अथ पञ्चमवर्णकम्
यदि श्रुतीनां स्वतन्त्रमानत्वं न स्यात्तर्हि ‘तत्तु समन्वयात्’(१-१-४(४)) इत्यादिना तासां तात्पर्यं सूत्रकृन्न विचारयेत् , तस्मादुत्तरसूत्राणां श्रुतिविचारार्थत्वात् जन्मादिसूत्रेऽपि श्रुतिरेव स्वातन्त्र्येण विचार्यते नानुमानमिति परिहरति -
नेति ।
किं च मुमुक्षोर्ब्रह्मावगतिरभीष्टा यदर्थमस्य शास्त्रस्यारम्भः, सा च नानुमानात् , ‘तं त्वौपनिषदम्’(बृ॰उ॰ ३-९-२६) इति श्रुतेः । अतो नानुमानं विचार्यमित्याह -
वाक्यार्थेति ।
वाक्यस्य तदर्थस्य च विचाराद्यदध्यवसानं(विचाराद्यध्यवसानं)* तात्पर्यनिश्चयः प्रमेयसम्भवनिश्चयश्च तेन जाता ब्रह्मावगतिर्मुक्तये भवतीत्यर्थः । अत्र सम्भवो(अत्रेतिनास्ति)* बाधाभावः ।
ननु किमनुमानमुपेक्षितमेव? नेत्याह -
सत्सु त्विति ।
विमतमभिन्ननिमित्तोपादानकम् , कार्यत्वादूर्णनाभ्यारब्धतन्त्वादिवत् , विमतं चेतनप्रकृतिकम् , कार्यत्वात् , सुखादिवदित्यनुमानं श्रुत्यर्थदार्ढ्याय अपेक्षितमित्यर्थः । दार्ढ्यं संशयविपर्यासनिवृत्तिः । ‘मन्तव्यः’ इति श्रुतार्थस्तर्केण सम्भावनीय इत्यर्थः । यथा कश्चित् गन्धार-(गान्धार)*देशेभ्यश्चोरैरन्यत्रारण्ये बद्धनेत्र एव त्यक्तः केनचिन्मुक्तबन्धस्तदुक्तमार्गग्रहणसमर्थः पण्डितः स्वयं तर्ककुशलो मेधावी स्वदेशानेव प्राप्नुयात् एवमेवेहाविद्याकामादिभिः स्वरूपानन्दात् प्रच्याव्यस्मिन्नरण्ये संसारे क्षिप्तः केनचिद्दयापरवशेनाचार्येण नासि त्वं संसारी किन्तु ‘तत्त्वमसि’(छा॰उ॰ ६-८-७) इत्युपदिष्टस्वरूपः स्वयं तर्ककुशलश्चेत्स्वरूपं जानीयान्नान्यथेति ।
श्रुतिः स्वस्याः पुरुषमतिरूपतर्कापेक्षां दर्शयतीत्याह -
पण्डित इति ।
आत्मनः श्रुतेरित्यर्थः ।
ननु ब्रह्मणो मननाद्यपेक्षा न युक्ता, वेदार्थत्वात् , धर्मवत् । किन्तु श्रुतिलिङ्गवाक्यादय एवापेक्षिता इत्यत आह -
नेति ।
जिज्ञास्ये धर्म इव जिज्ञास्ये ब्रह्मणीति व्याख्येयम् । अनुभवो ब्रह्मसाक्षात्काराख्यो विद्वदनुभवः । आदिपदान्मनननिदिध्यासनयोर्ग्रहः ।
तत्र हेतुमाह -
अनुभवेति ।
