अथ षष्ठवर्णकम्
यस्य निःश्वसितं वेदाः सर्वार्थज्ञानशक्तयः ।
श्रीरामं सर्ववेत्तारं वेदवेद्यमहं भजे ॥ १ ॥
वृत्तानुवादेन सङ्गतिं वदन्नुत्तरसुत्रमवतारयति -
जगदिति ।
चेतनस्य ब्रह्मणो जगत्कारणत्वोक्त्या सर्वज्ञत्वमर्थात्प्रतिज्ञातं सूत्रकृता, चेतनसृष्टेर्ज्ञानपूर्वकत्वात् । तथा च ब्रह्म सर्वज्ञम् , सर्वकारणत्वात् , यो यत्कर्ता स तज्ज्ञः, यथा कुलाल इति स्थितम् । तदेवार्थिकं सर्वज्ञत्वं प्रधानादिनिरासाय वेदकर्तृत्वहेतुना द्रढयन्नाहेत्यर्थः । हेतुद्वयस्यैकार्थसाधनत्वात् , एकविषयत्वमवान्तरसङ्गतिः । यद्वा वेदस्य नित्यत्वाद्ब्रह्मणः सर्वहेतुता नास्तीत्याक्षेपसङ्गत्या वेदहेतुत्वमुच्यते ‘अस्य महतो भूतस्य निःश्वसितमेतद्यदृग्वेदो यजुर्वेदः सामवेदोऽथर्वाङ्गिरसः’ (बृ॰उ॰ २-४-१०) इति वाक्यं विषयः तत्किं वेदहेतुत्वेन ब्रह्मणः सर्वज्ञत्वं साधयति उत न साधयति इति सन्देहः । तत्र व्याकरणादिवद्वेदस्य पौरुषेयत्वे मूलप्रमाणसापेक्षत्वेनाप्रामाण्यापातान्न साधयतीति पूर्वपक्षे जगद्धेतोश्चेतनत्वासिद्धिः फलम् । सिद्धान्ते तत्सिद्धिः । अस्य वेदान्तवाक्यस्य स्पष्टब्रह्मलिङ्गकस्य(-लिङ्गस्य)* वेदकर्तरि समन्वयोक्तेः श्रुतिशास्त्राध्यायपादसङ्गतयः । एवमापादं श्रुत्यादिसङ्गतय ऊह्याः ।
वेदे हि सर्वार्थप्रकाशनशक्तिरुपलभ्यते, सा तदुपादानब्रह्मगतशक्तिपूर्विका तद्गता वा, प्रकाशनशक्तित्वात् । कार्यगतशक्तित्वाद्वा, प्रदीपशक्तिवदिति वेदोपादानत्वेन ब्रह्मणः स्वसम्बद्धाशेषार्थप्रकाशनसामर्थ्यरूपं सर्वसाक्षित्वं सिध्यति । यद्वा यथा अध्येतारः पूर्वक्रमं ज्ञात्वा वेदं कुर्वन्ति, तथा विचित्रगुणमायासहायोऽनावृतानन्तस्वप्रकाशचिन्मात्रः परमेश्वरः स्वकृतपूर्वकल्पीयक्रमसजातीयक्रमवन्तं वेदराशिं तदर्थांश्च युगपज्जानन्नेव करोतीति न वेदस्य पौरुषेयता । यत्र ह्यर्थज्ञानपूर्वकं वाक्यज्ञानं वाक्यसृष्टौ कारणं तत्र पौरुषेयता, अत्र च यौगपद्यान्न सा, अतो वेदकर्ता वेदमिव तदर्थमपि स्वसम्बद्धं नान्तरीयकतया जानातीति सर्वज्ञ इति सिद्धान्तयति -
शास्त्रेति ।
शास्त्रं प्रति हेतुत्वात् , ब्रह्म सर्वज्ञं सर्वकारणं च इति सङ्गतिद्वयानुसारेण सूत्रयोजनामभिप्रेत्य पदानि व्याचष्टे -
