प्रथमसूत्रेण शास्त्रारम्भमुपपाद्य शास्त्रमारभमाणः पूर्वोत्तराधिकरणयोः सङ्गतिं वक्तुं वृत्तं कीर्तयति -
ब्रह्मेति ।
मुमुक्षुणा ब्रह्मज्ञानाय वेदान्तविचारः कर्तव्य इत्युक्तम् । ब्रह्मणो विचार्यत्वोक्त्या अर्थात्प्रमाणादिविचाराणां प्रतिज्ञातत्वेऽपि ब्रह्मप्रमाणं ब्रह्मयुक्तिरित्यादिविशिष्टविचाराणां विशेषणब्रह्मज्ञानं(ब्रह्मयुक्तिरित्यादिविशिष्टविचाराणां विशेषणब्रह्मज्ञानम् - इति नास्ति)* विना कर्तुमशक्यत्वात् , तत्स्वरूपज्ञानायादौ लक्षणं वक्तव्यम् , तन्न सम्भवतीत्याक्षिप्य सूत्रकृतं पूजयन्नेव लक्षणसूत्रमवतारयति(अवधारयति)* -
किं लक्षणकमिति ।
किमाक्षेपे । नास्त्येव लक्षणमित्यर्थः । आक्षेपेणास्योत्थानादाक्षेपसङ्गतिः । लक्षणद्योतिवेदान्तानां स्पष्टब्रह्मलिङ्गकानां(स्पष्टब्रह्मलिङ्गानां)* लक्ष्ये ब्रह्मणि समन्वयोक्तेः श्रुतिशास्त्राध्यायपादसङ्गतयः । तथा हि ‘यतो वा इमानि भूतानि जायन्ते’ इत्यादिवाक्यं विषयः । तत्किं ब्रह्मणो लक्षणं वक्ति(वक्तीति नास्ति)* न वेति सन्देहः । तत्र पूर्वपक्षे ब्रह्मस्वरूपासिद्ध्या मुक्त्यसिद्धिः फलम् , सिद्धान्ते तत्सिद्धिरिति भेदः । यद्यप्याक्षेपसङ्गतौ पूर्वाधिकरणफलमेव फलमिति कृत्वा पृथङ्न वक्तव्यम् । तदुक्तम् -
‘आक्षेपे चापवादे च प्राप्त्यां लक्षणकर्मणि ।
प्रयोजनं न वक्तव्यं यच्च कृत्वा प्रवर्तते’ इति । तथापि स्पष्टार्थमुक्तमिति मन्तव्यम् । यत्र पूर्वाधिकरणसिद्धान्तेन पूर्वपक्षः तत्रापवादिकी सङ्गतिः प्राप्तिस्तदर्था चिन्ता । तत्र न वक्तीति(वक्तीति नास्ति)* प्राप्तम् , जन्मादेर्जगद्धर्मत्वेन ब्रह्मलक्षणत्वायोगात् । न च जगदुपादानत्वे सति कर्तृत्वं लक्षणमिति वाच्यम् , कर्तुरुपादानत्वे दृष्टान्ताभावेनानुमानाप्रवृत्तेः । न च श्रौतस्य ब्रह्मणः श्रुत्यैव लक्षणसिद्धेः किमनुमानेनेति वाच्यम् , अनुमानस्य श्रुत्यनुग्राहकत्वेन तदभावे तद्विरोधे वा श्रुत्यर्थासिद्धेः । -
न च जगत्कर्तृत्वमुपादानत्वं वा प्रत्येकं लक्षणमस्त्विति वाच्यम् , कर्तृमात्रस्योपादानाद्भिन्नस्य ब्रह्मत्वायोगात् , वस्तुतः परिच्छेदादिति प्राप्ते पुरुषाभ्यूहमात्रस्यानुमानस्याप्रतिष्ठितस्यातीन्द्रियार्थे स्वातन्त्र्यायोगात् , अपौरुषेयतया निर्दोषश्रुत्युक्तोभयकारणत्वस्य सुखादिदृष्टान्तेन सम्भावयितुं शक्यत्वात् , तदेव लक्षणमिति सिद्धान्तयति -
जन्माद्यस्य यतः इति ।
