भाष्यरत्नप्रभाव्याख्या
पूर्णानन्दीया
 

अन्यत्रादृष्टापि वेदान्तेषु कल्प्यतामिति तत्राह -

उपपन्ना वेति ।

नेत्यनुषङ्गः । सिद्धे फलाभावास्योक्तत्वादिति भावः ।

तर्हि ब्रह्मण्येव स्वार्थे विधिः कल्प्यतां अलं(कृतं)* वेदान्तानां विध्यन्तरशेषत्वेनेत्यत आह -

न चेति ।

ननु ‘दध्ना जुहोति’ इति सिद्धे दधनि विधिर्दृष्टस्तत्राह -

क्रियेति ।

दध्नः क्रियासाधनस्य प्रयुज्यमानतया साध्यत्वाद्विधेयता, निष्क्रियब्रह्मणः कथमप्यसाध्यत्वान्न विधेयत्वमित्यर्थः ।

भाट्टमतमुपसंहरति -

तस्मादिति ।

स्वयमेवारुचिं वदन्पक्षान्तरमाह -

अथेति ।

सिद्धान्तसूत्रं व्याचष्टे -

तुशब्द इति ।

तद्ब्रह्म वेदान्तप्रमाणकमिति प्रतिज्ञातेऽर्थे हेतुं पृच्छति -

कथमिति ।

हेतुमाह -

समिति ।

अन्वयः तात्पर्यविषयत्वं(अन्वयतात्पर्यविषयत्वं)* तस्मादित्येव हेतुः । तात्पर्यस्य सम्यक्त्वमखण्डार्थविषयकत्वं सूचयितुं सम् - पदं प्रतिज्ञान्तर्गतमेव । तथा चाखण्डं ब्रह्म वेदान्तजप्रमाविषयः, वेदान्ततात्पर्यविषयत्वात् , यो यद्वाक्यतात्पर्यविषयः स तद्वाक्यप्रमेयः, यथा कर्मवाक्यप्रमेयो धर्म इति प्रयोगः । वाक्यार्थस्याखण्डत्वं - असंसृष्टत्वम् । वाक्यस्य चाखण्डार्थकत्वं - स्वपदोपस्थिता ये पदार्थास्तेषां यः संसर्गस्तद्गोचरप्रमाजनकत्वम् । न चेदमप्रसिद्धम् । प्रकृष्टप्रकाशश्चन्द्र इत्यादि लक्षणवाक्यानां लोके लक्षणया चन्द्रादिव्यक्तिमात्रप्रमाहेतुत्वात् । सर्वपदलक्षणा चाविरुद्धा सर्वैरर्थवादपदैरेकस्याः स्तुतेर्लक्ष्यत्वाङ्गीकारात् । तथा(च)* सत्यज्ञानादिपदैरखण्डं ब्रह्म भातीति न पक्षासिद्धिः । नापि हेत्वसिद्धिः, उपक्रमादिलिङ्गैर्वेदान्तानामद्वितीयाखण्डब्रह्मणि तात्पर्यनिर्णयात् ।

तत्र छान्दोग्यषष्ठे उपक्रमं दर्शयति -

सदेवेति ।

उद्दालकः पुत्रमुवाच - हे सोम्य प्रियदर्शन, इदं सर्वं जगत् , अग्रे उत्पत्तेः प्राक्काले सदबाधितं ब्रह्मैवासीत् । एवकारेण जगतः पृथक्सत्ता निषिध्यते । सतः(सत इति नास्ति)* सजातीयविजातीयस्वगतभेदनिरासार्थं ‘एकमेवाद्वितीयम्’ इति पदत्रयम् । एवमद्वितीयं ब्रह्मोपक्रम्य ‘ऐतदात्म्यमिदं सर्वम्’(छा॰उ॰ ६-८-७) इत्युपसंहरति । इदमुपक्रमोपसंहारैकरूप्यं तात्पर्यलिङ्गम् , तथा(यथा)* ‘तत्त्वमसि’(छा॰उ॰ ६-८-७) इति नवकृत्वोऽभ्यासः । रूपादिहीनाद्वितीयब्रह्मणो मानान्तरायोग्यत्वादपूर्वत्वमुक्तम् - ‘अत्र वाव किल सत्सोम्य न निभालयसे’ इति । सङ्घाते स्थितं प्रत्यग्ब्रह्म न जानासीत्यर्थः । ‘तस्य तावदेव चिरं यावन्न विमोक्ष्ये अथ सम्पत्स्ये’(छा॰उ॰ ६-१४-२) इति ब्रह्मज्ञानात्फलमुक्तं विदुषः । तस्य यावत्कालं देहो न विमोक्ष्यते तावदेव देहपातपर्यन्तो विलम्बः । अथ देहपातानन्तरं विद्वान् ब्रह्म सम्पत्स्यते । विदेहकैवल्यमनुभवतीत्यर्थः । ‘अनेन जीवेनात्मनानुप्रविश्य’(छा॰उ॰ ६-३-२) इत्याद्यद्वितीयज्ञानार्थोऽर्थवादः । मृदादिदृष्टान्तैः प्रकृत्यतिरेकेण (प्रकृतिव्यतिरेकेण)* विकारो नास्तीत्युपपत्तिरुक्ता ।

