भाष्यरत्नप्रभाव्याख्या
पूर्णानन्दीया
 

तद्वद्धर्मस्य कर्तुमकर्तुं शक्यत्वमुक्त्वा अन्यथाकर्तुं शक्यत्वमाह -

उदित इति ।

धर्मस्य साध्यत्वमुपपाद्य तत्र विध्यादियोग्यतामाह -

विधीति ।

विधिप्रतिषेधाश्च विकल्पादयश्च धर्मे साध्ये येऽर्थवन्तः सावकाशा भवन्ति ते ब्रह्मण्यपि स्युरित्यर्थः ।

‘यजेत’ ‘न सुरां पिबेत्’ इत्यादयो विधिनिषेधाः । व्रीहिभिर्यवैर्या यजेतेति सम्भावितो विकल्पः ग्रहणाग्रहणयोरैच्छिकः । उदितानुदितहोमयोर्व्यवस्थितविकल्पः । ‘न हिंस्यात्’ इत्युत्सर्गः, ‘अग्नीषोमीयं पशुमालभेत’ इत्यपवादः । तथा ‘आहवनीये जुहोति’ इत्युत्सर्गः, ‘अश्वस्य पदे पदे जुहोति’ इत्यपवाद इति विवेकः । एते ब्रह्मणि स्युरित्यत्रेष्टापत्तिं वारयति -

न त्वित्यादिना(तु इति नास्ति)* भूतवस्तुविषयत्वात् इत्यन्तेन ।

इदं वस्तु, एवम् , नैवम् , घटः पटो वेति प्रकारविकल्पः । अस्ति नास्ति वेति सत्तास्वरूपविकल्पः ।

ननु वस्तुन्यपि आत्मादौ वादिनामस्ति नास्तीत्यादिविकल्पा दृश्यन्ते तत्राह -

विकल्पनास्त्विति ।

अस्तित्वादिकोटिस्मरणं पुरुषबुद्धिस्तन्मूला मनःस्पन्दितमात्राः संशयविपर्ययविकल्पा न प्रमारूपा इत्यक्षरार्थः । अयं भावः धर्मो हि यथा यथा ज्ञायते तथा तथा कर्तुं शक्यते इति यथाशास्त्रं पुरुषबुद्ध्यपेक्षा विकल्पाः सर्वे प्रमारूपा एव भवन्ति, तत्साम्ये(तत्साम्येन)* ब्रह्मण्यपि सर्वे विकल्पा यथार्थाः स्युरिति ।

तत्राप्योमिति(तत्राप्येवमिति)* वदन्तं प्रत्याह -

नेति ।

यदि सिद्धवस्तुज्ञानमपि साध्यज्ञानवत्पुरुषबुद्धिमपेक्ष्य जायेत तदा सिद्धे विकल्पा यथार्थाः स्युः, न सिद्धवस्तुज्ञानं पौरुषं किं तर्हि प्रमाणवस्तुजन्यम् , तथा च वस्तुन एकरूपत्वादेकमेव ज्ञानं प्रमा, अन्ये विकल्पा अयथार्था एवेत्यर्थः ।

अत्र दृष्टान्तमाह -

नहि स्थाणाविति ।

स्थाणुरेवेत्यवधारणे सिद्धे सर्वे विकल्पा यथार्था न भवन्तीत्यर्थः ।

तत्र यद्वस्तुतन्त्रं ज्ञानं तद्यथार्थम् , यत्पुरुषतन्त्रं तन्मिथ्येति विभजते -

तत्रेति ।

स्थाणावित्यर्थः ।

स्थाणावुक्तन्यायं घटादिष्वतिदिशति -

एवमिति ।

प्रकृतमाह -

तत्रैवं सतीति ।

सिद्धेऽर्थे ज्ञानप्रमात्वस्य वस्त्वधीनत्वे सति ब्रह्मज्ञानमपि वस्तुजन्यमेव यथार्थं न पुरुषतन्त्रं भूतार्थविषयत्वात् , स्थाणुज्ञानवदित्यर्थः । अतः साध्येऽर्थे सर्वे विकल्पाः पुन्तन्त्रा न सिद्धेऽर्थे इति वैलक्षण्यात् न धर्मसाम्यं ब्रह्मण इति मननाद्यपेक्षा सिद्धेति भावः ।

ननु तर्हि ब्रह्म प्रत्यक्षादिगोचरम् , धर्मविलक्षणत्वात् , घटादिवत् । तथा च जन्मादिसूत्रे जगत्कारणानुमानं विचार्यम् , सिद्धार्थे तस्य मानत्वात् , न श्रुतिः, सिद्धार्थे तस्या अमानत्वेन तद्विचारस्य निष्फलत्वादिति शङ्कते -