अत्र यद्यपि जगज्जन्मस्थितिलयकारणत्वं लक्षणं प्रतिपाद्यते तथाप्यग्रे “प्रकृतिश्च प्रतिज्ञादृष्टान्तानुपरोधात्” (ब्र॰सू॰ १-४-२३(७)) इत्यधिकरणे तत्कारणत्वं न कर्तृत्वमात्रं किन्तु कर्तृत्वोपादानत्वोभयरूपमिति(कर्तृत्वोपादानत्वोभयरूपत्वमिति)* वक्ष्यमाणं सिद्धवत्कृत्योभयकारणत्वं लक्षणमित्युच्यत इति न पौनरुक्त्यम् । ननु जिज्ञास्यनिर्गुणब्रह्मणः कारणत्वं कथं लक्षणमिति चेत् , उच्यते - यथा रजतं शुक्तेर्लक्षणं यद्रजतं सा शुक्तिरिति, तथा यज्जगत्कारणं तद्ब्रह्मेति कल्पितं कारणत्वं तटस्थं सदेव ब्रह्मणो लक्षणमित्यनवद्यम् ॥
सूत्रं व्याचष्टे -
जन्मेत्यादिना ।
बहुव्रीहौ पदार्थाः सर्वे वाक्यार्थस्यान्यपदार्थस्य विशेषणानि । यथा चित्रगोर्देवदत्तस्य चित्रा गावः तद्वदत्रापि जन्मादीति नपुंसकैकवचनद्योतितस्य समाहारस्य जन्मस्थितिभङ्गस्य जन्म विशेषणम् , तथा च जन्मनः समासार्थैकदेशस्य गुणत्वेन संविज्ञानं यस्मिन् बहुव्रीहौ स तद्गुणसंविज्ञान इत्यर्थः । तत्र यज्जन्मकारणं तद्ब्रह्मेति ब्रह्मत्वविधानमयुक्तम् , स्थितिलयकारणाद्भिन्नत्वेन ज्ञाते ब्रह्मत्वस्य ज्ञातुमशक्यत्वात् । अतो जन्मस्थितिभङ्गैर्निरूपितानि त्रीणि कारणत्वानि मिलितान्येव लक्षणमिति मत्वा सूत्रे समाहारो द्योतित इति ध्येयम् ।
नन्वादित्वं जन्मनः कथं ज्ञातव्यम् , संसारस्यानादित्वादित्यत आह -
जन्मनश्चेति ।
मूलश्रुत्या वस्तुगत्या चादित्वं ज्ञात्वा तदपेक्ष्य सूत्रकृता जन्मन आदित्वमुक्तमित्यर्थः ।
इदमः प्रत्यक्षार्थमात्रवाचित्वमाशङ्क्योपस्थितसर्वकार्यवाचित्वमाह -
अस्येतीति ।
वियदादिजगतो नित्यत्वात् न जन्मादिसम्बन्ध इत्यत आह -
षष्ठीति ।
वियत्पादे महाभूतानां(विषयादिमहाभूतानां)* जन्मादिसम्बन्धो वक्ष्यत इति भावः ।
ननु जगतो जन्मादेर्वा ब्रह्मसम्बन्धाभावान्न लक्षणत्वमित्याशङ्क्य तत्कारणत्वं लक्षणमिति पञ्चम्यर्थमाह -
यत इतीति ।
यच्छब्देन सत्यं ज्ञानमनन्तमानन्दरूपं वस्तूच्यते ‘आनन्दाद्ध्येव’(तै॰उ॰ ३-६-१) इति निर्णीतत्वात् । तथा च स्वरूपलक्षणसिद्धिरिति मन्तव्यम् ।
पदार्थमुक्त्वा पूर्वसूत्रस्थब्रह्मपदानुषङ्गेण तच्छब्दाध्याहारेण च सूत्रवाक्यार्थमाह -
अस्येत्यादिना ।
कारणस्य सर्वज्ञत्वादिसम्भावनार्थानि जगतो विशेषणानि । यथा कुम्भकारः प्रथमं कुम्भशब्दाभेदेन विकल्पितं पृथुबुध्नोदराकारस्वरूपं बुद्धावालिख्य तदात्मना कुम्भं व्याकरोति - बहिः प्रकटयति, तथा परमकारणमपि स्वेक्षितं नामरूपात्मना(स्वेप्सितनामरूपात्मना)* व्याकरोतीत्यनुमीयत इति मत्वाऽऽह -