महत इति ।
हेतोः सर्वज्ञत्वसिद्धये वेदस्य विशेषणानि । तत्र ग्रन्थतोऽर्थतश्च महत्त्वम् , हितशासनात्शास्त्रत्वम् ।
शास्त्रशब्दः शब्दमात्रोपलक्षणार्थ इति मत्वाह -
अनेकेति ।
पुराणन्यायमीमांसाधर्मशास्त्राणि शिक्षाकल्पव्याकरणनिरुक्तच्छन्दोज्योतिषाणि षडङ्गानि इति दश विद्यास्थानानि वेदार्थज्ञानहेतवः । तैरुपकृतस्येत्यर्थः । अनेन मन्वादिभिः परिगृहीतत्वेन वेदस्य प्रामाण्यं सूचितम् ।
बोधकत्वादपि(अबोधकत्वाभावादपि)* प्रामाण्यमित्याह -
प्रदीपवदिति ।
सर्वार्थप्रकाशनशक्तिमत्त्वेऽप्यचेतनत्वात्सर्वज्ञकल्पत्वं योनिरुपादानं कर्तृ च ।
ननु सर्वज्ञस्य यो गुणः सर्वार्थज्ञानशक्तिमत्वं वेदस्य तदन्वितत्वेऽपि तद्योनेः सर्वज्ञत्वं कुत इत्यत आह -
न हीति ।
उपादाने तच्छक्तिं विना कार्ये तदयोगाद्वेदोपादानस्य सर्वज्ञत्वम् , अनुमानं तु पूर्वं दर्शितम् । न चाविद्यायास्तदापत्तिः । शक्तिमत्वेऽप्यचेतनत्वादिति भावः ।
वेदः स्वविषयादधिकार्थज्ञानवज्जन्यः प्रमाणवाक्यत्वात् , व्याकरणरामायणादिवदित्यनुमानान्तरम् । तत्र व्याप्तिमाह -
यद्यदिति ।
विस्तरः शब्दाधिक्यम् , अनेनार्थतोऽल्पत्वं वदन् कर्तुर्ज्ञानस्यार्थत आधिक्यं(कर्तुर्ज्ञानस्यार्थाधिक्यं)* सूचयति, दृश्यते चार्थवादाधिक्यं वेदे । अत्रैषा अक्षरयोजना(अक्षरेति नास्ति)* - यद्यच्छास्त्रं यस्मादाप्तात्सम्भवति स ततः शास्त्रादधिकार्थज्ञान इति प्रसिद्धम् , यथा शब्दसाधुत्वादिर्ज्ञेयैकदेशोऽर्थो यस्य तदपि व्याकरणादि पाणिन्यादेरधिकार्थज्ञात्सम्भवति । यद्यल्पार्थमपि शास्त्रमधिकार्थज्ञात्सम्भवति तदा ‘अस्य महतः’(बृ॰उ॰ २-४-१०) इत्यादिश्रुतेर्यस्मान्महतोऽपरिच्छिन्नाद्भूतात्सत्याद्योनेः सकाशात् अनेकशाखेत्यादिविशिष्टस्य वेदस्य पुरुषनिःश्वासवदप्रयत्नेनैव सम्भवः तस्य सर्वज्ञत्वं सर्वशक्तिमत्वं चेति किमु वक्तव्यमिति ।
तत्र वेदस्य पौरुषेयत्वशङ्कानिरासार्थं श्रुतिस्थनिःश्वसितपदार्थमाह -
अप्रयत्नेनेति ।