नन्विति ।

प्रमाणान्तरविषयत्वमेव प्राप्तमिति कृत्वा प्रमाणान्तरस्यैव विचारप्राप्ताविति शेषः ।

व्याख्याने –

अन्यथाकर्तुमिति ।

शाखाभेदेन अर्थद्वयेऽपि विधेः सत्त्वादन्यथाकर्तुं शक्यतामाहेत्यर्थः ।

धर्मस्येति ।

अधर्मस्येदमुपलक्षणम् । धर्माधर्मयोः साध्यत्वमुपपाद्येत्यर्थः ।

तत्रेति ।

धर्माधर्मयोरित्यर्थः । आदिशब्देन निषेधादिकं गृह्यते धर्मे यजेतेति विधिः अधर्मे सुरापाने तु न सुराम्पिबेदिति निषेध इति विवेकः । विधयश्च प्रतिषेधाश्चेति द्वन्द्वसमासः । धर्म इति अधर्मस्येदमुपलक्षणम् ।

उपपादनफलमाह –

ब्रह्मण्यपीति ।

यजेतेति धर्मे विधेयत्ववत् ब्रह्मण्यपि विधेयत्वं स्यात् , अधर्मे न पिबेदिति निषेध्यत्ववत् ब्रह्मणः प्रतिषेध्यत्वं च स्यात् , व्रीहिभिर्यवैर्वा यजेतेतिवत् ब्रह्म वा स्थाणुर्वेति विकल्पः स्यात् , उदिते जुहोत्यनुदिते जुहोतीति शाखाभेदेन व्यवस्थावत् क्वचिद्ब्रह्म भवति न भवतीति व्यवस्था स्यात् , न हिंस्यात्सर्वाभूतानि अग्नीषोमीयं पशुमालभेतेतिवत् सामान्यप्रतिपन्ने ब्रह्मणि विशेषोपवादः स्यादिति भावः ।

क्रमेण विध्यादीन् पञ्चोपपादयति –

यजेतेत्यादिना ।

विकल्पस्त्रिविधः सम्भावितः ऐच्छिकः व्यवस्थित इति तान् क्रमेणोदाहरति –

व्रीहिभिरिति ।

ग्रहणेति ।

अतिरात्रे षोडशिनं गृह्णाति न गृह्णातीति ग्रहणाग्रहणयोरित्यर्थः । उदिते जुहोत्यनुदिते जुहोतीत्युदितानुदितहोमयोरित्यर्थः । उत्सर्गः सामान्यवचनमित्यर्थः ।

एत इति ।

षट्सङ्ख्याकाः कृतिसाध्यत्वादय इत्यर्थः ।

न त्वित्यादिनेति ।

सिद्धे ब्रह्मणि वृत्तिजन्यत्वादेरिष्टापत्तौ दूषणमुपेक्षावशादनुक्त्वा अस्ति नास्तीत्यादिविकल्पमात्रं दूषयतीति भावः ।

’ननु वस्त्वेव’मित्यादिभाष्ये वस्त्वेवं नैवमित्यंशेन प्रकारविकल्पः प्रतिपाद्यते अस्ति नास्तीत्यंशेन स्वरूपविकल्पः तथा च नन्वित्यत्र नञ्वस्त्वेवं नैवमिति विकल्प्यते अस्ति नास्तीति न विकल्प्यत इति उभयत्रान्वयमभिप्रेत्य भाष्यं व्याचष्टे –

इदं वस्त्विति ।

एवमिति ।

एतादृशधर्मवदित्यर्थः ।

नैवमिति ।

एतादृशधर्मवन्नेत्यर्थः ।

प्रकारविकल्पे दृष्टान्तमाह –

घट इति ।

मन्दान्धकारसमये पुरोवर्तिपदार्थः घटत्वप्रकारवान् पटत्वप्रकारवान् वेतिवत् इदं ब्रह्म एवं नैवमिति – प्रकारविकल्पवन्नेति भावः ।

आत्मादौ वादिनां विकल्पा दृश्यन्त इत्याशङ्कायाः परिहारं स्फोरयितुमर्थमाह –

अस्त्वित्यादिकोटिस्मरणमिति ।

इदं दोषादेरुपलक्षणम् । ब्रह्मणि सर्वे मनस्पन्दितमात्राः अस्ति नास्तीत्यादिविकल्पाः पुरुषनिष्ठदोषसंस्कारकोटिजन्यत्वान्न प्रमारूपा इति भावः ।

