अत्र पूर्वपक्षी प्रष्टव्यः, किं यत्कार्यं तद्ब्रह्मजमित्यनुमानं ब्रह्मसाधकं किं वा यत्कार्यं तत्सकारणमिति । नाद्यः, व्याप्त्यसिद्धेरित्याह -
नेति ।
ब्रह्मण इन्द्रियाग्राह्यत्वात्प्रत्यक्षेण व्याप्तिग्रहायोगान्न प्रमाणान्तरविषयत्वमित्यर्थः ।
इन्द्रियाग्राह्यत्वं कुत इत्यत आह -
स्वभावत इति ।
‘पराञ्चि खानि व्यतृणत्स्वयम्भूः’(क॰उ॰ २-१-१) इति श्रुतेः, ब्रह्मणो रूपादिहीनत्वाच्चेत्यर्थः ।
इन्द्रियाग्राह्यत्वेऽपि व्याप्तिग्रहः किं न स्यादत आह -
सति हीति ।
तन्नास्तीति शेषः । इदं कार्यं ब्रह्मजमिति व्याप्तिप्रत्यक्षं ब्रह्मणोऽतीन्द्रियत्वान्न सम्भवतीत्यर्थः ।
द्वितीये कारणसिद्धावपि कारणस्य ब्रह्मत्वं श्रुतिं विना ज्ञातुमशक्यमित्याह -
कार्यमात्रमिति ।
सम्बद्धं कृतं यस्मात् श्रुतिमन्तरेण जगत्कारणं ब्रह्मेति निश्चयालाभस्तस्मात्तल्लाभाय श्रुतिरेव प्राधान्येन विचारणीया, अनुमानं तूपादानत्वादिसामान्यद्वारा मृदादिवत् ब्रह्मणः स्वकार्यात्मकत्वादिश्रौतार्थसम्भावनार्थं गुणतया विचार्यमित्युपसंहरति -
तस्मादिति ।
एतत्सूत्रस्य विषयवाक्यं पृच्छति -
किं पुनरिति ।
इह ब्रह्मणि लक्षणार्थत्वेन विचारयितुमिष्टं वाक्यं किमित्यर्थः ।
अत्र हि प्रथमसूत्रे विशिष्टाधिकारिणो ब्रह्मविचारं प्रतिज्ञाय ब्रह्म ज्ञातुकामस्य द्वितीयसूत्रे लक्षणमुच्यते । तथैव श्रुतावपि मुमुक्षोर्ब्रह्म ज्ञातुकामस्य जगत्कारणत्वोपलक्षणानुवादेन ब्रह्म ज्ञाप्यत इति श्रौतार्थक्रमानुसारित्वं सूत्रस्य दर्शयितुं सोपक्रमं वाक्यं पठति -
भृगुरिति ।
अधीहि स्मारय उपदिशेत्यर्थः । अत्र येनेत्येकत्वं विवक्षितम् , नानात्वे ब्रह्मत्वविधानायोगात् । यज्जगत्कारणं तदेकमित्यवान्तरवाक्यम् । यदेकं कारणं तद्ब्रह्मेति वा यत्कारणं तदेकं बह्मेति वा महावाक्यमिति भेदः ।
किं तर्हि स्वरूपलक्षणमित्याशङ्क्य वाक्यशेषान्निर्णितो यतःशब्दार्थः सत्यज्ञानानन्द इत्याह -
तस्य चेति ।
‘यः सर्वज्ञः’ ‘तस्मादेतद्ब्रह्म नाम रूपमन्नं च जायते’(मु॰उ॰ १-१-१०) ‘विज्ञानमानन्दं ब्रह्म’(बृ॰उ॰ ३-९-२८) इत्यादि शाखान्तरीयवाक्यान्यप्यस्य विषय इत्याह -
अन्यान्यपीति ।
एवं जातीयकत्वमेवाह -
नित्येति ।
तदेवं सर्वासु शाखासु लक्षणद्वयवाक्यानि जिज्ञास्ये ब्रह्मणि समन्वितानि, तद्धिया मुक्तिरिति सिद्धम् ॥ २ ॥
अनुमानस्य स्वातन्त्र्येण प्रामाण्यखण्डनात् प्रत्यक्षप्रामाण्यखण्डनमपि भवत्येवेति तद्धेतुव्याप्तिज्ञानं विकल्प्य खण्डयतीति भाष्यभावं स्फुटीकुर्वन्नुत्तरभाष्यमवतारयति –
अत्र पर्वपक्षीति ।
किं ब्रह्मत्वविषयकविशेषव्याप्तिज्ञानं ब्रह्मसाधकमाहोस्वित् कारणत्वविषयकसामान्यव्याप्तिज्ञानमिति विकल्पार्थः ।
व्याप्येति ।
व्याप्तीत्यर्थः ।
तत्प्रत्यक्षेणेति ।
ब्रह्मप्रत्यक्षेण विशेषव्याप्तिग्रहायोगादित्यर्थः । खानीन्द्रियाणि पराञ्चि विषयोन्मखानीत्यर्थः ।
ब्रह्मणो रूपादीति ।
प्रत्यक्षहेतुरूपादेरभावात् ब्रह्मणः न प्रत्यक्षप्रमाविषयत्वमिति भावः ।
द्वितीय इति ।
सामान्यव्याप्तिज्ञानं हेतुरिति पक्ष इत्यर्थः ।
भाष्ये –
सम्बन्धाग्रहणादिति ।
व्याप्तिग्रहायोगादित्यर्थः ।
गृह्यमाणमिति ।