प्रमाणान्तरेणार्थज्ञानप्रयासं विना निमेषादिन्यायेनेत्यर्थः । अत्रानुमानेन ‘यः सर्वज्ञः’(मु॰उ॰ १-१-९) इति श्रुत्युक्तसर्वज्ञत्वदार्ढ्याय पाणिन्यादिवद्वेदकर्तरि अधिकार्थज्ञानसत्तामात्रं साध्यते न त्वर्थज्ञानस्य वेदहेतुत्वं निःश्वसितश्रुतिविरोधात् , वेदज्ञानमात्रेणाध्येतृवद्वेदकर्तृत्वोपपत्तेश्च । इयान् विशेषः - अध्येता परापेक्षः, ईश्वरस्तु स्वकृतवेदानुपूर्वीं स्वयमेव स्मृत्वा तथैव कल्पादौ ब्रह्मादिष्वाविर्भावयन् अनावृतज्ञानत्वात्तदर्थमप्यवर्जनीयतया जानातीति सर्वज्ञ इत्यनवद्यम् ॥
व्याचिख्यासिताव्यवहितसूत्रार्थपरिष्कारद्वारा ’ग्रन्थादौ ग्रन्थमध्ये तु मङ्गलमाचरेतेति’ न्यायेन स्वेष्टदेवतातत्त्वानुस्मरणलक्षणं मङ्गलमाचरन् शिष्यशिक्षार्थं ग्रन्थतो निबध्नाति –
यस्य निःश्वसितमिति ।
वृत्तानुवादेनेति ।
पूर्वप्रतिपादितार्थानुवादेनेत्यर्थः ।
लक्षणद्वयप्रतिपादनपरेण द्वितीयसूत्रेणाप्रधान्यात्सर्वज्ञत्वं प्रतिज्ञातं सम्प्रति तृतीयसूत्रेण प्राधान्यात्प्रतिपादितम् इत्यभिप्रेत्यावतारिकां व्याचष्टे –
चेतनस्येति ।
अर्थादिति ।
अनुमानादित्यर्थः ।
उपक्षिप्तपदस्यार्थमाह –
प्रतिज्ञातमिति ।
तदेवानुमानमाह –
तथा चेति ।
आर्थिकमिति ।
अनुमानसिद्धमित्यर्थः ।
’शास्त्रयोनित्वात्’ इति सूत्रस्य प्रथमव्याख्यानपरिष्कृतार्थमाह –
वेदकर्तृत्वहेतुनेति ।
सर्वजगद्व्यवस्थावभासिवेदकर्तृत्वहेतुनेत्यर्थः ।
आहेति ।
आह सूत्रकार इत्यर्थः ।
हेतुद्वयस्येति ।
जन्मादिकारणत्ववेदकर्तृत्वहेतुद्वयस्य सर्वज्ञत्वरूपैकार्थसाधकत्वादेकार्थप्रतिपादकत्वमवान्तरसङ्गतिरित्यर्थः ।
अधिकरणमारच्यते –
अस्य महतो भूतस्येत्यादिना ।
यदृग्वेदादिकं तदेतस्य सर्वगतस्य नित्यसिद्धस्य ब्रह्मणः निःश्वसितं निःश्वास इवाप्रयत्नेन सिद्धमिति श्रुत्यर्थः ।
पौरुषेयत्व इति ।
पुरुषप्रयत्नजन्यत्व इत्यर्थः । यत्पौरुषेयं तन्मूलप्रमाणजन्यमिति व्याप्तेः सत्त्वाद्वेदस्य पौरुषेयत्वे मूलप्रमाणजन्यत्वं वक्तव्यं तस्य परोक्तिरूपमूलप्रमाणस्यार्थस्य साकल्येन ज्ञातुमशक्यत्वात् भ्रान्त्या वेदकर्तुरन्यथार्थग्रहणशङ्कया तज्जन्यस्यापि वेदस्याप्रामाण्यं दुर्वारम् तस्मात्सर्वज्ञत्वं न साधयतीति पूर्वपक्षार्थः ।
अस्येति ।