अक्षरार्थकथनेन ब्रह्मणि विकल्पानामप्रमात्वमुक्त्वा यदि ब्रह्मणो धर्मसाम्यमङ्गीक्रियेत तदा धर्मे विकल्पानां प्रमात्ववत् ब्रह्मण्यपि विकल्पानां प्रमात्वं स्यादित्यनिष्टमापादयति –

अयं भाव इति ।

यथेति ।

शाखाभेदेन विधीनां सत्त्वाद्यथा यथा ज्ञायत इत्यर्थः । शास्त्रमनतिक्रम्य यथाशास्त्रं शास्त्रमनुसृत्येति यावत् ।

पुरुषबुद्ध्यपेक्षा इति ।

षोडशिनं गृह्णात्युदिते जुहोत्यनुदिते जुहोतीत्यादिकोटिद्वयसत्त्वादत्र कोटिस्मरणमात्रं परुषबुद्धिशब्दार्थः तथा च पुरुषबुद्धिमूलका इत्यर्थः । प्रमाणभूता प्रमाभूता इत्यर्थः । विधिप्रतिपादितानां कर्मणां वस्तुत्वेन यथार्थत्वसत्त्वात्तद्विषयका विकल्पाः तद्वति तत्प्रकारकत्वात्प्रमारूपा एवेति भावः ।

तत्साम्य इति ।

धर्मसाम्ये ब्रह्मण्यङ्गीकारे सतीत्यर्थः । यथार्थाः प्रमास्वरूपा इत्यर्थः । इतिपदस्य पूर्वेणायमभिप्राय इत्यनेनान्वयः । ओम् इत्यङ्गीकारे, ब्रह्मण्यपि विकल्पानां प्रमात्वमिष्टमिति वदन्तं तिरस्करोतीत्यर्थः ।

सिद्धवस्तुज्ञानमपीति ।

उपक्रमादिषड्विधलिङ्गावधृताद्वितीयब्रह्मतात्पर्यकश्रुत्यादिभिः प्रमीतं सिद्धं यत् वस्तु ब्रह्म तद्विषयकज्ञानमपीत्यर्थः । साध्यज्ञानवदित्यर्थः । व्रीहिभिर्यवैर्वा यजेति वैकल्पिकद्रव्यजन्ययागज्ञानवदित्यर्थः ।

पौरुषमिति ।

पुरुषबुद्ध्यपेक्षमित्यर्थः । प्रमितत्वेनाबाधितं यद्वस्तु तज्जन्यमित्यर्थः । सर्वासां श्रुतीनामद्वितीयब्रह्मबोधकत्वादत्र कोटिद्वयोपस्थापकं शास्त्रमेव नास्ति येन वस्तुज्ञानं कोटिद्वयस्मरणरूपपुरुषबुद्धिमपेक्ष्य जायेत येन ब्रह्मणि विकल्पानां प्रमात्वं च स्यादिति भावः ।

धर्मस्य वैकल्पिकद्रव्यजन्यत्वेनानेकत्वात्तस्मिन् विकल्पानां प्रमात्वं युक्तं सिद्धस्य ब्रह्मणः एकत्वाद्विकल्पानां न प्रमात्वमित्याह –

तथा चेति ।

ज्ञानं द्विविधं वस्तुतन्त्रं पुरुषतन्त्रं चेति । तत्र वस्तुतन्त्रमेकमेव ज्ञानं प्रमा पुन्तन्त्रमनेकरूपं विकल्पात्मकं ज्ञानं भ्रम एवेति भावः । अत्रेत्यादि न पुरुषतन्त्रमित्यन्तग्रन्थः स्फुटार्थः ।

भूतार्थेति ।

सिद्धार्थेत्यर्थः ।

साध्येर्थ इति ।

कृतिजन्ये धर्म इत्यर्थः । विकल्पाः उदितानुदितहोमज्ञानरूपाः विकल्पाः इत्यर्थः । पुन्तन्त्राः पुरुषबुद्ध्यपेक्षा इत्यर्थः । यथार्था अबाधितविषयकत्वात्प्रमारूपा इत्यर्थः ।

श्रुत्यर्थसम्भावनार्थत्वेन मननस्वरूपानुमानादीनां प्रामाण्यसिद्धिरित्युपसंहरति –

इति वैलक्षण्यादिति ।

धर्मसाम्यानङ्गीकारे पुनरनुमानवादिशङ्कामुत्थापयति –

नन्विति ।

तथा च ब्रह्मणि प्रत्यक्षानुमानादिकमेव स्वतन्त्रप्रमाणं न श्रुतिरिति भावः ।