हिरण्यगर्भादिजीवजन्यत्वं निरस्यति -
अनेकेति ।
श्राद्धवैश्वानरेष्ट्यादौ पितापुत्रयोः कर्तृभोक्त्रोर्भेदात्पृथगुक्तिः । “यो ब्रह्माणं विदधाति पूर्वं” (श्वे॰उ॰ ६-१८) “ सर्व एत आत्मनो व्युच्चरन्ति”(श॰ब्रा॰ १४-५-१) इति श्रुत्या स्थूलसूक्ष्मदेहोपाधिद्वारा जीवानां कार्यत्वेन जगन्मध्यपातित्वान्न जगत्कारणत्वमित्यर्थः ।
कारणस्य सर्वज्ञत्वं सम्भावयति -
प्रतिनियतेति ।
प्रतिनियतानि व्यवस्थितानि देशकालनिमित्तानि येषां क्रियाफलानां तदाश्रयस्येत्यर्थः । स्वर्गस्य क्रियाफलस्य मेरुपृष्ठं देशः । देहपातादूर्ध्वं कालः। (। - नास्ति)*उत्तरायणमरणादिनिमित्तं च प्रतिनियतम् । एवं राजसेवाफलग्रामादेर्देशादिव्यवस्था(राजसेवाफले ग्रामादेर्देशादिव्यवस्था)* ज्ञेया । तथा च यथा सेवाफलं देशाद्यभिज्ञदातृकं तथा कर्मफलम् , फलत्वादिति सर्वज्ञत्वसिद्धिरिति भावः ।
सर्वशक्तित्वं सम्भावयति -
मनसापीति ।
नन्वन्येऽपि वृद्धिपरिणामादयो भावविकाराः सन्तीति किमिति जन्मादीत्यादिपदेन न गृह्यन्ते तत्राह -
अन्येषामिति ।
वृद्धिविपरिणामयोर्जन्मनि(वृद्धिपरिणामयोर्जन्मनि)* अपक्षयस्य नाशेऽन्तर्भावः इति भावः ।
ननु देहो ‘जायते, अस्ति, वर्धते, विपरिणमते, अपक्षीयते, नश्यति(विनश्यति)*’(नि॰नि॰ १-१-१) इति यास्कमुनिवाक्यमेतत्सूत्रमूलं किं न स्यादत आह -
यास्केति ।
यास्कमुनिः किल महाभूतानामुत्पन्नानां स्थितिकाले भौतिकेषु प्रत्यक्षेण जन्मादिषट्कमुपलभ्य निरुक्तवाक्यं चकार । तन्मूलीकृत्य जन्मादिषट्ककारणत्वं लक्षणं सूत्रार्थ इति ग्रहणे सूत्रकृता ब्रह्मलक्षणं न सङ्गृहीतं किन्तु महाभूतानां लक्षणमुक्तमिति शङ्का स्यात्सा मा भूदिति ये श्रुत्युक्ता जन्मादयस्त एव गृह्यन्त इत्यर्थः । यदि निरुक्तस्यापि श्रुतिर्मूलमिति महाभूतजन्मादिकमर्थस्तर्हि सा श्रुतिरेव सूत्रस्य मूलमस्तु, किमन्तर्गडुना निरुक्तेनेति भावः । यदि जगतो ब्रह्मातिरिक्तं कारणं स्यात्तदा ब्रह्मलक्षणस्य तत्रातिव्याप्त्यादिदोषः स्यात् , अतस्तन्निरासाय लक्षणसूत्रेण ब्रह्म विना जगज्जन्मादिकं न सम्भवति, कारणान्तरासम्भवादिति युक्तिः सूत्रिता । सा तर्कपादे (१-१)विस्तरेण वक्ष्यते ।
अधुना सङ्क्षेपेण तां दर्शयति -
न यथोक्तेत्यादिना ।