मुक्त्यर्थं ब्रह्मज्ञानस्य शाब्दस्य साक्षात्कारावसानत्वापेक्षणात्प्रत्यग्भूतसिद्धब्रह्मगोचरत्वेन साक्षात्कारफलकत्वसम्भवात् , तदर्थं मननाद्यपेक्षा युक्ता । धर्मे तु नित्यपरोक्षे साध्ये साक्षात्कारस्यानपेक्षितत्वादसम्भवाच्च श्रुत्या निर्णयमात्रमनुष्ठानायापेक्षितम् । लिङ्गादयस्तु श्रुत्यन्तर्भूता एव श्रुतिद्वारा निर्णयोपयोगित्वेनापेक्ष्यन्ते न मननादयः अनुपयोगादित्यर्थः । निरपेक्षः शब्दः श्रुतिः । शब्दस्यार्थप्रकाशनसामर्थ्यं लिङ्गम् । पदं योग्येतरपदाकाङ्क्षं वाक्यम् । अङ्गवाक्यसापेक्षं प्रधानवाक्यं प्रकरणम् । क्रमपठितानामर्थानां क्रमपठितैर्यथाक्रमं सम्बन्धः स्थानम् । यथा ऐन्द्राग्नादय(ऐन्द्राग्न्यादय)* इष्टयो दश क्रमेण पठिताः दशमन्त्राश्च ‘इन्द्राग्नी रोचना दिवि’ इत्याद्याः तत्र प्रथमेष्टौ प्रथममन्त्रस्य विनियोग इत्याद्यूहनीयम् । संज्ञासाम्यं समाख्या । यथाध्वर्यवसंज्ञकानां मन्त्राणामाध्वर्यवसंज्ञके कर्मणि विनियोग इति विवेकः । एवं तावद्ब्रह्म मननाद्यपेक्षम् , वेदार्थत्वात् , धर्मवत् , इत्यनुमाने साध्यत्वेन धर्मस्यानुभवायोग्यत्वम् , अनपेक्षितानुभवत्वं चोपाधिरित्युक्तम् । उपाधिव्यतिरेकाद्ब्रह्मणि मननाद्यपेक्षत्वं चोक्तम् । तत्र यदि वेदार्थत्वमात्रेण ब्रह्मणो धर्मेण साम्यं त्वयोच्येत तर्हि कृतिसाध्यत्वं विधिनिषेधविकल्पोत्सर्गापवादाश्च ब्रह्मणि धर्मवत् स्युरिति ।
विपक्षे बाधकमाह -
पुरुषेत्यादिना ।
पुरुषकृत्यधीन(पुरुषकृत्यधीना)* आत्मलाभ उत्पत्तिर्यस्य तद्भावाच्च धर्मे श्रुत्यादीनामेव प्रामाण्यमित्यन्वयः ।
धर्मस्य साध्यत्वं लौकिककर्मदृष्टान्तेन स्फुटयति -
कर्तुमिति ।
लौकिकवदित्यर्थः ।
दृष्टान्तं स्फुटयति -
यथेति ।
दार्ष्टान्तिकमाह -
तथेति ।
व्याख्याने
सा चेति ।
ब्रह्मावगतिरित्यर्थः ।
वाक्यार्थविचारेत्यत्र वाक्यस्य तदर्थस्य च विचार इति पदच्छेदपूर्वकं भाष्यं व्याकरोति –
वाक्यस्य तदर्थस्य चेति ।
वाक्यविचारादेतद्वाक्यमेतस्मिन्नर्थे तात्पर्यकमिति तात्पर्यनिश्चयो जायते वाक्यार्थविचारात्प्रमेये बाधाभावनिश्चय इति भावः ।
विमतमिति ।
जगदित्यर्थः । निमित्तं च उपादानं च निमित्तोपादाने अभिन्ने निमित्तोपादाने यस्य तदिति विग्रहः । भिन्ने निमित्तोपादाने यस्य तद्भिन्ननिमित्तोपादानकं तन्न भवतीत्यभिन्ननिमित्तोपादानकमिति वा विग्रहः । अत्रेदमनुसन्धेयम् । ब्रह्म विवर्तोपादानं माया तु परिणाम्युपादानकमिति पक्षे स्वरूपानुपमर्दनेन अन्यथाभावः विवर्तः स्वरूपोपमर्दनेनान्यथाभावः परिणाम इति तयोर्भेदः विभावनीयः । माया तु कारणमेवेति पक्षान्तरमिति ।
दार्ढ्यायेति ।