एवं षड्विधानि तात्पर्यलिङ्गानि व्यस्तानि समस्तानि वा प्रतिवेदान्तं दृश्यन्त इत्यभिप्रेत्यैतरेयोपक्रमवाक्यं(इत्यैतरेयोपक्रमवाक्यं)* पठति -

आत्मा वा इति ।

अन्यत्रेति ।

विधिसंस्पर्शमन्तरेणार्थवत्तेति शेषः ।

न केवलमनुमानं किन्तु यदि विध्यैकवाक्यत्वेनार्थवत्त्वं न स्यात्तर्हि फलाभावेन वाक्यस्य सिद्धार्थबोधकत्वमपि न स्यादित्यनुकूलतर्कोप्यनुमानमस्तीत्यभिपेत्याह –

सिद्धे फलेति ।

तर्हीति ।

विध्येकवाक्यत्वं विना अर्थवत्त्वाभावश्चेदित्यर्थः ।

अलमिति ।

कृतमिति । पाठेप्यलमित्येवार्थः ।

सिद्धस्य दध्नः क्रियासाधनत्वविशिष्टत्वात्साध्यत्वं युक्तं न तु ब्रह्मण इत्याह –

दध्नः क्रियेति ।

प्रयुज्यमानतयेति ।

साधनकोटिप्रविष्टतयेत्यर्थः ।

असाध्यत्वादिति ।

अप्रयुज्यमानत्वेनासाध्यत्वादित्यर्थः ।

स्वयमेवेति ।

प्रथमपक्षमुपसंहृत्य स्वयमेवारुचिं वदन् द्वितीयपक्षमप्युपसंहरतीत्यर्थः ।

भाष्ये

पक्षव्यावृत्त्यर्थ इति ।

पक्षपदं पूर्वपक्षपरम् , वेदान्तवाक्यादिति । वेदान्तशास्त्रादित्यर्थः ।

व्याख्याने –

प्रतिज्ञान्तर्गतमेवेति ।

पक्षान्तर्गतमेवेत्यर्थः । सम्पदस्य हेत्वन्तर्गतत्वे ’यत्परः शब्दः सशब्दार्थ’ इति न्यायेन अन्वयरूपतात्पर्यादेवाखण्डत्वे सिद्धे सम्पदस्य प्रयोजनाभावः । पक्षान्तर्गतत्वे तु सगुणब्रह्मव्यावृत्त्या अर्थान्तरवारकत्वं सम्भवति तथा च शबलव्यावृत्तिः प्रयोजनमिति भावः ।

अखण्डार्थकसम्पदं सूत्रस्थतत्पदस्य विशेषणं तथा च सम् अखण्डं तत् ब्रह्म वेदान्तप्रमाणकम् अन्वयादिति सूत्रार्थमभिप्रेत्य सूत्रगर्भितमनुमानमाह –

तथा चेति ।

असंसृष्टत्वमिति ।

इतरपदार्थासम्बन्धित्वमित्यर्थः । ब्रह्मणः वाक्यार्थस्याखण्डत्वमितरपदार्थाविशिष्टत्वमिति भावः । तदुक्तं श्रीकल्पतरुकारैः –
अविशिष्टमपर्यायानेकशब्दप्रकाशितम् ।
एकवेदान्तनिष्णाता अखण्डं प्रतिपेदिरे ॥
इति । निष्णाताः निष्ठापरा इत्यर्थः ।

स्वपदेति ।

स्वशब्देन वाक्यमुच्यते तथा च वाक्यस्थपदोपस्थापिता इत्यर्थः । संसर्गः परस्परान्वयरूपसम्बन्धः । तदविषयिणी या अखण्डब्रह्मविषयिणी च प्रमा तज्जनकत्वमित्यर्थः ।