नामरूपाभ्यां व्याकृतस्येत्यादीनां (च)* चतुर्णां जगद्विशेषणानां व्याख्यानावसरे प्रधानशून्ययोः संसारिणश्च निरासो दर्शितः । परमाणूनामचेतनानां स्वतः प्रवृत्त्ययोगात् , जीवादन्यस्य(जीवान्यस्य)* ज्ञानशून्यत्वनियमेनानुमानात्सर्वज्ञेश्वरासिद्धौ तेषां प्रेरकाभावात् , जगदारम्भकत्वासम्भव इति भावः ।
स्वभावादेव विचित्रं जगदिति लोकायतस्तं प्रत्याह -
न चेति ।
जगत उत्पत्त्यादि सम्भावयितुं न शक्यमित्यन्वयः ।
किं स्वयमेव स्वस्य हेतुरिति स्वभाव उत कारणानपेक्षत्वम् । नाद्यः, आत्माश्रयात् । न द्वितीय इत्याह -
विशिष्टेति ।
विशिष्टान्यसाधारणानि देशकालनिमित्तानि । तेषां कार्यार्थिभिरुपादीयमानत्वात्कार्यस्य कारणानपेक्षत्वं न युक्तमित्यर्थः । अनेपेक्षत्वे धान्यार्थिनां भूविशेषे वर्षादिकाले बीजादिनिमित्ते च प्रवृत्तिर्न स्यादिति भावः ।
पूर्वोक्तसर्वज्ञत्वादिविशेषणकमीश्वरं मुक्त्वा जगत उत्पत्यादिकं न सम्भवतीति भाष्येण कर्तारं विना कार्यं नास्तीति व्यतिरेक उक्तः । तेन यत्कार्यं तत्सकर्तृकमिति व्याप्तिर्ज्ञायते । एतदेव व्याप्तिज्ञानं जगति पक्षे कर्तारं साधयत्सर्वज्ञेश्वरं साधयति किं श्रुत्येति तार्किकाणां भ्रान्तिमुपन्यस्यति -
एतदेवेति ।
एतदनुमानमेव(एतदेवानुमानमेव)* साधनं न श्रुतिरिति मन्यन्त इति योजना । अथवा एतद्व्याप्तिज्ञानमेव श्रुत्यनुग्राहकयुक्तिमात्रत्वेनास्मत्सम्मतं सदनुमानं स्वतन्त्रमिति मन्यन्त इत्यर्थः । सर्वज्ञत्वमादिशब्दार्थः । यद्वा व्याप्तिज्ञानसहकृतमेतल्लक्षणमेवानुमानं (स्वतन्त्रं)* मन्यन्त इत्यर्थः । तत्रायं विभागः व्याप्तिज्ञानात् जगतः कर्तास्तीत्यस्तित्वसिद्धिः । पश्चात्स कर्ता, सर्वज्ञः, जगत्कारणत्वात् , व्यतिरेकेण कुलालादिवदिति सर्वज्ञत्वसिद्धिर्लक्षणादिति । अत्र मन्यन्त इत्यनुमानस्याभासत्वं सूचितम् । तथाहि - अङ्कुरादौ तावज्जीवः कर्ता न भवति जीवाद्भिन्नस्य घटवदचेतनत्वनियमादन्यः कर्ता नास्त्येवेति व्यतिरेकनिश्चयात् , यत्कार्यं तत्सकर्तृकमिति व्याप्तिज्ञानासिद्धिः । लक्षणलिङ्गकानुमाने तु बाधः अशरीरस्य जन्यज्ञानायोगात्(जन्मज्ञानायोगात्)*, यज्ज्ञानं तन्मनोजन्यमिति व्याप्तिविरोधेन नित्यज्ञानासिद्धेर्ज्ञानाभावनिश्चयात् , तस्मादतीन्द्रियार्थे श्रुतिरेव शरणम् । श्रुत्यर्थसम्भावनार्थत्वेनानुमानं युक्तिमात्रं न स्वतन्त्रमिति भावः ।