ज्ञानविषयीभूतमित्यर्थः । यत्कार्यं तत्कारणजन्यमिति कारणजन्यत्वेनैव ज्ञानविषयीभूतकार्यं किं ब्रह्मणः सम्बद्धमित्यर्थः ।
व्याख्याने उपादानत्वादीति ।
आदिशब्देन निमित्तकारणत्वसर्वज्ञत्वादिकमुच्यत्ते, उपादानत्वादिरूपो यः स सामान्यधर्मः कार्यात्मकत्वादिश्रौतार्थः तद्द्वारा अनुमानं विचार्यमित्यन्वयः । अत एव गुणतयेत्युक्तम् ।
श्रौतार्थं निमित्तीकृत्यैव अनुमानस्य प्रामाण्यं न स्वातन्त्र्येणेत्युक्तमेव विवृणोति –
मृदादिवदिति ।
मृदादिदृष्टान्तेन श्रुत्या प्रतिपादितो य उपादानत्वादिरूपोर्थः तस्मिन्पुरुषसंशयनिवृत्त्यर्थमित्यर्थः ।
अयं भावः ।
उपादानत्वं किं कार्यैक्यं किं वा तत्तादात्म्यं उत कार्याधिष्ठानत्वं किं निमित्तकारणत्वं कर्तृत्वस्वरूपं तद्भिन्नस्वरूपं वा, किं सर्वज्ञत्वं सर्वविषयकज्ञानाश्रयत्वं सर्वावभासक्षमविज्ञानस्वरूपत्वं वेत्येव श्रुत्यर्थे पुरुषस्य सन्देहे सति कार्याधिष्ठानत्वादिनिश्चयार्थमनुमानमुपसर्जनतया विचार्यं तस्मान्न स्वतन्त्रं प्रमाणमनुमानमित्युपसंहरतीति ।
तस्मादितीति ।
विषयवाक्यमिति ।
यद्वाक्यमुद्दिश्य विचारः क्रियते तद्विषयवाक्यमित्यर्थः ।
प्रतीकमादाय इहेत्यस्यार्थमाह –
इह ब्रह्मणीति ।
लिलक्षयिषितमिति पदस्यार्थमाह लक्षणार्थत्वेन विचारयितुमिति ।
लक्षणमुच्यत इति ।
यथा लक्षणमुच्यते तथैवेत्यन्वयः ।
उपलक्षणानुवादेनेति ।
तटस्थलक्षणाभिधानमुखेनेत्यर्थः । श्रुतेः ब्रह्मस्वरूपप्रतिपादन एव मुख्यतात्पर्यं न जगत्कारणत्वप्रतिपादन इति ज्ञापयितुमनुवदेनेत्युक्तम् । एतेन तटस्थलक्षणस्य श्रुतौ पुरोवादाभावादनुवादेनेत्यनुपपन्नमिति निरस्तम् । अनुवादपदस्य ज्ञापनार्थत्वेन व्याख्यातत्वादिति भावः । तटस्थलक्षणं नाम यावल्लक्ष्यकालमनवस्थितत्वे सति तद्व्यावर्तकं तदेव यथा गन्धवत्वं पृथिवीलक्षणं महाप्रलये परमाणुषु उत्पत्तिकाले घटादिषु च गन्धाभावात् प्रकृते जगज्जन्मादिकारणत्वमिति केचिद्वदन्ति ।
भाष्ये
यत्प्रयन्त्यभिसंविशन्तीति ।
प्रयन्ति म्रियमाणानीत्यर्थः । अभिसंविशन्ति आभिमुख्येन संविशन्तीत्यर्थः ।
व्याख्याने
ब्रह्मत्वविधानायोगादिति ।
अद्वितीयत्वरूपब्रह्मत्वविधानायोगादित्यर्थः ।
यज्जगदिति ।
’यतो वा इमानि भूतानी’त्यारभ्य ’तद्विजिज्ञासस्वे’त्यन्तं वाक्यं जगत्कारणं तदेकमिति यच्छब्दादिविशिष्टत्वेन सामान्यव्याप्तिप्रतिपादकमवान्तरवाक्यमित्यर्थः । ’यतो वा इमानि भूतानी’इत्यारभ्य ’तद्ब्रह्मेती’त्यन्तं वाक्यं यदेकं कारणं ब्रह्मशब्दविशिष्टत्वेन विशेषव्याप्तिप्रतिपादकमहावाक्यमित्यर्थः ।
किं तर्हीति ।
’यतो वा इमानि भूतानी’त्यादिना तटस्थलक्षणमुक्तं चेत्तर्हि स्वरूपलक्षणं किमिति शङ्कितुरभिप्रायः ।
वाक्यशेषादिति ।
’आनन्दाद्द्ध्येव खल्विमानि भूतानि जायन्त’ इत्यादिवाक्यशेषादित्यर्थः । यतःशब्दार्थः यतो वा इमानीत्यत्र यतःशब्दार्थः ।
तस्मादेतद्ब्रह्म नामेति तच्छब्दस्य यच्छब्देनान्वयं दर्शयितुं श्रुत्यंशं सङ्गृह्णाति –
यः सर्वज्ञ इति ।
एवंजातीयकत्वमेवेति ।
स्वरूपतटस्थलक्षणद्वयप्रतिपादकत्वमेवेत्यर्थः ।
फलितमाह –
तदेवमिति ।
सत्यानन्दचिदानन्दजगत्कारणमीश्वरम् ।
रुक्मिणीसहितं कृष्णं सर्वज्ञं परमाश्रये ॥