भाष्यरत्नप्रभाव्याख्या
पूर्णानन्दीया
 

वेदबाह्यमतान्युक्त्वा तार्किकादिमतमाह -

अस्तीति ।

साङ्ख्यमतमाह -

भोक्तेति ।

किमात्मा देहादिरूपः उत तद्भिन्न इति विप्रतिपत्तिकोटित्वेन देहेन्द्रियमनोबुद्धिशून्यान्युक्त्वा तद्भिन्नोऽपि कर्तृत्वादिमान्न वेति विप्रतिपत्तिकोटित्वेन तार्किकसाङ्ख्यपक्षावुपन्यस्याकर्तापीश्वराद्भिन्नो न वेति विवादकोटित्वेन योगिमतमाह -

अस्ति तद्व्यतिरिक्त ईश्वर इति ।

निरतिशयत्वं गृहीत्वा ईश्वरः सर्वज्ञत्वादिसम्पन्न इति योगिनो वदन्ति ।

भेदकोटिमुक्त्वा सिद्धान्तकोटिमाह -

आत्मा स भोक्तुरिति ।

भोक्तुर्जीवस्याकर्तुः साक्षिणः स ईश्वर आत्मा स्वरूपमिति वेदान्तिनो वदन्तीत्यर्थः ।

विप्रतिपत्तीरुपसंहरति -

एवं बहव इति ।

विप्रतिपत्तीनां प्रपञ्चो निरासश्च विवरणोपन्यासे(विवरणोपन्यासेन)* दर्शितः सुखबोधायेतीहोपरम्यते । तत्र युक्तिवाक्याश्रयाः सिद्धान्तिनः जीवो ब्रह्मैव आत्मत्वात् , ब्रह्मवत् इत्यादि युक्तेः, ‘तत्त्वमसि’(छा॰उ॰ ६-८-७) इत्यादिश्रुतेश्चाबाधितायाः सत्त्वात् । अन्ये तु देहादिरात्मा, अहंप्रत्ययगोचरत्वात् , व्यतिरेकेण घटादिवदित्यादियुक्त्याभासम् , ‘स वा एष पुरुषोन्नरसमयः’(तै॰उ॰ २-१-१) इन्द्रियसंवादे ‘चक्षुरादयस्ते ह वाचमूचुः’(बृ॰उ॰ १-३-२) ‘मन उवाच’, ‘योऽयं विज्ञानमयः’(बृ॰उ॰ ४-४-२२), ‘असदेवेदमग्र आसीत्’(छा॰उ॰ ३-१९-१), ‘कर्ता भोक्ता(बोद्धा)*'(प्र॰उ॰ ४-९), ‘अनश्नन्नन्यः’(श्वे॰उ॰ ४-६), ‘आत्मानमन्तरो यमयति’ इति वाक्याभासं चाश्रिता इति विभागः । देहादिरनात्मा, भौतिकत्वात् , दृश्यत्वात् इत्यादिन्यायैः, ‘आनन्दमयोऽभ्यासात्’(ब्र॰सू॰ १-१-१२)* इत्यादिसूत्रैश्चाभासत्वं वक्ष्यते ।

ननु सन्तु विप्रतिपत्तयस्तथापि यस्य यन्मते श्रद्धा तदाश्रयणात्तस्य स्वार्थः सेत्स्यति किं ब्रह्मविचारारम्भेणेत्यत आह -

तत्राविचार्येति ।

ब्रह्मात्मैक्यज्ञानादेव(ब्रह्मात्मैक्यविज्ञानादेव)* मुक्तिरिति वस्तुगतिः । मतान्तराश्रयणे तदभावान्मोक्षासिद्धिः । किञ्चात्मानमन्यथा ज्ञात्वा तत्पापेन संसारान्धकूपे पतेत् , ‘अन्धं तमः प्रविशन्ति’ ‘ये के चात्महनो जनाः’(ई॰उ॰ ३) इति श्रुतेः, ‘योऽन्यथा सन्तमात्मानमन्यथा प्रतिपद्यते । किं तेन न कृतं पापं चौरेणात्मापहारिणा ॥ ’ इति वचनाच्चेत्यर्थः ।