नन्विदमयुक्तम् , श्रुतेरनुमानान्तर्भावमभिप्रेत्य भवदीयसूत्रकृतानुमानस्यैवोपन्यस्तत्वादिति(उपन्यस्यत्वादिति)* वैशेषिकः शङ्कते -
नन्विति ।
अतो मन्यन्ते इत्यनुमानस्याभासोक्तिरयुक्तेति भावः ।
कर्तृभोक्तृपदद्वयस्य कृत्यमाह –
श्राद्धेति ।
श्राद्धे पितुः भोक्तृत्वं पुत्रस्य कर्तृत्वं वैश्वानरेष्टौ पुत्रस्य भोक्तृत्वं पितुः कर्तृत्वमिति भेदात् कर्तृशब्देन भोक्ता नोच्यते तस्मात्पृथगुक्तिः न व्यर्थेति भावः ।
नन्वेतावता जीवजन्यत्वनिरासः कथमित्यत आह –
यो ब्रह्माणमिति ।
परमेश्वरः प्रथमं हिरण्यगर्भं सृजतीति श्रुत्यर्थः ।
विशेषजीवोत्पत्तौ श्रुतिमुक्त्वा सर्वजीवोत्पत्तौ श्रुतिमाह –
सर्व इति ।
ननु हिरण्यगर्भादीनां जीवानां नित्यत्वेन कथं कार्यत्वं तत्राह –
स्थूलेति ।
जगतः जीवजन्यत्वनिरासात् जगत्कारणस्येश्वरत्वं प्रसाधितमिति भावः । ननु जगन्मध्यवर्तित्वेपि विश्वामित्रादियोगिनां तत्कर्तृकसृष्टिर्दृश्यत इति लक्षणस्यातिव्याप्तिरिति चेन्न । कर्मफलं ज्ञात्वा यस्य जीवस्य यस्मिन् स्थाने योग्यतास्ति तत्स्थाने सृजनसामर्थ्यस्य तेषामभवेन तत्सृष्टेरपि भगवदधीनत्वात्तथा च जगत्कारणत्वलक्षणं हिरण्यगर्भादौ नातिव्याप्तमिति द्रष्टव्यम् ।
क्रियाफलानामिति ।
कर्मफलानामित्यर्थः ।
मेरुपृष्टं देश इति ।
अमरावत्यां पुण्यकर्मफलानुभवस्य प्रसिद्धत्वादिति भावः ।
उत्तरायणेति ।
यद्यप्युत्तरायणमरणादिरूपनिमित्ताभावेपि कर्मफलानुभवोस्ति तथाप्युत्तरायणादिनिमित्तं देहपातादूर्ध्वं झटिति कर्म फलानुभवे प्रतिनियतमिति भावः ।
क्रियाफलं द्विविधं ऐहिकामुष्मिकं चेति । तत्र यथा आमुष्मिकं प्रतिनियतदेशकालनिमित्तं तथा ऐहिकमपीत्याह –
एवमिति ।
सेवाफलस्य ग्रामादेः देशो भूमिः देहपातात् पूर्वं कालः राजहर्षादिनिमित्तं च प्रतिनियतमिति भावः ।
कर्मफलं देशाद्यभिज्ञदातृकं फलत्वाद्राजसेवाफलवदित्यनुमानं ज्ञापयन् फलितमाह –
तथा चेति ।
किं न स्यादिति सूत्रस्य यास्कवाक्यमूलकत्वे यास्कवाक्ये षण्णां प्रतिपादितत्वेन सूत्रनिष्ठादिपदेनापीतरेषां ग्रहीतुं शक्यत्वात् अन्तर्भावो नास्तीति शङ्कितुरभिप्रायः ।
जगत इति पदस्यार्थमाह –
महाभूतानामिति ।
भौतिकेषु भूतकार्यदेहादिष्वित्यर्थः ।