श्रुत्या जगत्कारणस्योभयकारणत्वे बोधितेपि वादिभिरन्यथार्थस्य प्रतिपादितत्वात्पुरुषस्य संशयादिरुत्पद्यते तन्निवृत्यमित्यर्थः ।
श्रुत्यैवानुमानमङ्गीकृतमिति भाष्याशयं स्फुटीकर्तुं श्रुत्यंशं सङ्गृह्णाति –
मन्तव्य इतीति ।
श्रुत्यर्थः श्रुत्यादिविचाररूपश्रवणेन गृहीतार्थः ।
मन्तव्यपदार्थमाह –
तर्केणेति ।
अनुमानेनेत्यर्थः । तथा ’श्रोतव्य’ इति श्रुत्या गृहीतार्थः । ’मन्तव्य’ इत्येवं श्रुत्याप्यनुमानमभ्युपेतमिति भावः ।
श्रुत्यन्तरस्याप्यनुमाने सम्मतिरस्तीति भाष्यभावं स्फुटीकर्तुं श्रुत्यर्थकथनार्थमाख्यायिकामारभते –
यथा कश्चिदित्यादिना ।
श्रुतिगतैवंशब्दद्योतितदृष्टान्तमाह –
यथेति ।
पण्डितो मेधावीति पदद्वयस्य क्रमेणार्थमाह –
तदुक्तमार्गेति ।
दार्ष्टान्तिके सादृश्यमुपपादयन् श्रुतेरनुमानापेक्षायां तात्पर्यं स्फुटीकरोति –
एवमेवेहेति ।
इयता ग्रन्थेनातीन्द्रियार्थे श्रुतिरेव स्वतन्त्रप्रमाणमिति प्रतिपाद्य श्रुत्यर्थसम्भावनार्थत्वेन मननरूपस्यानुमानस्य यत्प्रामाण्यमुक्तं तद्दूषणपरत्वेन शङ्कामुद्घाटयति –
ननु ब्रह्मण इति ।
ननु धर्मब्रह्मणोः प्रमाणस्य श्रुत्यादेः कथं जिज्ञासान्तर्नीतविचारे प्रामाण्यमित्याशङ्क्य भाष्यमन्यथा योजयति –
जिज्ञास्ये धर्म इवेति ।
मननादेर्दुरितरूपप्रतिबन्धकनिवर्तकत्वेन ज्ञानद्वारा प्रामाण्यमिति ज्ञापनार्थं यत्र स्वतःसिद्धदुरिताभावः तत्र मननादेर्न हेतुतेति ज्ञापनार्थं च भाष्ये यथासम्भवमिह प्रमाणमित्युक्तमिति द्रष्टव्यम् ।
मुक्त्यर्थमिति ।
ब्रह्मज्ञानस्यापरोक्षरूपसाक्षात्कारत्वेनैवाज्ञाननिवर्त्कत्वात्साक्षात्कारावसानत्वापेक्षा उचितेति भावः ।
द्वितीयहेतोरर्थमाह –
प्रत्यग्भूतेति ।
’कर्मकर्तव्ये हि विषय’ इत्यादि भाष्यं व्याचष्टे –
धर्मे त्विति ।
नित्यपरोक्षे साध्य इति पदद्वयं हेतुगर्भविशेषणम् ।
असम्भवाच्चेति ।
अयोग्यत्वाच्चेत्यर्थः । धर्मस्य साध्यत्वेन अनपेक्षितानुभवत्वान्नित्यपरोक्षत्वेनापरोक्षायोग्यत्वाच्चेति भावः ।
निरपेक्ष इति ।
प्रमाणान्तरानपेक्षत्वे सति स्वार्थबोधकत्वं निरपेक्षत्वम् ।
श्रुत्यादय इति भाष्यस्थादिशब्दार्थं लक्षणपूर्वकं विवृणोति –
शब्दस्येत्यादिना ।
पदं योग्यतरेति ।
योग्यमितरं च यत्पदं तेनाकाङ्क्षा यस्य तदिति विग्रहः । आकाङ्क्षायोग्यतासन्निधिमतां पदानां समूह एव वाक्यमित्यर्थः । कर्मकाण्डे क्रमपठितानामर्थानां मन्त्रकाण्डे क्रमपठितैरित्यर्थः ।