दृष्टान्तासिद्धिमाशङ्क्य परिहरति -

न चेदमिति ।

सामान्यतश्चन्द्रज्ञानवता केनचित्कश्चित्पृष्टः अस्मिन् ज्योतिर्मण्डले कश्चन्द्रनामेति तस्य प्रतिवचनं प्रकृष्टेत्यादिवाक्यमित्यभिप्रेत्याह –

प्रकृष्टेति ।

इदं पदं हेतुगर्भविशेषणम् , प्रकाशविशेषः चन्द्रपदवाच्य इत्यर्थः । आदिशब्देन सोयं देवदत्त इत्यादिवाक्यं गृह्यते । अयमाशयः । प्रकृष्टशब्दः लक्षणया प्रकर्षगुणाभिधानमुखेन प्रकाशविशेषे वर्तते, प्रकाशशब्दश्च सामान्याभिधानमुखेन लक्षणया व्यक्तिविशेषे वर्तते, तत्र गुणसामान्ययोश्चन्द्रपदवाच्यत्वाभावाज्जहल्लक्षणया तदुभयं परित्यज्य तत्समवायिप्रकाशविशेष एव चन्द्रपदाभिधेयतया समर्प्यत इति प्रकष्टप्रकाशचन्द्रशब्दानामेकर्थता सिद्धा, तथा च वाक्यस्य चन्द्रव्यक्तिमात्रे लक्षणाङ्गीकारान्न विशिष्टपरत्वं तस्माच्चन्द्रव्यक्तिमात्रविषयकत्वं प्रमायाः न परस्परं संसर्गविषयकत्वमिति । वाक्यवृत्तिव्याख्याने रामानन्दीये विस्तरेणायमर्थः प्रतिपादितः । तथाहि – न तावद्वाक्यस्य संसृष्टार्थकत्वनियमः प्रकृष्टप्रकाशश्चन्द्र इति वाक्ये व्यभिचारत् , तथाहि अस्मिन् ज्योतिर्मण्डले कश्चन्द्रनामेति प्रश्नस्योत्तरं प्रकृष्टप्रकाशश्चन्द्र इति वाक्यम् , तत्र न तावच्चन्द्रस्य प्रकृष्टप्रकाशसर्गोर्थः न हि तत्र संसर्गांशो जिज्ञासितः किं संसर्ग इति प्रश्नानुपपत्तेः, नापि प्रकृष्टप्रकाशरूपः संसर्गनिरूपितः प्रकारो जिज्ञासितः तदा कीदृश इति प्रश्नौचित्यात् । न चोत्तरसामर्थ्यात्किंशब्दस्य कीदृशी लक्षणेति वाच्यम् । अनपपत्त्यभावादुत्तरस्याखण्डार्थत्वनोपपत्तेः । न चोत्तरस्य सर्वपदलक्षणां विना अखण्डार्थबोधायोगात् ततो वरं किंशब्दस्यैकस्यैव लक्षणेति वाच्यम् । एकस्याप्युक्रमस्थत्वादसञ्जातविरोधित्वेन मुख्यार्थतौचित्यात्तदनुरोधेन इतरपदानां शक्त्यैकदेशादानलक्षणभागलक्षणया गौरवानावहतावत् । एतेन चन्द्रपदस्य चन्द्रपदवाच्ये लक्षणया कश्चन्द्रपदवाच्य इत्यर्थः प्रश्नः, उत्तरं च प्रकृष्टप्रकाशश्चन्द्रपदवाच्य इत्यर्थः क इति निरस्तम् । प्रश्नोत्तरस्थचन्द्रपदद्वयस्य सर्वदा मुख्यार्थत्यागेन गुरुघटितजहल्लक्षणापेक्षया बहूनामपि वाच्यैकदशमादाय लघुतरजहदजहल्लक्षणया जातिशक्तिमते शक्तितुल्यनिरूढलक्षणया अखण्डार्थकत्वस्यैव न्याय्यत्वात् । अत एव चन्द्रस्य चन्द्रेतरव्यावर्तकवति वा लक्षणया प्रश्नोत्तरसामानाधिकरण्यं निरस्तम् , चन्द्रेतरव्यावृत्तत्वादिना जिज्ञासायाः प्रश्नस्य तदुत्तरार्थबोधस्य च चन्द्रज्ञानाधीनत्वेन परस्पराश्रयाच्च । चन्द्रो नाम कश्चिच्चन्द्रपदवाच्यः चन्द्रत्वजातिमान् चन्द्रेतरव्यावृत्त इत्यादिकं जानामि चन्द्रं परं न जानामि तमेव जिज्ञास इति चन्द्रमात्रज्ञानजिज्ञासयोः स्पष्टमनुभवाच्च । न च तर्हि उत्तरे प्रकृष्टप्रकाशग्रहणमयुक्तं अजिज्ञासितत्वादिति