किन्त्विति ।
देहादौ दृश्यमानजन्मादिषट्ककारणत्वं साक्षान्महाभूतानामेवास्ति न ब्रह्मण इति तेषामेव लक्षणमुक्तमिति शङ्का स्यादिति भावः ।
योत्पत्तिर्ब्रह्मणस्तत्रैवेत्यादिभाष्यस्यार्थकथनपूर्वकमन्वयं स्फुटिकरोति –
ये श्रुत्युक्ता इति ।
यस्माद्ब्रह्मणः सकाशाद्या जगदुत्पत्तिः तत्रैव ब्रह्मणि या च स्थितिः यश्च लयस्त एव श्रुत्युक्ता उत्पत्त्यादयो गृह्यन्ते इति भाष्यवाक्यास्यार्थः । सुत्रस्य यास्कवाक्यमूलकत्वासम्भवादितरेषां भावविकाराणामन्तर्भाव एवोचित इति सिद्धान्त्यभिप्रायः ।
ननु यास्कमुनिवाक्यस्याकाशादिमहाभूतनिष्ठं जन्मादिषट्कमेवार्थः न भौतिकनिष्ठजन्मादिषट्कं तत्र महाभूतानामुत्पत्त्यादेः प्रत्यक्षेण गृहीतुमशक्यत्वेन वाक्यरचनानुपपत्तेः श्रुतिरेव वाक्यस्य मूलमिति वक्तव्यं तथा च त्रितयप्रतिपादिकायाः ’यतो वा इमानी’त्यादिश्रुतेस्तात्पर्यानुसारेण जन्मादिषट्कप्रतिपादकं वाक्यं मुनिश्चकारेति वाक्यमूलकत्वं सूत्रस्य स्यात्तस्मान्न ब्रह्मलक्षणसिद्धिरिति शङ्कामुज्जीवयति –
यदि निरुक्तस्यापीति ।
भगवता महर्षिणा श्रीमद्वेदव्यासेन प्रणीतस्य सूत्रस्य श्रुतिमूलकत्वे सम्भवति तस्यार्षेयवाक्यमूलकत्वमकिञ्चित्करमिति तज्जीवनमुच्छिनत्ति –
तर्हि सा श्रुतिरेवेति ।
सूत्राणां श्रुत्यर्थपरत्वाच्च श्रुतिमूलत्वमेव युक्तमिति भावः ।
न यथोक्तेत्यादि भाष्यस्योत्तरभाष्येण पौनरुक्त्यशङ्कां परिहरन् भाष्यमवतारयति –
यदि जगत इति ।
अतस्तन्निरासायेति ।
अतिरिक्तकारणत्वसम्भावनामत्रात् प्राप्तो योऽतिव्याप्त्यादिदोषस्तन्निरासायेत्यर्थः ।
सूत्रेण लक्षणं प्रतिपाद्यते न युक्तिभिरित्यभिप्रेत्योक्तम् –
सूत्रितेति ।
सूत्रेणार्थिकार्थतया प्रतिपादितेत्यर्थः । सूचितेति पाठेप्ययमेवार्थः ।
संसारिणश्चेति ।
चेतनस्यापि परिच्छिन्नज्ञानशक्तिमतो हिरण्यगर्भादेरित्यर्थः ।
भाष्ये
प्रधानादिति ।
परपरिकल्पितात् प्रधानादित्यर्थः ।
अणुभ्य इति ।
अचेतनेभ्योऽणुभ्य इत्यर्थः ।
अभावादिति ।
शून्यादित्यर्थः ।
व्याख्याने तार्किकमतं दूषयति –
परमाणूनामिति ।
नन्वचेतनत्वात्परमाणूनां स्वतःप्रवृत्त्यभावेपि निमित्तकारणत्वेनानुमानादिसिद्धसर्वज्ञेश्वरः तत्प्रेरकः स्यात्तत्राह –
जीवादन्यस्येति ।
प्रत्याहेति ।
तिरस्करोतीत्यर्थः ।