तृतीयसूत्रस्येत्यर्थः । प्रकृतवेदान्तवाक्यस्य यः समन्वयः तत्प्रतिपादकत्वादित्यर्थः । वेदान्तवाक्यस्येत्यनेन विषयवाक्यस्वरूपस्यास्य महतो भूतस्येत्यादिश्रुतेः तृतीयसूत्रस्य च वेदकर्तृत्वरूपैकार्थबोधकत्वरूपा सङ्गतिः प्रदर्शिता । स्पष्टब्रह्मलिङ्गकस्येति विशेषणेन सूत्रस्य प्रथमपादस्य च स्पष्टब्रह्मलिङ्गकश्रुत्यर्थप्रतिपादकत्वरूपा सङ्गतिः प्रदर्शिता । वेदकर्तरीत्यनेन सूत्रस्य शास्त्रस्य चैकार्थप्रतिपादकत्वरूपा सङ्गतिर्दर्शिता । सूत्रं वेदकर्तृत्वेन ब्रह्मबोधकं शास्त्रमपि शस्त्रार्थत्वेन ब्रह्मबोधकमिति भावः । समन्वयोक्तेरित्यनेन सूत्रस्य प्रथमाध्यायस्य च समन्वयप्रतिपादकत्वरूपसङ्गतिर्निरूपिता । एतत्सर्वं प्रथमसूत्रसङ्गतिनिरूपणावसरे विस्तरेणोपपादितमिति भावः ।
सिद्धान्तसूत्रतात्पर्यमाह –
वेदे हीति ।
तद्गता वेति ।
उपादानब्रह्मगता वेत्यर्थः । कार्ये शक्तिः कारणगतशक्त्यभिन्नेति भावः ।
तत्कार्यगतेति ।
ब्रह्मकार्यवेदगतशक्तित्वाद्वेदे शक्तिः ब्रह्मशक्तिपूर्विका ब्रह्मशक्तिर्वेत्यर्थः ।
प्रदीपशक्तिवदिति ।
प्रदीपोपादानं तेजः तच्छक्तिपूर्विका तद्गतशक्तिर्वा प्रदीपशक्तिस्तद्वदित्यर्थः ।
स्वसम्बद्धेति ।
स्वपदेन ब्रह्मोच्यते सर्वो यो वेदार्थः स आध्यासिकतादात्म्यसम्बन्धेन ब्रह्मसम्बद्ध इत्यशेषवेदार्थप्रकाशकत्वसामर्थ्यरूपं सर्वज्ञत्वाभिन्नं सर्वसाक्षित्वं ब्रह्मणः सिद्ध्यति कार्ये सर्वार्थप्रकाशकत्वस्य कारणे सर्वार्थप्रकाशकत्वमन्तरा अनुपपन्नत्वादिति भावः । यदाश्रितं (ज्ञानं)तन्मनोजन्यमिति व्याप्त्या खण्डितं तार्किकमतसिद्धं नित्यज्ञानाश्रयत्वरूपसर्वज्ञत्व यत्तद्वैलक्षण्यायोक्तं सर्वसाक्षित्वमिति । सर्वसाक्षित्वरूपं सर्वज्ञत्वमित्यर्थः । अनेनानुमानेन सिद्धं सर्वज्ञत्वं मनोजन्यमित्युक्तव्याप्त्या खण्डयितुमशक्यं साक्ष्यात्मकनित्यज्ञानस्वरूपत्वेन आश्रितज्ञानत्वाभावादिति भावः । सर्वार्थप्रकाशने वेदस्य कारणत्वं ब्रह्मणस्तु कर्तृत्वमिति भेदः । स्वप्रकाशे निर्विकारे ब्रह्मणि विद्यमाने सर्वस्य प्रकाशो भवति तस्मात्तत्कर्तृत्वमप्यौपचारिकमिति मन्तव्यम् । यदि वेदादेव सर्वज्ञत्वनिश्चयस्तदा अन्योन्याश्रयः स्यात् । तथा हि वेदप्रामाण्यनिश्चये सर्वज्ञत्वादिनिश्चयः तन्निश्चये भ्रमादिशङ्कानिरासपूर्वकं वेदप्रामाण्यनिश्चय इति तद्वारणाय अनुमानादेव सर्वसाक्षित्वरूपसर्वज्ञत्वनिश्चय इति वक्तव्यम् । अनुमानं तु वेदे शक्तिः ब्रह्मगतशक्तिपूर्विकेत्यादिना उपपादितम् ।