वाच्यम् । तेन विना चन्द्र इत्येतावता तज्जिज्ञासानिवर्तकबोधस्य जनयितुमशक्यतया तद्वैशिष्ट्यबोधद्वारा तज्जननायावान्तरतात्पर्येण तद्ग्रहणात् परमतात्पर्यं तु चन्द्रैकबोध इति किमयुक्तम् । अथ तादृशबोधद्वये मानाभावः, शक्त्या जनितमुख्यार्थान्वयबोधस्य पुनर्लक्षणया पुनर्बोधान्तरजनने शब्दस्य व्यापारापत्तिश्चेति चेन्न । लक्षणवाक्याच्चन्द्रे असाधारणधर्मवैशिष्ट्यमवगत्य तद्द्वारा चन्द्रं ज्ञातवानस्मीति सार्वजनीनानुभवसिद्धत्वान्मुख्यतात्पर्यविषयबोध एव विरम्य व्यापारस्य दोषत्वात् , अर्थवादवाक्यानां शक्त्या स्वार्थबोधजननद्वारैव लक्षणया प्राशस्त्यबोधकत्वाच्च । ननु वाक्यादसाधारणधर्मज्ञानानन्तरं तेन लिङ्गेन चन्द्रस्वरूपानुमितिरेव अनुभूयत इति चेन्न । चन्द्रपक्षकस्य चन्द्रसाधकस्य वा अनुमानस्य चन्द्रज्ञानाधीनत्वात्ततः प्रागनुमानानुदयत्तज्ज्ञानस्य च वाक्येनैव नियतत्वाद्वक्यस्य च प्रकृष्टप्रकाशसंसर्गादिपरत्वे प्रागुक्तरीत्या अजिज्ञासितार्थत्वापत्तेः, जिज्ञासितस्वरूपमात्रपरत्वे चाखण्डार्थत्वसिद्धिः । अथ चन्द्रं नभो न जानामीत्यनुभवस्य चन्द्रत्वविशिष्टविषयकत्वात् तज्जिज्ञासायाश्च तथात्वात्प्रश्नोत्तरयोश्चन्द्रपदस्य चन्द्रत्वविशिष्टपरत्वावश्यम्भावे कुतस्तस्याखण्डार्थतेति चेन्न । उत्तरस्थचन्द्रपदस्य विशिष्टपरत्वे विशिष्टशरीरघटकविशेषणीभूतचन्द्रत्वतत्संसर्गयोः प्रकृष्टप्रकाशस्याभेदान्वयबाधाल्लक्षणया चन्द्रत्वोपलक्षितव्यक्तिमात्रपरत्वावश्यम्भावे तत्समानार्थकत्वाय प्रश्नगतचन्द्रपदस्यापि लक्षणया तन्मात्रपरत्वौचित्यात् । अत एव दर्शिताज्ञानानुभवजिज्ञासयोरपि तदेकविषयत्वावसायात् । अन्यथा अज्ञानजिज्ञाप्रश्नानां विशिष्टविषयत्वम् उत्तरस्य व्यक्तिमात्रविषयत्वमिति वैरूप्यापत्तेः विशेषणाद्यंशे पुनः प्रश्नान्तरापत्तेश्च । ननु प्रकृष्टप्रकाशस्य चन्द्रव्यक्तावभेदेनान्वयाच्चन्द्रत्वे च स्वभिन्नसमवेतत्वसम्बन्धेन अन्वयात् तत्संसर्गरूपे समवाये स्वभिन्नविशेषणतासम्बन्धेनान्वयादुत्तरमपि विशिष्टपरमेवेति चन्द्रत्वतत्संसर्गगोचरजिज्ञासायाः शान्तत्वात्प्रश्नान्तरानवसर इति चेन्न । तत्र सम्बन्धत्रयेणान्वयत्रयस्याननुभवपराहतत्वात् ’नोपसर्जनमुपसर्जनान्तरेणान्वेतीति’ न्यायविरोधाच्च । न चैवमपि लक्ष्यतावच्छेदकचन्द्रत्ववैशिष्ट्यानपाय इति वाच्यम् । चन्द्रत्वस्योपलक्षणतयैवातिप्रसङ्गवारकत्वे विशेषणत्वानपेक्षणात् । स्यादेतत् , विषयविशेषाभावेपि प्रश्नहेतुज्ञानान्नाज्ञाननिवृत्तिः उत्तरजन्यज्ञानात्तन्निवृत्तिरित्यत्र किं नियामकमिति चेत् । आद्योपदेशजन्यासाधारणधर्मवैशिष्ट्यधीरूपसहकार्यसमवधानसमवधाने एवेति गृहाण । अत एव व्यक्तिमात्रबोधस्य वाक्येन साक्षाल्लक्षणया जननसम्भवे अवान्तरतात्पर्येण द्वारभूतबोधान्तरस्वीकारो व्यर्थ इति निरस्तम् ।