अतः सर्वेषां मुमुक्षूणां निःश्रेयसफलाय वेदान्तविचारः कर्तव्य इति सूत्रार्थमुपसंहरति -

तस्मादिति ।

बन्धस्याध्यस्तत्वेन विषयादिसद्भावादगतार्थत्वात् , अधिकारिलाभादापातप्रसिद्ध्या विषयादिसम्भवाच्च वेदान्तविषया मीमांसापूजिता विचारणा, वेदान्ताविरोधिनो ये तर्कास्तन्त्रान्तरस्थास्तान्युपकरणानि यस्याः सा निश्रेयसायारभ्यत इत्यर्थः ।

ननु सूत्रे विचारवाचिपदाभावात्तदारम्भः कथं सूत्रार्थ इत्यत आह -

ब्रह्मेति ।

ब्रह्मज्ञानेच्छोक्तिद्वारा विचारं लक्षयित्वा तत्कर्तव्यतां ब्रवीतीति भावः । एवं प्रथमसूत्रस्य चत्वारोऽर्थाः व्याख्यानचतुष्टयेन दर्शिताः । सूत्रस्य चानेकार्थत्वं भूषणम् । नन्विदं सूत्रं शास्त्राद्बहिः स्थित्वा शास्त्रमारम्भयति अन्तर्भूत्वा वा ? आद्ये तस्य हेयता, शास्त्रासम्बन्धात् । द्वितीये तस्यारम्भकं वाच्यम् । न च स्वयमेवारम्भकम् , स्वस्मात्स्वोत्पत्तेरित्यात्माश्रयात् । न चारम्भकान्तरं पश्याम इति । उच्यते - श्रवणविधिना आरब्धमिदं सूत्रं(शास्त्रं)* शास्त्रान्तर्गतमेव शास्त्रारम्भं प्रतिपादयति । यथाध्ययनविधिर्वेदान्तर्गत एव कृत्स्नवेदस्य अध्ययनं(अध्ययने)* प्रयुङ्क्ते तद्वदित्यनवद्यम् ॥ १ ॥

तार्किकादीति ।

आदिशब्देन प्राभाकरादयो गृह्यन्ते । विप्रतिपत्तिकोटित्वेन देहेन्द्रियेति । संशयरूपविप्रतिपत्तिप्रथमकोटित्वेन देहेन्द्रियेत्यर्थः ।

अकर्तापीति ।

अकर्तापि जीव इत्यर्थः ।

निरतिशयसत्त्वमिति ।

निरतिशयसत्त्वोपाधिकः जीवातिरिक्तः ईश्वर इति वदन्तीति भावः । निरतिशयसत्त्वरूपो गुणः योगिमते पारमार्थिकसत्यः सिद्धान्ते तु मायारूपत्वेन असत्य इति मतयोर्भेदः ।

स ईश्वर इति ।

योगिमतप्रसिद्ध ईश्वर इत्यर्थः ।

प्रतीकमादायात्मपदस्यार्थमाह –

आत्मास्वरूपमिति ।

सोपाधिकतया जीवस्य भोक्तृत्वं कर्तृत्वं च वर्तते स्वतस्त्वभोक्तृत्वमकर्तृत्वं साक्षित्वं च तथा च जीवातिरिक्तो नेश्वर इति जीवब्रह्मणोरैक्यं वेदान्तिनो वदन्तीति भावः ।