नामरूपाभ्यामिति ।
इत्थम्भावे तृतीया । आद्यकार्यं चेतनजन्यम् , कार्यत्वात् , कुम्भवदिति प्रधानशून्ययोर्निरासः ।
प्रसिद्धश्रुतिभिर्वेद्यं विचार्यं च मुमुक्षुणा ।
प्रत्यग्रूपमाहं वन्दे श्रीकृष्णं रुक्मिणीप्रियम् ॥
वर्णकचतुष्टयेनोक्तमर्थचतुष्टयमस्मिञ्छ्लोके सङ्गृहीतमिति सुधीभिर्विभावनीयम् ।
मुमुक्षुणेति ।
अथातःपदद्वयसमर्थितेनाधिकारेणेत्यर्थः । अथ साधनचतुष्टयसम्पत्त्यनन्तरं अतः साधनचतुष्टयसम्पत्तेर्हेतोः सत्त्वादित्येवं अर्थात्साधितेनाधिकारिणा ब्रह्मज्ञानाय विचारः कर्तव्य इति प्रथमसूत्रस्यार्थ उक्त इति भावः ।
प्रमाणादिविचाराणामिति ।
आदिशब्देन लक्षणयुक्तिसाधनफलानि गृह्यन्ते ।
ब्रह्मप्रमाणमिति ।
आदिशब्देन ब्रह्मसाधनं ब्रह्मफलं च गृह्यते ब्रह्मणि प्रमाणं ब्रह्मणि या युक्तिरिति विशिष्टविचारः ब्रह्मविशेषणसापेक्षः विशेषणीभूतब्रह्मणः ज्ञानं विना न सम्भवतीति भावः ।
पूजयन्नेवेति ।
जिज्ञास्यपुरुषार्थब्रह्मस्वरूपस्य सूत्रकृता दर्शितत्वात् भगवानिति पदप्रयोगेन पूजयन्नेवेत्यर्थः ।
नास्त्येवेति ।
लक्षणाभावान्न ब्रह्मस्वरूपं सिद्ध्येदिति येन शास्त्रारम्भः स्यादित्याक्षेप्तुरभिप्रायः ।
अस्येति ।
जन्मादिसूत्रस्येत्यर्थः ।
सूत्रस्य श्रुत्यर्थबोधकत्वात् ’यतो वा इमानी’त्यादिश्रुतिभिः सह एकार्थबोधकत्वरूपा सङ्गतिर्वेदितव्या । तं श्रुत्यर्थं ज्ञापयति –
लक्षणद्योतीति ।
यतो वा इमानीत्यादिलक्षणद्योतिवेदान्तानामित्यर्थः । सूत्रमपि जगत्कारणत्वादिरूपलक्षणबोधकं भवतीति भावः ।
द्वितीयसूत्रप्रथमपादयोः स्पष्टब्रह्मलिङ्गकश्रुत्यर्थबोधकत्वं सङ्गतिः तच्च स्पष्टब्रह्मलिङ्गत्वं ज्ञापयति –
स्पष्टब्रह्मलिङ्गकानामिति ।
यथा प्रथमपादः ’यतो वे’त्यादीनां स्पष्टब्रह्मलिङ्गकश्रुतीनामर्थं बोधयति यथा लक्षणसूत्रमपि तासामेवार्थं बोधयतीति तयोरेकार्थबोधकत्वं सङ्गतिरिति भावः ।
सूत्रस्य शास्त्रार्थप्रतिपादकत्वाच्छास्त्रसङ्गतिः तं शास्त्रार्थं ज्ञापयति –
लक्ष्ये ब्रह्मणीति ।
शास्त्रं शास्त्रार्थत्वेन ब्रह्मबोधकं भवति सूत्रस्य प्रथमाध्यायार्थैकदेशप्रतिपादकत्वात् प्रथमाध्यायेनैकार्थबोधकत्वरूपा सङ्गतिः ।
तमध्यायार्थं स्फुटीकरोति –
समन्वयोक्तेरिति ।