प्रकृष्टप्रकाशत्ववैशिष्ट्यधीद्वारं विना जनितव्यक्तिमात्रबोधस्यापकृष्टप्रकाशव्यावृत्तविलक्षणविषयताया अलाभात् , न हि चन्द्रव्यक्तिमात्रगोचरं चाक्षुषज्ञानं प्राग्जातमपि तदज्ञाननिवर्तकमासीत् , तदित्थं यथा ’प्रकृष्टप्रकाशश्चन्द्र’ इति वाक्यं चन्द्रस्य स्वरूपलक्षणपरमखण्डार्थकं तथैव ’सत्यं ज्ञानमनन्तं ब्रह्मेति’ वाक्यमुपसंहृतानन्दादिपदकदम्बकं ब्रह्मणः स्वरूपलक्षणपरमखण्डार्थकम् , तथा च प्रकृष्टप्रकाशादिपदैः प्रकृष्टत्वाद्युपलक्षितशुद्धचन्द्रव्यक्तिरिव सत्यादिपदैः सत्यत्वाद्युपलक्षितकेवलसच्चिदान्दैकरसब्रह्मव्यक्तिर्लक्ष्यत इत्यखण्ड एव वाक्त्यार्थः संसृष्टरूप इति । अत्र प्रकृष्टत्वविशिष्टप्रकाशविशेषः प्रकृष्टपदवाच्यार्थः प्रकाशत्वविशिष्टप्रकाशविशेषः प्रकाशपदवाच्यार्थः चन्द्रत्वविशिष्टप्रकाशविशेषः चन्द्रपदवाच्यार्थः, एवं च जहदजहल्लक्षणया पदत्रयं चन्द्रव्यक्तिमात्रबोधकं भवति यथा तथैव सत्त्वादिपदजातं जहदहल्लक्षणया ब्रह्ममात्रबोधकमिति विज्ञेयम् । सत्यादिपदानां वाच्यार्थस्तु पुरस्तादेवोपपादितः । सत्यादिवाक्यं विशिष्टार्थपरत्वरहितं लक्षणवाक्यत्वात् प्रकृष्टप्रकाशादिवाक्यवदिति प्रयोगमभिप्रेत्याह – तथा च सत्यज्ञानादिपदैरिति ।

अद्वितीयाखण्डेति ।

वेदान्तानामखण्डे ब्रह्मणि तात्पर्यं नामाखण्डप्रमितिजनकत्वरूपशब्दधर्म एव तस्य निश्चयादित्यर्थः । तथा च ब्रह्मणि तात्पर्यनिश्चयविषयत्वं तस्मान्न हेत्वसिद्धिरिति भावः ।

उपक्रममिति ।

उपक्रमादिषड्विधलिङ्गानां मध्ये उपक्रमं दर्शयतीत्यर्थः ।

एवकारेणेति ।

प्राथमिकेन एवकारेणेत्यर्थः ।

पदत्रयमिति ।

यद्यप्यद्वितीयमित्यनेन सजातीयादित्रितयनिरासो वक्तुं शक्यते तथापि श्रुतितात्पर्यानुरोधेन पदप्रयोजनमुच्यते अन्यथा इतरपदवैयर्थ्यं स्यादिति भावः ।

अनुप्रविश्येति ।

व्यापकस्य प्रवेशाभावादर्थवाद इति भावः ।

प्रकृतिव्यतिरेकेणेति ।

उपादानकारणव्यतिरेकेणेत्यर्थः ।

व्यस्तानीति ।

एकं द्वयं त्रयं वा तात्पर्यग्राहकं भवतीति भावः । समस्तानि मिलितानीत्यर्थः । बहुत्वं तु दार्ढ्यसम्पादकमिति भावः ।