ननु वेदस्य पौरुषेयत्वं तत्कर्तुः सर्वज्ञत्वं चाभ्युपगतं चेत्तत्कर्तुर्ब्रह्मणः सर्वज्ञत्वेन तस्य मूलप्रमाणसापेक्षत्वाभावादुक्तव्याप्तिविरोधः स्यादिति चेन्न । सर्वज्ञभिन्नपुरुषकृतिजन्यं यत्तदेव मूलप्रमाणसापेक्षमिति व्याप्तेः सङ्कोचस्य कल्पनीयत्वात्तथा च वेदस्य पौरुषेयत्वमङ्गीकृत्य सर्वार्थप्रकाशकवेदकर्तुः सर्वज्ञत्वादेव वेदस्य मूलप्रमाणसापेक्षत्वाभावेन नाप्रामाण्यमिति तत्कर्तृत्वेन सर्वज्ञत्वं प्रसाधितम् सम्प्रति वेदस्य पौरुषेयत्वमेव नस्तीति तत्कर्तुः सर्वज्ञत्वमिति सिद्धान्ततात्पर्यं व्याख्यानान्तरेण स्फुटीकरोति –
यद्वेति ।
अध्येतार इति ।
उपाध्यायिन इत्यर्थः ।
पूर्वक्रमं ज्ञात्वेति ।
पूर्ववेदानुपूर्वी स्मृत्वेत्यर्थः ।
वेदं कुर्वन्तीति ।
वेदक्रमानुसारेण शिष्यान्प्रति बोधयन्तीत्यर्थः ।
स्वकृतेति ।
स्वकृतः पूर्वकल्पीयः पूर्वकृतसम्बन्धी यः क्रमः वेदक्रमः वेदानुपूर्वीति यावत् तत्सजातीयो यः क्रमः तद्वन्तमित्यर्थः । पूर्वकल्पे यादृशी वेदानुपूर्वी तादृश्येव कल्पान्तरेपीत्येकानुपूर्वीत्वेन साजात्यं विवक्षितमिति भावः ।
अत्र यौगपद्यान्न सेति ।
पदार्थज्ञानस्य वाक्यार्थज्ञानस्य च वाक्ये समुदायरूपवेदराशिरचनां प्रति हेतुत्वाभावान्न पौरुषेयता किन्तु वेदस्य रचना विजातीया तस्मान्न लोकवाक्यरचनायाः दृष्टान्ततेति भावः ।
फलितार्थप्रदर्शनद्वारा प्रकृतमुपसंहरति –
अत इति ।
नान्तरीयकतयेति ।
नियमेनेत्यर्थः ।
सङ्गतिद्वयेति ।
अवान्तराक्षेपसङ्गतिद्वयेनेत्यर्थः । सङ्गतिद्वयानुसारेण वेदकारणत्वादेव सर्वज्ञत्वं सर्वकारणत्वं च ब्रह्मणः सिध्यतीति सूत्रार्थं मनसि निधाय पदानि व्याचष्ट इति भावः ।
ग्रन्थत इति ।
शब्दत इत्यर्थः । वेदशब्दोच्चारणमात्रेण सर्वपापक्षयाच्छब्दतो वेदस्वरूपशास्त्रस्य महत्त्वमिति ऋग्वेदादेरित्यनेन भाष्येण प्रतिपादितमिति भावः ।
अर्थतश्चेति ।
पुराणादिदशविद्यास्थानेषु वेदार्थ एव प्रतिपाद्यते तस्मादर्थतोपि वेदस्य महत्त्वमित्यनेकविद्यास्थानोपबृंहितस्येत्यनेन भाष्येण प्रतिपादितमिति भावः ।