प्रथमाध्यायेन ’यतो वा इमानी’त्यादिश्रुतिगत – यत – इत्यादिपदानां ब्रह्मतात्पर्यकत्वस्वरूप समन्वयो बोध्यते लक्षणसूत्रेणापि तच्छ्रुतिगत – यत – इत्यादिपदानां ब्रह्मतात्पर्यकत्वं बोध्यत इति भावः ।
उक्तसङ्गतिप्रदर्शनार्थमधिकरणमारचयति –
तथाहीति ।
अधिकरणान्ते अस्य विषयवाक्यस्यार्थो वक्ष्यते । विषयः उद्देश्यमित्यर्थः । तथाच वाक्यमुद्दिश्य संशयादिकं प्रतिपाद्यत इति भावः ।
आक्षेप इति ।
आक्षेपाधिकरण इत्यर्थः ।
अपवाद इति ।
अपवादाधिकरण इत्यर्थः ।
प्राप्ताविति ।
प्राप्तिसूत्र इत्यर्थः ।
लक्षणकर्मणीति ।
लक्षणसूत्र इत्यर्थः ।
यच्च कृत्वेति ।
यदधिकरणमुद्दिश्याक्षेपादिकं प्रवर्तते तत्प्रयोजनकत्वादाक्षेपादीनां पृथक्प्रयोजनं न वक्तव्यम् । अथवा कृत्वा प्रवर्तत इत्यस्य कृत्वा प्रवर्तनमर्थः, कृत्वा प्रवर्तनं नाम कृत्वा चिन्ता सा चाभ्युपगमवादः, अत्र तस्मिन्निति शेषः तथा च यच्च कृत्वा प्रवर्तते तस्मिन्नित्यनेन कृत्वाचिन्ताधिकरण इत्युक्तं भवति । अस्मिन्पक्षे अवशिष्टस्य प्रयोजनं न वक्तव्यमित्यंशस्यायमभिप्रायः । यदुद्दिश्याक्षेपादिकं प्राप्तं तत्प्रयोजनप्रयोजनकत्वादाक्षेपादीनां पृथक्प्रयोजनं न वक्तव्यमिति । एतत्सर्वं कल्पतरौ विस्तरेणोदाहृतं विस्तरभयादत्रोपरम्यते ।
सिद्धान्तेन पूर्वपक्ष इति ।
सिद्धान्तयुक्त्या उत्तराधिकरणपूर्वपक्ष इत्यर्थः ।
’यतो वा इमानि भूतानी’त्यादिवाक्येन ब्रह्मणः सकाशात् जन्मादिकं जगतः प्रतीयते, प्रतीयमानं ब्रह्महेतुकजन्मादिधर्मवत्त्वमेव ब्रह्मणो लक्षणं चेदतिव्याप्तिरसम्भश्चेत्यभिप्रेत्य प्रतिज्ञापूर्वकं पूर्वपक्षयति –
तत्र न वक्तीति ।
जगद्धर्मत्वेनेत्यनेनातिव्याप्तिर्ज्ञापिता अयोगादित्यनेनासम्भवः प्रतिपादित इति भावः ।
अतिव्याप्त्यादिदोषग्रस्तत्वान्मास्तु जन्मादिधर्मवत्त्वलक्षणं श्रुतिप्रामाण्यादन्यदेवास्त्विति सिद्धान्ती शङ्कते –
न चेति ।
’तदात्मानं स्वयमकुरुत, तत्सृष्ट्वे’त्यादिना उपादानत्वं कर्तृत्वं च प्रतिपाद्यत इति भावः ।
उक्तलक्षणस्यानुमानेन साधयितुमशक्यत्वान्न सिद्धिरिति पूर्ववादी परिहरति –
कर्तुरुपादानत्व इति ।
ब्रह्मकर्तृत्वविशिष्टोपादानत्ववच्चेतनत्वादिति प्रयोगे यत्र चेतनत्वं तत्र कतृत्त्वविशिष्टोपादानत्वमित्यत्रामुक इति दृष्टान्ताभावेनेत्यर्थः ।
श्रौतस्येति ।
’यतोवा इमानि भूतानी’त्यादिश्रुतिप्रमाणकस्य ब्रह्मणः ’स्वयमकुरुत तत्सृष्ट्वा यतो वा इमानी’त्यादिश्रुत्यैव लक्षणसिद्धिरित्यर्थः ।