सम्बन्ध इति ।
विनियोग इत्यर्थः ।
स्थानमुक्तलक्षणमुदाहरति –
यथेति ।
आध्वर्यवसंज्ञकानामिति ।
अध्वर्युणा पठितानामिति यावत् ।
आध्वर्यवसंज्ञक इति ।
अध्वर्युणा कर्तव्य इति यावत् ।
श्रुत्यादीनामनुभवादीनां च ब्रह्मणि प्रामाण्यमुक्त्वा परोक्तमनुमानं दूषयति –
एवं तावद्ब्रह्मेति ।
साध्यत्वेनेति ।
धर्मस्य जन्यत्वेनेत्यर्थः ।
साक्षात्कारस्यानपेक्षितत्वादसम्भवाच्चेति स्वोक्तं हेतुद्वयम् , अस्मिन्ननुमाने प्रत्येकमुपाधिरित्याह –
अनुभवायोग्यत्वमिति ।
पक्षातिरिक्ते दृष्टान्ते धर्मे साध्यव्यापकत्वं पक्षे ब्रह्मणि साधनाव्यापकत्वमिति विवेकः ।
साधितं मननाद्यपेक्षत्वं स्मारयति –
उपाधिव्यतिरेकादिति ।
साध्यव्यापकः साधनाव्यापक उपाधिः, तथा च उपाधिद्वयस्याभावादित्यर्थः । ब्रह्मणः उपाधिद्वयरहितत्वान्मननाद्यपेक्षा युक्तेति भावः ।
पूर्वपक्ष्युक्तमनुमानं स्वसाध्यासाधकमिति दूषणमुक्त्वा प्रतिबन्द्या दूषणान्तरपरत्वेन भाष्यमवतारयति –
तत्रेति ।
ब्रह्मानुभवाद्यपेक्षं सिद्धवस्तुत्वात् घटवदिति सिद्धान्त्यभिमतानुमाने हेतुरस्तु साध्यं मास्त्वित्याकारकविपक्षांशमुपपादयति –
यदीति ।
वेदार्थत्वमात्रेण वेदप्रमेयत्वाविशेषेणेत्यर्थः ।
साम्यं त्वयोच्येतेति ।
साम्यमङ्गीकृत्य मननाद्यनपेक्षत्वं त्वयोच्येतेत्यर्थः ।
बाधकांशमुपपादयति –
तर्हीति ।
धर्मसाम्यात् ब्रह्मणि मननाद्यनपेक्षत्वं स्यादित्याकारकविपक्षे कृतिसाध्यत्वादिना किमपराद्धं तदपि स्यादिति बाधकमाहेत्यर्थः ।
भाष्ये
पुरुषाधीनात्मलाभात्वाच्च कर्तव्यस्येति ।
धर्मस्य कृतिसाध्यत्वाच्चेत्यर्थः । ’कर्तव्ये ही’त्यादिभाष्यपरिष्कृतस्य अन्पेक्षितानुभवत्वादपरोक्षायोग्यत्वादिति हेतुद्वयस्य समुच्चयार्थश्चशब्दः । यथाश्वेनेति लौकिकस्य गमनरूपकर्मणः अश्वेन गच्छति पद्भ्यां वेति द्वयेन कर्तुं शक्यत्वं प्रतिपादितम् , अन्यथा वा गच्छतीत्यनेन उन्मत्तादिसादृश्येन वा गच्छतीति अन्यथा कर्तुं शक्यत्वमुपपादितं न वा गच्छतित्यनेनाकर्तुं शक्यत्वमुपपादितं भवतीति भावः ।
दृष्टान्तस्य लौकिककर्मणः कर्तुं शक्यत्वादित्रितयमुपपाद्य वैदिककर्मणः धर्मस्य तत्र त्रितयमुपपादयति –
तथेति ।
ग्रहणाग्रहणयोः इच्छाधीनत्वान्न विरोध इत्यभिप्रेत्याह –
नातिरात्र इति ।
षोडशिनमिति ।
षोडशिनामकं सोमरसपानाख्यग्रहं व्यापाररूपग्रहणेन संस्कुर्यादित्यर्थः ।