हितशासनादिति ।
हितार्थप्रतिपादकत्वादित्यर्थः ।
शास्त्रशब्द इति ।
मात्रपदं कार्त्स्न्यार्थकं शब्दमात्रस्य उपलक्षणार्थो यस्य स तथा न केवलं शास्त्रशब्दस्य वेदशब्दसमुदाय एवार्थः किन्तु कृत्स्नशब्दसमुदाय इति मत्वा हेत्यर्थः ।
उपकृतस्येति ।
व्याख्यातस्येत्यर्थः ।
वेदस्य मूलप्रमाणसापेक्षत्वाभावान्नाप्रामाण्यमिति प्रामाण्यमुक्त्वा मन्वादिपरिगृहीतत्वाच्च प्रामाण्यमस्तीत्याह –
अनेनेति ।
परिगृहीतत्वेन व्याख्यातत्वेनेत्यर्थः ।
अप्रामाण्यसाधकयुक्तेरभावात् प्रामाण्यमुपपाद्य हेत्वन्तरपरत्वेन भाष्यमवतारयति –
बोधकत्वादपीति ।
यथा चक्षुरादेर्बोधकत्वात् प्रामाण्यं तथा बोधकत्वाद्वेदस्य प्रामाण्यमित्याहेत्यर्थः ।
प्रकाशनशक्तीति ।
प्रकाशकशक्तीत्यर्थः ।
सर्वज्ञकल्पत्वमिति ।
सर्वज्ञापेक्षया ईषन्न्यूनताकत्वमित्यर्थः ।
योनिः कारणं तद्विवृणोति –
योनिरिति ।
अनुमानं त्विति ।
वेदे स्वार्थप्रकाशकशक्तिरुपादानशक्तिपूर्विका तद्गता वेत्याद्यनुमानमित्यर्थः ।
तदापत्तरिति ।
उपादानत्वेन ब्रह्मवत्सर्वार्थप्रकाशकशक्तिमत्त्वापत्तिरित्यर्थः । तथा च सर्वज्ञत्वं स्यादिति शङ्कितुरभिप्रायः ।
अचेतनत्वादिति ।
अचेतनत्वान्न सर्वज्ञत्वमिति भावः ।
कार्यगतशक्तिमत्त्वस्य कारणगतशक्तिपूर्वकत्वात्कारणगतशक्त्यभिन्नत्वाच्चोपादानकारणस्य सर्वज्ञत्वमुपपाद्य वेदविषयार्थाधिकार्थज्ञानवत्त्वाच्च सर्वज्ञत्वमुपपादयतीति भाष्यमवतारयति –
वेदः स्वविषयादिति ।
स्वविषयात्स्वप्रतिपाद्यार्थात् योऽधिकार्थः तद्विषयकज्ञानवज्जन्यः इत्यर्थः । विस्तरार्थं शास्त्रमित्यत्र विस्तरस्यार्थः प्रतिपादनं यस्य तदिति विग्रहः, अथवा विस्तरेणार्थः अल्पार्थः यस्मिन् तदिति विग्रहः ।
यद्वा अर्थशब्दः धर्मवाचकः विस्तरः शब्दाधिक्यरूपः अर्थः धर्मविशेषः यस्य तद्विस्तरार्थन्तथा च शब्दबाहुल्यकमल्पार्थकं शास्त्रमित्यभिप्रेत्य विस्तरशब्दार्थमाह –
विस्तर इति ।
अर्थत आधिक्यमिति ।
अधिकार्थविषयकत्वमित्यर्थः ।
दृश्यते चेति ।
वेदे बहवोर्थवादाः सन्ति तस्माच्छब्दाधिक्यं दृश्यत इति भावः ।