विप्रतिपत्तीनामिति ।

पक्षान्तराणामित्यर्थः ।
तासां विप्रतिपत्तीनां सुखबोधार्थमेव हि ।
प्रपञ्चोपि निरासश्च सङ्ग्रहेणोच्यते मया ॥
तथाहि केचित्तु वक्ष्यमाणश्रुतियुक्तिभ्यां स्थूलोऽहं कृशोहमित्याद्यनुभवाच्च स्थूलशरीरमात्मेति वदन्ति । केचित्तूक्तश्रुतियुक्त्यनुभवानामाभासत्वान्मम शरीरमिति भेदप्रतीतेरिन्द्रियाणामभावे शरीरचलनाभावान्न शरीरस्यात्मत्वं किन्तु वक्ष्यमाणश्रुतियुक्तिभ्यां काणोऽहं बधिरोऽहमित्याद्यनुभवाच्चेन्द्रियाणामात्मत्वत्वमिति वदन्ति । अन्ये तूक्तश्रुतियुक्त्यनुभवानामाभासत्वान्ममेन्द्रियाणीति भेदप्रतिपत्तेः स्वप्ने चक्षुरादीन्द्रियव्यवहाराभावेप्यहमित्यात्मनि परिपूर्णप्रत्ययान्मनःसम्बन्धाभावे इन्द्रियाणां चलनाभावान्नेन्द्रियाणात्मत्वं किन्तु वक्ष्यमाणश्रुतियुक्तिभ्यां सङ्कल्पवानहं विकल्पवानहमित्याद्यनुभवाच्च मन आत्मेति वदन्ति । अपरे तूक्तश्रुतियुक्त्यनुमानानामाभासत्वान्मम मन इति भेदप्रतीतेरहं मन इत्यप्रतीतेः कर्तृभावे करणशक्त्यभावाच्च मनसो नात्मत्वं किन्तु वक्ष्यमाणश्रुतियुक्तिभ्यामहं कर्ता भोक्तेत्याद्यनुभवाच्च बुद्धिरात्मेति वदन्ति । इतरे तूक्तश्रुतियुक्त्यनुभवानामाभासत्वान्मम बुद्धिरिति प्रतीतेरहं बुद्धिरित्यप्रतीतेर्न बुद्धेरात्मत्वं किन्तु वक्ष्यमाणश्रुतियुक्तिभ्यां सुषुप्तौ नान्यदस्त्येव नाहमप्यासमिति व्युत्थितजनस्य सर्वाभावपरामर्शानुभवाच्च शून्यमात्मेति वदन्ति । अन्ये तूक्तश्रुतियुक्त्यनुभवानामाभासत्वात्सुखमहमस्वाप्सं न किञ्चिदवेदिषमिति व्युत्थितस्य परामर्शान्यथानुपपत्त्या सुषुप्तावज्ञानादिसाक्षित्वेन परिपूर्णात्मप्रत्ययाङ्गीकारादहमुल्लेखिप्रत्यभिज्ञानाच्च न शून्यस्यात्मत्वं किन्तु वक्ष्यमाणश्रुतेः ममप्रत्ययालम्बनस्याहमुल्लेखमानस्य शरीरादेः भोक्तृत्वाद्यनुपपत्तिरूपयुक्तेः कर्ता भोक्तेत्याद्यनुभवाच्च देहादिभ्यो व्यतिरिक्तः कर्ता भोक्ता प्रत्यभिज्ञानात् स्थिरः आत्मेति वदन्ति । अपरे तु कर्तृत्वं हि क्रियावेशः न हि सर्वगतस्य निरवयवस्यात्मनः परिणामलक्षणक्रियान्वयः सम्भवति । न च बुद्धेः कर्तृत्वमात्मनो भवतीति वाच्यम् । तन्मते तादात्म्याध्यासाभावात् , तस्मात्कर्तृत्वांशे उक्तश्रुतियुक्त्यनुभवानामाभासत्वाच्चात्मनो न कर्तृत्वं किन्तु वक्ष्यमाणश्रुतेः दृश्यावभासत्वमात्रात्मकभोक्तृत्वोपपत्तिरूपयुक्तेः भोक्तेत्यनुभवाच्च केवलं भोक्तैवात्मेति वदन्ति । अन्ये तु वक्ष्यमाणश्रुतेः सर्वज्ञत्वाद्यनुपपत्तिरूपयुक्तेः नाहमीश्वरः किन्तु संसारीत्यनुभवाच्च भोक्तुर्जीवस्य नेश्वरत्वं किन्तु वक्ष्यमाणश्रुतेः सर्वज्ञत्वाद्युपपत्तिरूपयुक्तेः ईश्वरोऽस्तीत्यनुभवाच्च देहादिव्यतिरिक्तादहंप्रत्ययविषयाद्भोक्तुर्जीवादन्यः सर्वस्येशिता निरतिशयत्वोपाधिक ईश्वर इति वदन्ति । वेदान्तिनस्तु पूर्वोक्तश्रुतियुक्त्यनुभवानामाभासत्वाद्वक्ष्यमाणाबाधितश्रुतियुक्तिभ्यामहं ब्रह्मास्मीति विद्वदनुभवाच्च प्रत्यगस्थूलोऽचक्षुरप्राणोऽमनोऽकर्ता चैतन्यं चिन्मात्रं स सदित्यादिप्रबलश्रुतेश्च भोक्तृत्वाद्यवभासस्य मिथ्यात्वात् स्वतः नित्यशुद्धबुद्धमुक्तस्वभावः स्वयं प्रकाशमानो जीव इति जीवब्रह्मणोरैक्यं वदन्ति । तस्मात्पुरुषार्थोस्तीति सिद्धम् ।