श्रुत्यनुग्राहकत्वेनेति ।
श्रुत्यर्थे पुरुषस्य सन्देहनिवर्तकमानत्वेनेत्यर्थः ।
प्रत्येकं लक्षणमिति ।
दृष्टान्तसम्भवादिति भावः ।
ब्रह्मत्वायोगादिति ।
ब्रह्मण उपादानाद्भिन्नत्वे प्रोक्ते सत्यन्यत्वेनोपादानस्य स्थितत्वाद्वस्तुपरिच्छेदेन अद्वितीयत्वरूपब्रह्मत्वायोगान्न प्रत्येकं लक्षणमिति भावः ।
नास्त्येव लक्षणमिति पूर्वपक्षमुपपाद्यास्त्येवेति सिद्धान्तमवतारयति –
पुरुषेति ।
पुरुषस्योहमात्रत्वादेवानुमानस्याप्रतिष्ठितत्वम् , तथा हि अनुमितिकरणमनुमानम् । तच्च ज्ञायमानलिङ्गमिति केचित् । परामर्श इत्यपरे । व्याप्तिज्ञानमित्यन्ये । तस्मादनुमानस्य भ्रान्तपुरुषबुद्धिमूलकत्वेन परस्परदूषणग्रस्तस्य इदमिति निर्देष्टुमशक्यत्वादप्रतिष्ठितत्वमिति भावः ।
कर्तुरुपादानत्वे दृष्टान्तसम्भवेन अनुमानप्रवृत्तेरुक्तलक्षणसिद्धिरित्याह -
अपौरुषेयेति ।
उभयकारणत्वस्येति ।
उपादाननिमित्तोभयकारणत्वस्येत्यर्थः । सुखं प्रत्यदृष्टद्वारा निमित्तत्वं समवायिकारणत्वं चात्मनि दृष्टं तस्मादभिन्ननिमित्तोपादानकं सुखमिति दृष्टान्तोपपत्तेरिति भावः । आदिशब्देन कर्मसंयोगौ गृह्येते, तथाहि - स्वकृतयागादिकं प्रति कर्तृत्वमुपादानत्वं च पुरुषे दृश्यते तस्मादभिन्ननिमित्तोपादनकं कर्मेति निर्विवादोऽयं दृष्टान्तः । घटाकाशसंयोगं प्रति निमित्तत्वं समवायिकारणत्वं चाकाशेऽस्तीत्यभिन्ननिमित्तोपादानकः संयोग इत्ययमपि सर्वसम्मतो दृष्टान्तः । अत्रैवं प्रयोगः – जगदभिन्ननिमित्तोपादानकं कार्यत्वात्सुखादिवत् , अथवा ब्रह्म निमित्तत्वविशिष्टोपादानत्ववच्चेतनत्वादात्मादिवदित्यनवद्यम् ।
ननु जगज्जन्मादिकारणत्वं नाम कर्तृत्वे सत्युपादानत्वमिति अनेन द्वितीयसूत्रेण साधितं चेत्तर्हि अग्रिमेण तत्कारणत्वं न कर्तृत्वमात्रं किन्तु कर्तृत्वोपादानत्वोभयरूपमित्यनेन ग्रन्थेन पौनरुक्त्यं स्यादित्याशङ्क्याह –
अत्र यद्यपीत्यादिना ।
उच्यत इतीति ।
अत्रानूद्यत इत्यर्थः । अयमाशयः – अनेन सूत्रेण जन्मादिकारणत्वमेव प्रतिपाद्यते नोभयकारणत्वं किन्तूभयकारणत्वमनूद्यते, अग्रे ’प्रकृतिश्चे’त्यधिकरणे तूभयकारणत्वमेव प्रतिपाद्यते न कारणत्वं किन्तु कारणत्वमनूद्यते तस्मान्न पौनरुक्त्यमिति । तटस्थमिति । यो हि व्यावर्तको धर्मः लक्ष्याविद्यमानस्वरूपबहिर्भूतः स तटस्थलक्षणमित्यर्थः । तथा च