’न च स्वभावत’ इत्यनेन भाष्येणापेक्षितं पदजातमनुषङ्गेण पूरयति –
जगत इति ।
स्वभावपदार्थं विकल्प्य खण्डयति –
किं स्वयमेवेत्यादिना ।
कर्मधारयसमासमाह –
विशिष्टानीति ।
नन्वनुमानस्य पूर्वभाष्येणाप्रतिपाद्यत्वादेतदेवानुमानमित्युत्तरभाष्यं कथमित्याशङ्क्याह –
पूर्वोक्तेति ।
एतदेव व्याप्तिज्ञानमिति ।
एतद्व्याप्तिज्ञानात्मकमनुमानमेवेत्यर्थः ।
एतदनुमानमेवेति ।
व्याप्तिज्ञानात्मकमनुमानमेवेत्यर्थः ।
साधनमिति ।
ईश्वरसिद्धौ सर्वज्ञत्वसिद्धौ च प्रमाणमित्यर्थः ।
एवकारव्यावर्त्यमाह –
न श्रुतिरिति ।
अङ्कुरादिकं सकर्तृकं कार्यत्वात् घटवदित्यनुमानेन सकर्तृकत्वे साधिते सति कर्तुरनेकत्वे गौरवादेकत्वे तु लाघवमिति लाघवज्ञानसहकारेण एककर्तृकत्वं सिद्ध्यति, तच्च सर्वज्ञत्वमन्तरा न सम्भवतीति सर्वज्ञत्वं च सिद्ध्यति, तथा च सर्वज्ञेश्वरसिद्धिस्तस्मादनुमानमेव प्रमाणं श्रुतिस्तु न प्रमाणमिति तार्किकाः मन्यन्त इति भावः ।
ईश्वरसद्भावे श्रुतेरप्रामाण्ये तार्किकस्यावैदिकत्वापत्तिरित्यस्वरसादाह –
अथवेति ।
स्वतन्त्रमिति ।
स्वतन्त्रप्रमाणमित्यर्थः । तथा च श्रुतेरनुमानसिद्धार्थानुवादकत्वेन प्रामाण्यमिति भावः ।
एकेनैवानुमानेन सर्वज्ञकर्तृकत्वसाध्यसिद्धौ दृष्टान्ताभावान्न सर्वज्ञेश्वरसिद्धिरित्यस्वरसादाह –
यद्वेति ।
व्याख्यानद्वयेपि व्याप्तिज्ञानार्थकत्वेन एतत्पदं व्याख्याय सम्प्रति लक्षणार्थकत्वेन व्याख्याति –
एतल्लक्षणमिति ।
जन्मादिसूत्रोक्तजगत्कारणत्वलक्षमेव कर्तुः सर्वज्ञत्वसिद्धौ हेतुरिति मन्यन्त इत्यर्थः ।
लक्षणसूचितेन पूर्वोक्तानुमानेन सकर्तृकत्वमात्रं साध्यते सर्वज्ञत्वं तु लक्षणहेतुकानुमानान्तरेणेत्यभिप्रायं स्फुटयति –
तत्रायमिति ।
लक्षणहेतुकानुमानान्तरं रचयति –
सकर्तेति ।
लक्षणादिति ।
सर्वज्ञत्वं विना सर्वजगत्कारणत्वं न सम्भवति तथा च सर्वजगत्कारणत्वलक्षणसामर्थ्यात्सर्वज्ञत्वसिद्धिरिति भावः । ईश्वरः जगतः कारणं येषां ते ईश्वरकारणकाः काणादप्रभृतय इति भाष्यार्थः । तत्तन्मतवैलक्षण्येनानुमानवैलक्षण्यं विस्तरेण तर्कपादे वक्ष्यते अधुना काणादमतानुसारेण मार्गप्रदर्शनमात्रमत्र कृतं विस्तरभयादिति मन्तव्यम् ।
न सम्भवतीति ।
असमर्थत्वादिति भावः । एतस्माद्भिन्नस्येति पाठे जीवाद्भिन्नस्येत्यर्थः ।