’युक्तिवाक्यतदाभाससमाश्रया’ इति भाष्यं विभागपूर्वकं स्वमतपरमतानुसारेण योजयति –

तत्र युक्तीति ।

निर्दोषयुक्तिमबाधितश्रुतिवाक्यं च समाश्रया इत्यर्थः ।

’तदाभासेति’ भाष्यांशं व्याचष्टे -

अन्ये त्वित्यादिना ।

परपक्षेषु युक्तिं दर्शयति –

देहादिरिति ।

व्यतिरेकेणेति ।

यत्रात्मत्वाभावस्तत्राहंप्रत्ययगोचरत्वाभावः यथा घट इत्यर्थः ।

ननु परपक्षाः युक्तिमूलकत्वाद्ग्राह्याः स्युरित्यत आह –

इत्यादि युक्त्याभासमिति ।

आश्रिता इत्युत्तरेणान्वयः । युक्तिरिवाभासत इति युक्त्याभासः अनुमानाद्याभास इत्यर्थः । वस्तुतो न युक्तिरिति भावः ।

देहात्मवादे प्रमाणत्वेनोक्तां श्रुतिं पठति –

स वा एष इति ।

इन्द्रियात्ममते श्रुतिमाह –

इन्द्रियसंवाद इति ।

’ते ह वाचमूचु’रिति वाक्यस्थतच्छब्दार्थं स्फोरयति –

चक्षुरादय इति ।

मनस आत्मत्वे श्रुतिमुदाहरति –

मन उवाचेति ।

विज्ञानात्मवादिमते प्रमाणत्वेनोक्तं ’कतम आत्मेति योयं विज्ञानमय’ इत्यादिश्रुतिवाक्यं दर्शयति –

योऽयमिति ।

असदात्ममते श्रुतिवाक्यं कथयति –

असदेवेति ।

कर्त्रात्ममते मन्ता बोद्धा कर्ता विज्ञानात्मेति श्रुतिं ज्ञापयति –

कर्तेति ।

कर्त्रात्ममत एवात्मनः भोक्तृत्वे प्रमाणत्वेनोक्तामात्मेन्द्रियमनोयुक्तं भोक्तेत्याहुरित्यादिश्रुतिं प्रतिपादयति –