यद्यच्छास्त्रं यस्मात्पुरुषविशेषात्सम्भवति स ततोप्यधिकतरविज्ञान इति सामान्यव्याप्तिं भाष्यस्थपदान्यादायान्वयमुखेन अर्थपूर्वकं दर्शयति –
अत्रैषाक्षरयोजनेति ।
पुरुषविशेषादित्यस्यार्थमाह –
अप्तादिति ।
स इति ।
आप्तपुरुष इत्यर्थः ।
यद्यच्छास्त्रं पुरुषविशेषात्सम्भवति तस्माच्छास्त्रादित्यन्वयमभिप्रेत्याह –
ततः शास्त्रादिति ।
अधिकतरविज्ञान इत्यस्यार्थमाह –
अधिकेति ।
यथा व्याकरणादि पाणिन्यादेः ज्ञेयैकदेशार्थमपीति भाष्यस्यान्वयपूर्वकमर्थकथनद्वारा शास्त्रस्याल्पर्थत्वं तत्कर्तुरधिकार्थज्ञत्वं च स्फुटीकुर्वन् सामान्यव्याप्तेः दृष्टान्तमुपपादयति –
यथा शब्देति ।
पाणिन्यादिभिर्ज्ञेयानां बहूनामर्थानाम् मध्ये शब्दसाधुत्वादिरूपार्थः एकदेशो भवतीत्यर्थः । ज्ञेयैकदेशार्थमपीति विशेषणं वेदैकदेशार्थपरिष्कारोपयोगीति विज्ञेयम् ।
बहुव्रीहिसमासं ज्ञापयति –
यस्येति ।
व्याकरणादीति च्छेदः, तथा च ज्ञेयैकदेशार्थव्याकरणादिस्वरूपं यच्छास्त्रं यस्मादधिकार्थज्ञात्पाणिन्यादेः सकाशाज्जायते स पाणिन्यादिः तस्माच्छास्त्रादधिकतरविज्ञानो यथा तथा ज्ञेयैकदेशार्थं ऋग्वेदादि यच्छास्त्रं तस्मादधिकार्थज्ञात्परमेश्वरात्सम्भवति स परमेश्वरस्तस्माच्छास्त्रादधिकार्थज्ञानवानिति भावः । इमां व्याप्तिमवलम्ब्य वेदे स्वविषयादधिकार्थज्ञानवज्जन्यत्वं प्रमाणवाक्यत्वरूपहेतुना साध्यते तथा च उक्तव्याप्तिबलेन यत्र प्रमाणवाक्यत्वं तत्र स्वविषयादधिकार्थज्ञानवज्जन्यत्वमितीयं व्याप्तिः परिष्कृतेत्यभिप्रायेणात्रोदाहृतेति मन्तव्यम् ।
ननु वेदस्य सर्वार्थप्रतिपादकत्वेन ततोप्यधिकार्थ एव नास्तीति चेन्न । दशविद्यास्थानेषु प्रतिपादितार्थप्रकाशकत्वमेव वेदस्य सर्वार्थप्रकाशकत्वमित्यङ्गीकारात्सर्वजनव्यवहारविषयलौकिकार्थस्याधिकस्य सम्भवेन तत्कर्तुरीश्वरस्याधिकार्थज्ञानवत्त्वं युक्तमित्यनवद्यम् । वृत्तानुवादपूर्वकमस्य महतो भूतस्येत्यादिश्रुतेरर्थं कथयन् भाष्यान्वयपरिष्कारेण सर्वज्ञत्वादिकमाविष्करोति –
यद्यल्पार्थमपीति ।
किमु वक्तव्यमिति भाष्यस्योत्तरेणेतिपदेनान्वयं दर्शयति –
इति किमु वक्तव्यमिति ।
’अवर्जनीयतये’त्यादिप्राक्तनो ग्रन्थः स्पष्टार्थः ।
अवर्जनीयतेति ।
नियमेनेत्यर्थः ।