भाष्यरत्नप्रभाव्याख्या
पूर्णानन्दीया
 

अथ सप्तमवर्णकम्

अधुना ब्रह्मणो लक्षणानन्तरं प्रमाणजिज्ञासायां वर्णकान्तरमाह -

अथवेति ।

लक्षणप्रमाणयोर्ब्रह्मनिर्णयार्थत्वादेकफलकत्वं सङ्गतिः ।

‘तं त्वौपनिषदं पुरुषम्’(बृ॰उ॰ ३-९-२६) इति श्रुतिर्ब्रह्मणो वेदैकवेद्यत्वं ब्रूते न वेति संशये, कार्यलिङ्गेनैव लाघवात्कर्तुरेकस्य सर्वज्ञस्य ब्रह्मणः सिद्धेर्न ब्रूते इति प्राप्ते वेदप्रमाणकत्वात् ब्रह्मणो न प्रमाणान्तरवेद्यत्वमिति सिद्धान्तयति -

शास्त्रयोनित्वादिति ।

तद्व्याचष्टे -

यथोक्तमिति ।

सर्वत्र पूर्वोत्तरपक्षयुक्तिद्वयं संशयबीजं द्रष्टव्यम् । अत्र पूर्वपक्षे अनुमानस्यैव विचार्यतासिद्धिः फलं सिद्धान्ते वेदान्तानामिति भेदः । अनुमानादिना ब्रह्मसिद्धिः पूर्वसूत्रे प्रसङ्गान्निरस्ता । किञ्च विचित्रप्रपञ्चस्य प्रासादादिवदेककर्तृकताबाधान्न लाघवावतारः ।

न च सर्वज्ञत्वात्कर्तुरेकत्वसम्भवः । एकत्वज्ञानात्सर्वज्ञत्वज्ञानं ततस्तदित्यन्योन्याश्रयमभिप्रेत्याह -

शास्त्रादेवेति ।

किं तच्छास्त्रमिति तत्राह(तदाह)* -

शास्त्रमिति ।

पृथगारम्भमाक्षिपति -

किमर्थमिति ।

येन हेतुना दर्शितं ततः किमर्थमित्यर्थः ।

जन्मादिलिङ्गकानुमानस्य स्वातन्त्र्येणोपन्यासशङ्कानिरासार्थं पृथक्सूत्रमित्याह -

उच्यत इति ॥ ३ ॥

अधुनेति ।

प्रथमसूत्रेण ब्रह्मणः जिज्ञास्यत्वमुक्त्वा द्वितीयसुत्रेण जिज्ञास्यब्रह्मणः लक्षणमुक्तम् । लक्षिते ब्रह्मणि किं प्रमाणमित्यधुना प्रमाणजिज्ञासायां व्याख्यानान्तरमाहेत्यर्थः ।

एकफलकत्वमिति ।

पूर्वोत्तराधिकरणसूत्रयोः ब्रह्मनिर्णयरूपैकफलकत्वं सङ्गतिरित्यर्थः ।

अधिकरणरचनार्थं विषयवाक्यमाह –

तं त्विति ।

शाकल्यम् प्रति याज्ञवल्क्येनोक्तमिदं वाक्यम् । तन्त्विति पदच्छेदपक्षेत्वा त्वां प्रति पृच्छामीत्यन्वयः । तं त्विति पदच्छेदपक्षोपि साधुरेवेति मन्तव्यम् । तं सकारणस्य हिरण्यगर्भस्याधिष्ठानमित्यर्थः । औपनिषदं उपनिषदेकगम्यं पुरुषं पूर्णमित्यर्थः ।

कार्यलिङ्गेनैवेति ।

जगत्सकर्तृकं कार्यत्वात् घटपटवदिति कार्यत्वलिङ्गकेन लाघवज्ञानसहकृतेनानुमानेनैव ईश्वरसिद्धिरिति पूर्वपक्षार्थः । किञ्चेत्यादिप्राक्तनो ग्रन्थस्त्वतिरोहितार्थः ।

विचित्रं जगदनेककर्तृकं विचित्रकार्यत्वात्तक्षाद्यनेककर्तृकप्रासादादिवदिति सत्प्रतिपक्षानुमानेन लाघवज्ञानसहकृतैककर्तृकत्वानुमानं बाधितमित्याह -

किञ्च विचित्रेति ।

ईश्वरस्य सर्वज्ञत्वात्तक्षादिवैलक्षण्यं स्यादित्याशङ्कामुद्घाट्य परिहरति –

न चेति ।

ततस्तदिति ।

सर्वज्ञत्वज्ञानादेकत्वज्ञानमित्यर्थः । अयं भावः । सर्वज्ञत्वरूपहेतुसिद्धिः कथमित्युक्ते विचित्रकार्यकर्ता सर्वज्ञः एकत्वादित्येवं एकत्वज्ञानात्सर्वज्ञत्वज्ञानं वक्तव्यम् , एकत्वरूपहेतुसिद्धिः कथमित्युक्ते विचित्रकार्यकर्ता सर्वज्ञः एकः सर्वज्ञत्वादित्येवं सर्वज्ञत्वज्ञानादेकत्वज्ञानं वक्तव्यम् , तथा चान्योन्याश्रय इति ।

यावता तर्हीति पदद्वयस्यार्थकथनपूर्वकमन्वयमाविष्करोति –

येनेति ।

तथा च पौनरुक्त्यमिति भावः ।

केवलपदस्यार्थमाह –

स्वातन्त्र्येणेति ।

यद्यपि जन्मादिसूत्राक्षरैर्लक्षणलिङ्गकानुमानं तत्सूत्रतात्पर्येण शास्त्रस्य प्रामाण्यं च प्रतिपादितं तथाप्यक्षरैः प्रतिपादितत्वादनुमानमेव स्वतन्त्रप्रमाणमिति या शङ्का तन्निरासार्थं अक्षरैः शास्त्रप्रामाण्यप्रतिपादनाय ’शास्त्रयोनित्वादि’त्युत्तरसूत्रं प्रवृत्तं भवति तस्मान्न पौनरुक्तिशङ्का नानुमानस्य स्वातन्त्र्येण प्रामाण्यशङ्का चेति भावः । शास्त्रानुमानयोः प्रामाण्यस्याक्षरप्रतिपादितत्वाच्छास्त्रवदनुमानमपि स्वतन्त्रप्रमाणमिति न शङ्कनीयं अतीन्द्रियार्थे श्रुतिरेव स्वतन्त्रप्रमाणमित्युक्तत्वादिति स्थितम् । ततश्चायं सूत्रार्थः – ब्रह्म शास्त्रप्रमाणं शास्त्रैकगम्यत्वादिति ॥ ३ ॥