यत्कार्यं तत्सकर्तृकमिति सामान्यव्याप्तिज्ञानादङ्कुरादिकार्यस्यापि सकर्तृकत्वसिद्धौ स च कर्ता क इत्युक्ते सति असामर्थ्याज्जीवो न भवति परिशेषादीश्वर इति तत्सिद्धिर्वक्तव्या सैव न सम्भवति जीवादन्यस्य घटादिवदचेतनत्वनियमेन अङ्कुरादिकार्यस्य कर्तैव नास्तीत्यकर्तृकत्वनिश्चये सति सकर्तृकत्वज्ञानासम्भवेन सामान्यव्याप्तिज्ञानासिद्धेस्तथा च कार्यत्वलिङ्गकानुमानं न सकर्तृकत्वसाधकं येनेश्वरसिद्धिः स्यादिति प्रथमानुमानं दूषयित्वा द्वितीयमनुमानं दूषयति –
लक्षणलिङ्गकेति ।
बाधः साध्याभावनिश्चय इत्यर्थः ।
ईस्वरस्य तन्मते सर्वज्ञत्वं नाम सर्वविषयकज्ञानाश्रयत्वं तच्च ज्ञानं जन्यमजन्यं वा ? नाद्य इत्याह –
अशरीरस्येति ।
न द्वितीय इत्याह –
यज्ज्ञानमिति ।
ज्ञानपदमाश्रितज्ञानपरं तथा च लक्षणलिङ्गकानुमानबाधान्न सर्वज्ञत्वसाधनं येन सर्वज्ञत्वं सिद्ध्येदिति भावः ।
श्लोकः –
सर्वज्ञं कारणं खादेः कृष्णाख्यं श्रुतिसम्मतम् ।
वन्देहमीश्वरं गोपीचित्तपद्ममधुव्रतम् ॥
परवादिना अनुमानाद्धीश्वरसिद्धिरित्युक्ते तत्खण्डनार्थं नेश्वरसिद्धिरित्याद्युच्चरितशब्दजन्यदोषनिरासायात्र मङ्गलं कृतमिति मन्तव्यम् ।
सर्वज्ञेश्वरसिद्धौ श्रुतेः प्रामाण्यं स्वातन्त्र्येण दर्शयन्ननुमानस्य तन्निरस्यति –
तस्मादिति ।
श्रुत्यर्थसम्भावनार्थत्वेनेति ।
श्रुत्यर्थे संशयादिनिवर्तकत्वेनेत्यर्थः । सिद्धान्ते सर्वज्ञत्वं नाम सर्वावभासक्षमविज्ञानस्वरूपत्वं तथा च श्रुत्या सर्वज्ञेश्वरसिद्धौ व्याप्तिज्ञानसत्त्वात् आश्रितज्ञानस्य मनोजन्यत्वनियमेन प्राप्तो यो बाधस्तस्यासम्भवाच्चानुमानद्वयं स्वसाध्यसाधकं सत्सर्वज्ञेश्वरं साधयतीति भावः ।
अनुमानान्तर्भावमभिप्रेत्येति ।
अनुमानसिद्धार्थानुवादकत्वेनोपपत्तिमभिप्रेत्येत्यर्थः ।
वैशेषिक इति ।
शब्दपक्षकानुवादी वैशेषिक इत्युच्यते जन्मादिसुत्रेणानुमानस्यैव प्रतिपादितत्वादनुमानमेव स्वतन्त्रं प्रमाणमिति शङ्कितुरभिप्रायः ।
भाष्ये
वेदान्तवाक्यकुसुमग्रथनार्थत्वादिति ।
श्रुतिविचारार्थत्वादित्यर्थः । वेदान्तवाक्यार्थपरिष्कारार्थत्वादिति यावत् ।
एतदेवोपपादयति –
वेदान्तवाक्यानीति ।
जगत इति ।
जगतो यज्जन्मादि तत्कारणं यद्ब्रह्म तत्प्रतिपादकेष्वित्यर्थः ।