशयमहत्त्वसम्पन्नं वस्तु ब्रह्मशब्दार्थ इति भावः ।
ननु नित्यत्वादयो गुणाः न ब्रह्मशब्दार्थोपयोगिनः अतस्ते कथं ब्रह्मशब्देनावगम्यन्ते तथा च नित्यशुद्धत्वादयोऽर्थाः प्रतीयन्त इति भाष्यं कथमित्याशङ्क्य गुणतोऽपकृष्टस्य वस्तुनः अल्पत्वबुद्धिदर्शनान्नित्यत्वादिगुणाः ब्रह्मपदार्थोपयोगित्वेन प्रतीयन्त एवेत्याह –
निरवधिकमहत्त्वं चेति ।
अन्तवत्त्वमनित्यत्वम् । आदिशब्देनाशुद्धत्वादिकं गृह्यते ।
अल्पत्वेति ।
वस्तुनोल्पत्वं नाम देशकालवस्तुपरिच्छेद इत्यर्थः ।
लोके गुणहीनं दोषभूयिष्ठं वस्तु अल्पमिति मन्यते गुणभूयिष्ठं दोषहीनं वस्तु महदिति मन्यते तस्माद्ब्रह्मवस्तुनः अल्पत्वनिराकरणेन गुणतो महत्त्वसम्पादनाय बृहत्त्वाद्ब्रह्मेति व्युत्पत्यैव नित्यत्वादयः प्रतीयन्त इत्याह –
अत इति ।
बृहत्वबृंह्मणत्वयोरेकार्थत्वमभिप्रेत्याह –
बृंहणत्वादिति ।
कल्पतरुकारैस्तु बृहत्वं व्यापकत्वं बृंहणत्वं शरीरादिपरिणामरूपवृद्धिहेतुत्वमिति तयोर्भेदः उक्तः । अस्मिन् ग्रन्थे सा च वृद्धिरित्याद्युपक्रमानुसारेण तयोरभेद एव ग्रन्थकाराभिप्रेत इति तदभिप्रायेणेदं व्याख्यातमिति भावः । शुद्धत्वं व्युत्पत्त्या प्रतीयत इति पूर्वेणान्वयः ।
ननु जातिजीवकमलासनादौ ब्रह्मशब्दप्रयोगे सत्यपि नैतावानर्थः प्रतीयते कथमत्र बृहतेर्धातोरर्थानुगमादप्येतादृशस्यार्थस्य प्रतिपत्तिरित्याशङ्क्याह –
एवं सकलदोषशून्यमिति ।
नित्यत्वसर्वज्ञत्वादिविशिष्टः सगुणनिर्गुणस्वरूपः परिपूर्णोर्थः ब्रह्मपदव्युत्पत्त्या प्रसिद्धः सन् निर्बाधं प्रतीयते जात्यादौ तु सङ्कोचकस्य सत्त्वान्नैतादृशोर्थः प्रतीयत इति भावः ।
तथेति ।
यथा व्युत्पत्यनुसरणात् निर्गुणं प्रसिद्धं तथा सगुणमपि तस्मादेव प्रसिद्धमिति भावः ।
तत्पदवाच्यस्य चेतनस्यापि सर्वविषयज्ञानाभावे सर्वकार्यनियमनशक्त्यभावे च प्रोच्यमाने सति कस्यचिदर्थस्य ज्ञानाभावात्कस्यचित्कार्यस्य उत्पादनशक्त्यभावाच्चापकर्षप्राप्त्या अल्पत्वं स्यात्तद्व्यावृत्त्यर्थं सर्वज्ञत्वादिकं वक्तव्यमित्याह –
ज्ञेयस्य कार्यस्य चापरिशेष इति ।
कस्यचिज्ज्ञेयस्य वस्तुनः ईश्वरज्ञानाविषयत्वं कस्यचित्कार्यस्य वा ईश्वरशक्त्यविषयत्वमित्यर्थः । ज्ञेयस्य परिशेषः ज्ञानाविषयत्वं कार्यस्य परिशेषः शक्त्यविषयत्वमिति भेदः ।
अल्पत्वप्रसङ्गेनेति ।
ईश्वरस्याल्पत्वप्रसङ्गेनेत्यर्थः ।
भाष्ये -
बृहतेर्धातोरिति ।
बृहतेर्धातोर्योर्थः परिपूर्णरूपः तेनानुगमात्सम्बन्धान्नित्यत्वादीनामित्यर्थः । नित्यत्वादयः धात्वर्थेन परपूर्णवस्तुना सह सम्बन्धसत्त्वाद्ब्रह्मशब्देन प्रतीयन्त इति भावः ।
सर्वस्यात्मत्वाच्चेति ।
ब्रह्मण इति शेष इति केचित् ।
व्याख्याने -
एवमिति ।
उक्तरीत्येत्यर्थः । तत्पदात्प्रसिद्धेरित्यादिग्रन्थः स्पष्टार्थः ।
न प्रत्येतीति नेति ।
न जानातीति यत्तन्नेत्यर्थः । अविचार्यत्वं प्राप्तमित्यर्थ इत्यतः प्राक्तनग्रन्थस्त्वतिरोहितार्थः ।
आपातप्रसिद्ध्या विषयादिसिद्धिः साधिता सम्प्रति विशेषाप्रसिद्ध्यापि तां साधयतीत्यवतारयति –