यद्रजतमाभात्सा शुक्तिरिति आरोपितेन रजतेन शुक्तिर्लक्ष्यते यथा तथा यज्जगत्कारणं तद्ब्रह्मेति आरोपितेन जगत्कारणत्वेन ब्रह्म लक्ष्यते अरोपितत्वेपि तस्य ब्रह्मण्येवासाधारणत्वादिति भावः । श्रीमदद्वैतानन्दश्रीगुरुचरणास्तु ब्रह्मवद्याभरणाख्यग्रन्थे “यो हि धर्मः असाधारणः सन्नेव कदाचिद्धर्मिणा सम्बध्यते स धर्मस्तु तटस्थलक्षणमित्युच्यते यथा छत्रचामरादिकं राज्ञ इति तटस्थलक्षणं वदन्ति ।
सूत्रं व्याचष्ट इति ।
पदच्छेदः पदार्थोक्तिः पदविग्रह इति व्याख्यानाङ्गं सम्पादयन् सूत्रं व्याचष्ट इत्यर्थः ।
ननु भवतु तद्गुणसंविज्ञानो बहुव्रीहिः तथापि जन्मस्थितिभङ्गास्त्रयो विशेष्या भवन्ति तत्कथं जन्मस्थितिभङ्गं समासार्थ इत्येकनिर्देश इत्याशङ्क्य भाष्यस्थस्येति पदस्यार्थं स्फोरयन्नाह –
अत्रापि जन्मादीति ।
समाहारस्य समुदायस्येत्यर्थः । तथा च यथा चित्रगोसम्बन्धित्वविशिष्टदेवदत्तस्य चित्राः गावः विशेषणानि तथा समासार्थस्य विशेष्यस्य जन्मादिविशिष्टजन्मस्थितिभङ्गसमुदायस्य एकदेशं जन्म विशेषणमित्यर्थः । यद्यपि चित्रगोर्देवदत्तस्येत्यत्रातद्गुणसंविज्ञानो बहुव्रीहिर्जन्मादीत्यत्र तद्गुणसंविज्ञाबहुव्रीहिरिति वैषम्यं तथापि दृष्टान्तस्तु विशेषणांश एव न तद्गुणसंविज्ञानबहुव्रीहाविति भावः ।
तस्य विशेष्यैकदेशस्य गुणत्वं विशेषणत्वं यस्मिन् बहुव्रीहौ स तद्गुणसंविज्ञानो बहुव्रीहिरित्यभिप्रेत्याह –
तथा चेति ।
सर्वस्य विशेषणत्वे समासासम्भवात्समासैकदेशो विशेषणमिति मत्वाह –
समासार्थैकदेशस्येति ।
समाहारस्य समासार्थप्रविष्ठत्वेन विशेष्यैकदेशस्येत्यर्थः ।
गुणत्वेनेति ।
विशेषणत्वेनेत्यर्थः ।
संविज्ञानमिति ।
ज्ञानमित्यर्थः ।
नन्वत्र तद्गुणसंविज्ञानबहुव्रीहिः किमर्थ इति चेत् , जन्मस्थितिभङ्गस्य समासार्थतालाभार्थमिति ब्रूमः । यद्यतद्गुणसंविज्ञानबहुव्रीहिमाश्रित्य स्थितिलयद्वयमेव समासार्थोस्त्विति शङ्केत तदा ब्रह्मणः स्थितिलयनिरूपितकारणत्वमेव स्यात् । न चेष्टापत्तिरतिव्याप्त्यादिदोषाभावादिति वाच्यम् । स्थितिकारणत्वं लयकारणत्वं वा लक्षणमित्युक्ते अतिव्याप्त्यादिदोषाभावेपि जन्मकारणं ब्रह्मणोन्यदेवेति भिन्नत्वभ्रमे ब्रह्मणः वस्तुपरिच्छेदेन अद्वितीयत्वरूपब्रह्मत्वायोगात् , तस्मात् त्रितयनिरूपितकारणत्वलाभार्थं तद्गुणसंविज्ञानबहुव्रीहिमाश्रित्य जन्मस्थितिभङ्गरूपसमाहार एव समासार्थ इत्यवश्यमङ्गीकरणीयमित्येतमर्थं स्फोरयति –