भोक्तेति ।

भोक्त्रात्ममते श्रुतिमाह –

अनश्नन्नन्य इति ।

साङ्ख्यमते ’तयोरन्यः पिप्पलं स्वाद्वत्तीति ’ कर्मफलानुभवरूपभोक्तृत्वं बुद्धेरेव नात्मनः किं’त्वनश्नन्नन्यो अभिचाकशीतीति’ दृश्यावभासत्वरूपभोक्तृत्वमात्मन इति मन्तव्यम् ।

योगिमते श्रुतिमुपन्यस्यति –

आत्मानमन्तर इति ।

ननु पक्षान्तरणि श्रुतिमूलकत्वात् ग्राह्याणि स्युरित्यत आह –

वाक्याभासं चेति ।

वाक्यमिवाभासत इति वाक्याभासः परमार्थतोऽवाक्यमतत्परत्वादित्यर्थः ।

ननु उक्तानां युक्तीनां श्रुतिवाक्यानां च कथमाभासत्वमित्याशङ्क्य देहादावात्मत्वसाधकानुमानस्य सत्प्रतिपक्षत्वेनाभासत्वं स्फोरयन् श्रुतिवाक्यानामाभासत्वप्रतिपादकस्थलं स्फोरयति -

देहादिरनात्मेति ।

न्यायैर्युक्त्याभासत्वं सूत्रैर्वाक्याभासत्वमिति विवेकः ।

विप्रतिपत्तय इति ।

विवादा इत्यर्थः ।

वस्तुगतिरिति ।

मुक्तिं प्रति ज्ञानस्यैव हेतुता ह्यन्वयव्यतिरेकसिद्धा न कर्मण इति विदुषां निश्चय इत्यर्थः ।

मतान्तराश्रयणे हि न केवलं मोक्षासिद्धिः किन्त्वात्महत्यादिदोषश्च स्यादित्यनर्थं चेयादिति भाष्यं व्याख्याति –

किञ्चात्मानमिति ।

अत्र ईशवाक्यं प्रमाणयति –

ये केचेति ।

आत्मानं घ्नन्तीत्यात्महनः के ते जना ये अविद्वांसः ; लोके आत्मशब्दः प्राणत्यागे प्रसिद्धः प्रकृते प्राणत्यागस्यानुपयुक्तत्वात् अनात्मदर्शनेनात्मनो ह्यसत्त्वापादनमात्महननमुच्यते तथा च ये ह्यविद्वांसः ते आत्महन इति भावः ।

तस्मादिति भाष्यस्थहेतोरर्थं वक्तुमुपसंहारव्याजेन वर्णकचतुष्टये उक्तं हेतुचतुष्टयं क्रमेणानुवदति –

बन्धस्याध्यस्तत्वेनेति ।

पूजितेति ।

उत्कृष्टेत्यर्थः ।

उपकरणानीति ।

सहकारिकारणानीत्यर्थः ।

आरम्भः कथं सूत्रार्थ इति शङ्कावतारायोत्तरभाष्यं व्याख्याय ब्रह्मजिज्ञासेत्यादिपूर्वभाष्यमवतारयति –

ननु सूत्र इति ।

भूषणमिति ।

’अल्पाक्षरमसन्दिग्धं सारवद्विश्वतोमुख’मित्यादिश्रवणाद्भूषणमिति भावः ।

न पश्याम इति ।

यदुक्तं तदसङ्गतं सूत्रमूलस्यारम्भकान्तरस्य श्रवणविधेः सत्त्वादिति ।

द्वितीयपक्षमवलम्ब्य परिहरति –

उच्यत इति ।

इदं सूत्रमित्यर्थः । इदं शास्त्रमिति पाठेप्ययमेवार्थः । नास्त्यध्ययनविधावारम्भकान्तरापेक्षा वेदस्यापौरुषेयत्वादिति भावः ॥ १ ॥