यथेदं रजतमिति ।
यथा इदं रजतमितीदन्त्वेन सामान्यरूपेण शुक्तेः प्रसिद्धिः तथा अहमस्मीत्यात्मत्वसामान्यधर्मपुरस्कारेण ब्रह्मणः प्रसिद्धिरस्ति न त्वशनायाद्यतीतत्वादिविशेषरूपेण धर्मेण इति भावः ।
वाच्यभेदादिति ।
सत्यपदं मुख्यामुख्यसत्स्वरूपब्रह्माकाशशबलरूपे सत्ये व्युत्पन्नम् , ज्ञानपदं चैतन्यान्तःकरणवृत्तिरूपमुख्यामुख्यज्ञानद्वयशबलरूपे ज्ञाने व्युत्पन्नम् , आनन्दपदं च प्रत्यग्ब्रह्मबुद्धिवृत्तिरूपमुख्यामुख्यानन्दद्वयशबलरूपे आनन्दे व्युत्पन्नम् , एवं नित्यशुद्धबुद्धमुक्तादीन्यपि पदानि मुख्यामुख्यतत्तदद्वयशबलरूपे तस्मिन् व्युत्पन्नानीति द्रष्टव्यम् । अत्र सत्यता त्रिविधा मुख्यनिष्ठाऽमुख्यनिष्ठा शबलनिष्ठा चेति । एतत्सर्वं सङ्क्षेपशारीरके सर्वज्ञात्ममुनिभिः विस्तरेणोपपादितम् , तथा च शबलरूपं सत्यं सत्यपदवाच्यार्थः । अत्र सत्यत्वं सामान्यधर्मः मुख्यामुख्यशबलनिष्ठसत्यत्वादि विशेषधर्मः । एवं जीवेश्वरोभयरूपात्मा आत्मपदवाच्यार्थः । अत्रात्मत्वं सामान्यधर्मः जीवात्मत्वं परमात्मत्वमुभयनिष्ठात्मत्वं चेति त्रयो विशेषधर्माः । तथा मुख्यब्रह्म – कमलासनाद्यमुख्यब्रह्म उभयरूपब्रह्मेति ब्रह्मत्रयं तथा चोभयरूपं ब्रह्म ब्रह्मपदवाच्यार्थः । अत्र ब्रह्मत्वं सामान्यधर्मः मुख्यामुख्योभयनिष्ठब्रह्मत्वादि विशेषधर्माः । सर्वत्र मुख्यब्रह्मरूपं शुद्धचैतन्यं लक्ष्यार्थः अत एव सत्यादिपदानां न पर्यायता लक्ष्यार्थाभेदेऽपि वाच्यार्थानां भिन्नत्वात् तथा च वाच्यार्थभेदादेव ब्रह्मात्मनि सामान्यधर्मः विशेषधर्मश्च सिद्ध्यति । एवं सति अहमस्मीति सत्यचैतन्यरूपात्मत्वेन सामान्यधर्मेणात्मत्वप्रसिद्धिरस्ति न तु ब्रह्माहमस्मीति लक्ष्यार्थशुद्धचैतन्यरूपाखण्डब्रह्मनिष्ठमुख्यब्रह्मत्वेन विशेषधर्मेण अन्यथा वादिनां विप्रतिपत्तिर्न स्यादिति भावः ।
भाष्ये -
विप्रतिपत्तेरिति ।
विरुद्धा हि प्रतिपत्तिः तस्या इत्यर्थः । देहमात्रमिति मात्रशब्देन देहातिरिक्तं स्वतन्त्रचैतन्यं नास्तीत्युच्यते ।
आत्मेति ।
अहंप्रत्ययालम्बनमित्यर्थः । लोकायतिकाश्चार्वाका इत्यर्थः ।
इन्द्रियाण्येवेति ।
इन्द्रियाणां चक्षुरादिमनःपर्यन्तानां चेतनत्वमहंप्रत्ययविषयत्वरूपात्मत्वं च मन्यन्त इत्यर्थः ।
मन इत्यन्य इति ।
मनसः चेतनत्वमात्मत्वं च मन्यन्त इत्यर्थः ।
विज्ञानमात्रमिति ।
प्रत्यभिज्ञानिर्वाहाय क्षणिकविज्ञानसन्ततिरेवाहंप्रत्ययालम्बनरूपात्मेति मन्यन्त इत्यर्थः ।
शून्यमिति ।
असत्स्वरूप एवात्मेति मन्यन्त इत्यर्थः ।
अस्ति तद्व्यतिरिक्त इति ।
जीवव्यतिरिक्तोस्तीत्यर्थः ।
आत्मा स इति ।
सः ईश्वरः भोक्तुर्जीवस्य आत्मा स्वरूपमिति वेदान्तिनो वदन्तीत्यर्थः ।
विप्रतिपन्ना इति ।
विरुद्धप्रतिपत्तिमापन्ना इत्यर्थः ।
तदाभासेति ।
अत्र तच्छब्देन युक्तिवाक्ये गृह्येते ।
यत्किञ्चित्प्रतिपद्यमाना इति ।
अन्त्यात्पक्षादर्वाचीनं कञ्चित्पक्षं प्राप्यमाणा इत्यर्थः ।
व्याख्याने –
विप्रतिपत्तीरुपन्यस्यतीति ।
अत्र विरुद्धार्थप्रतिपादकं वाक्यं विप्रतिपत्तिशब्दार्थः ।