तत्र यज्जन्मकारणमिति ।
’जन्माद्यस्य यत’इत्येव सूत्रं स्यादित्यभिप्रायेणाह –
यज्जन्मेति ।
अत्र जन्मकारणं कर्तृरूपं विवक्षितं तस्मान्न मायायामतिव्याप्तिरित्यभिप्रेत्य दोषान्तरमाह –
स्थितिलयेति ।
समाहारो द्योत्यत इति ।
सूत्रस्थजन्मादीति नपुंसकैकवचनेन समाहरो द्योतित इति भावः ।
संसारस्यानादित्वादिति ।
संसारस्यानादित्वेन स्थितिनाशानन्तरमप्युत्पत्तेर्दृश्यत्वादिति भावः ।
वस्तुगत्या चेति ।
एकैकसर्गं पुरस्कृत्य चेति शेषः । जनित्वा स्थित्वा विलीयत इत्यनुभवो वस्तुगतिशब्दार्थः ।
इदम इति ।
अस्य जगतः जन्मादीत्यादिना प्रत्यक्षं यज्जगत्तत्कारणत्वमेव ब्रह्मणः प्रतिपाद्यते न त्वाकाशादिकारणत्वमाकाशादेरप्रत्यक्षत्वादिति शङ्कितुरभिप्रायः ।
प्रत्यक्षादिसन्निधापितस्येति ।
प्रत्यक्षानुमानादिप्रमाणैः संवेदितस्येति भाष्यपदस्यार्थः ।
महाभूतानां जन्मादीति ।
ननु जन्मादीनां वियदादिजगतश्च कः सम्बन्धः षष्ठ्या विवक्षित इति चेत् , अत्रोच्यते – स्वरूपादिसम्बन्धः षष्ठ्या विवक्षित इति भावः ।
स्वोक्तमभिन्ननिमित्तोपादानत्वरूपं जन्मादिकारणत्वलक्षणं भाष्यारूढं कर्तुमिच्छन्नवतारयति –
ननु जगत इति ।
सूत्रेण जन्मादिसम्बन्धिजगत्सम्बन्धित्वं जन्मसम्बन्धिजन्मादिसम्बन्धित्वं वा प्रतीयते तच्च न ब्रह्मलक्षणमसम्भवदोषग्रस्तत्वादिति शङ्कार्थः । ईश्वरनिष्ठं जगत्कारणत्वं शुद्धस्य तटस्थलक्षणमिति सिद्धान्तार्थः । यत इति पदं षष्ठ्यन्तमिति शङ्कितुरभिप्रायः । सिद्धान्त्यभिप्रायस्तु पञ्चम्यन्तमिति भेदः ।
आनन्दाध्येवेतीति ।
तैत्तिरीयक इति शेषः । श्रुतिषु ब्रह्मबोधकपदानामिदमानन्दपदमुपलक्षणमिति मन्तव्यम् ।
स्वरूपलक्षणेति ।
ननु सर्वत्र धर्म एव लक्षणं भवति तत्कथं धर्म्येव स्वस्य लक्षणमिति चेत् । अत्रोच्यते – न हि सत्यज्ञानान्दाभिन्नं धर्मिमात्रं मुख्यं लक्षणमिति वदामः, अपि तु तदवगम इतरव्यावृत्तबुद्धावुपयुज्यते इति तस्य लक्षणत्वोपचार इति भावः । केचित्तु स्वरूपमेव लक्षणं स्वरूपलक्षणं यथा ’सत्यं ज्ञानमनन्तं ब्रह्मे’त्यत्र सत्यादिकं स्वरूपलक्षणम् । ननु स्वस्य स्ववृत्तित्वाभावे सति कथं लक्षणत्वमिति चेत् , न, स्वस्यैव स्वापेक्षया धर्मधर्मिभावकल्पनया लक्षणत्वसम्भवात् , तदुक्तम् – ’आनन्दो विषयानुभवो नित्यत्वञ्चेति सन्ति धर्मा अपृथक्त्वेपि चैतन्यात् पृथगिव अवभासन्त’ इत्याहुः । ननु स्वरूपतटस्थलक्षणोपन्यासस्य किं प्रयोजनमिति चेत् , अत्र ब्रह्मविद्याभरणे श्रीगुरुचरणास्त्वेवमाहुः – तथाहि यथा चन्द्रं दिदर्शयिषुराप्तो प्रथमं दिगन्तरगतनक्षत्रादिभ्यो दृष्टिं वारयितुं शाखायां चन्द्र इति अधिकरणतया सम्बन्धविशेषेण प्रथमं शाखामुपादत्ते ततश्च दिगन्तरव्यावृत्तचक्षुषः चन्द्रसमीपवर्तितारकादिषु चन्द्रभ्रमो मा भूदिति तत्स्वरूपं प्रकृष्टप्रकाशात्मकत्वं बोधयति एवं हि बोध्यबुद्धिः सुखेन चन्द्रे अवतारिता भवति । एवं ’ब्रह्मविदाप्नोति पर’मित्युपश्रुत्य ब्रह्मशब्दस्यानेकत्र प्रयोगदर्शनान्मुमुक्षोर्ज्ञेयः ब्रह्मशब्दार्थः क इति बुभुत्सोर्जगत्कारणत्वोपन्यासेन येषु जीवादिषु जगत्कारणत्वं न सम्भवति तेषां सृज्यकोटौ निविष्टतया स्रष्टृत्वासम्भवात् तेभ्यो व्यावृत्तबुद्धेरपि सम्भवज्जगत्कारणभावेषु प्रधानादिषु ब्रह्मत्वभ्रममपनेतुं स्वरूपलक्षणमुपन्यस्य तेन हि जडानां प्रधानादीनां ज्ञानादिस्वरूपतूपपद्येत ततश्च आद्यं लक्षणं केभ्यश्चिद्व्यावृत्तिनिश्चयपूर्वकं बुद्धिस्थिरीकरणार्थं द्वितीयं तु सकलभ्रमनिवृत्तिपूर्वकं वस्तुस्वरूपनिश्चयार्थमिति । पदार्थमुक्त्वेति । सूत्रपदानां प्रत्येकं अर्थमुक्त्वेत्यर्थः । जगत्कारणस्य चेतनत्वसर्वेश्वरत्वसर्वज्ञत्वसर्वशक्तित्वसम्भावनार्थानि नामरूपाभ्यामित्यादीनि जगतश्चत्वारि विशेषणानि भवन्ति, तथा च क्रममनुसृत्य चेतनत्वादिसम्भावनार्थानीत्येवमुक्तमुचितं तथापि यत्र सर्वज्ञत्वं तत्र चेतनत्वं यत्र सर्वशक्तित्वं तत्रेश्वरत्वमित्यव्यभिचरितव्याप्त्या सर्वज्ञत्वादिग्रहणेन चेतनत्वादिलाभात् सर्वज्ञात्सर्वशक्तेरित्युत्तरभाष्यानुकूल्याच्च क्रमं विहाय सर्वज्ञत्वादिसम्भावनार्थानीति व्याख्यातमिति भावः ।
कुम्भकार इति ।
घटं चिकीर्षुः कुलाल इत्यर्थः ।
शब्दाभेदेनेति ।
शब्दवाच्याभेदेनेत्यर्थः । आलिख्य विचार्येत्यर्थः ।
व्याकरोतीतिपदस्य स्वप्रयुक्तस्य स्वयमेवार्थं व्युत्पादयति –
बहिः प्रकटयतीति ।
प्रथमं बुद्धावालिख्य पश्चाद्घटशब्दालम्बनयोग्यं घटं कुम्भकारः बहिर्निर्वर्तयति यथा तथा मूलकारणमपि नामरूपात्मना बुद्धावाविर्भूतमेव सर्वं पश्चाद्व्यनक्तीति अनुमीयत इति भावः ।
इत्थम्भाव इति ।
अभेद इत्यर्थः । नामरूपाभिन्नतया व्यक्तीकृतस्येति भाष्यपदस्यार्थः ।
जगत्कारणस्य चेतनत्वसाधनफलमाह –
इति प्रधानेति ।
निरास इति ।
जगत्कारणत्वनिरास इत्यर्थः ।