भाष्यरत्नप्रभाव्याख्या
पूर्णानन्दीया
 

बृहदारण्यके मधुकाण्डोपसंहारवाक्यं सदात्मनो निर्विशेषत्वार्थमाह -

तदेतदिति ।

मायाभिर्बहुरूपं तद्ब्रह्म । एतदपरोक्षम् । अपूर्वं कारणशून्यम् । अनपरं कार्यरहितम् । अनन्तरं जात्यन्तरमस्य नास्तीत्यनन्तरम् । एकरसमित्यर्थः । अबाह्यमद्वितीयम् ।

तस्यापरोक्षत्वमुपपादयति -

अयमिति ।

सर्वमनुभवतीति सर्वानुभूः । चिन्मात्रमित्यर्थः ।

ऋग्यजुःसामवाक्यान्युक्त्वा आथर्वणवाक्यमाह -

ब्रह्मैवेदमिति ।

यत्पुरस्तात्पूर्वदिग्वस्तुजातमिदमब्रह्मेव विदुषां भाति तदमृतं ब्रह्मैव वस्तुत विदुषामित्यर्थः(वस्तु इत्यर्थः)* । आदिपदेन ‘सत्यं ज्ञानम्’ इत्यादिवाक्यानि गृह्यन्ते ।

नन्वस्तु ब्रह्मणस्तात्पर्यविषयत्वम् , वेदान्तानां कार्यमेवार्थः किं न स्यादिति तत्राह -

न चेति ।

वेदान्तानां ब्रह्मणि तात्पर्ये निश्चीयमाने कार्यार्थत्वं न युक्तं ‘यत्परः शब्दः स शब्दार्थः’ इति न्यायादित्यर्थः ।

यदुक्तमर्थवादन्यायेन वेदान्तानां कर्त्रादिस्तावकत्वमिति तत्राह -

न च तेषामिति ।

तेषां कर्मशेषस्तावकत्वं न भाति किन्तु ज्ञानद्वारा कर्म तत्साधननाशकत्वमेव । तत्तत्र विद्याकाले कः कर्ता केन करणेन कं विषयं पश्येत् इति श्रुतेरित्यर्थः । अर्थवादानां तु स्वार्थे फलाभावात्स्तुतिलक्षणेति(स्तुतिलक्षणतेति)* भावः ।

यदुक्तं सिद्धत्वेन मानान्तरवेद्यं ब्रह्म न वेदार्थ इति तत्राह -

न च परीति ।

’तत्त्वमसि’ इति शास्त्रमन्तरेणेति सम्बन्धः । धर्मो न वेदार्थः, साध्यत्वेन पाकवन्मानान्तरवेद्यत्वात् । यदि वेदं विना धर्मस्यानिर्णयान्न मानान्तरवेद्यता तदा ब्रह्मण्यपि तुल्यम् ।

यच्चोक्तं निष्फलत्वाद्ब्रह्म न वेदार्थ इति तदनूद्य परिहरति -

यत्त्वित्यादिना ।

रहितत्वाद्भिन्नत्वात् । ब्रह्मण इति शेषः ।

यदप्युक्तम् - ‘उपासनापरत्वं वेदान्तानाम्’ इति तत्र किं प्राणपञ्चाग्न्यादिवाक्यानामुत सर्वेषाम् ? इति । तत्राद्यमङ्गीकरोति -

देवतादीति ।

ज्येष्ठत्वादिगुणाः(ज्येष्ठत्वादिगुणः)* फलं चादिशब्दार्थः । न द्वितीयः, विधिशून्यानां ‘सत्यं ज्ञानम्’(तै॰उ॰ २-१-१) इत्यादीनां स्वार्थे फलवतामुपासनापरत्वकल्पनायोगात् ।

किञ्च तदर्थस्य ब्रह्मणस्तच्छेषत्वं ज्ञानात्प्रागूर्ध्वं वा । आद्ये, अध्यस्तगुणवतस्तस्य तच्छेषत्वेऽपि न द्वितीय इत्याह -

न तु तथेति ।

प्राणादिदेवतावदित्यर्थः ।

‘अहं ब्रह्मास्मि’ इत्येकत्वे ज्ञाते सति हेयोपादेयशून्यतया ब्रह्मात्मनः फलाभावात् , उपास्योपासकद्वैतज्ञानस्य कारणस्य नाशाच्च नोपासनाशेषत्वमित्याह -

एकत्व इति ।

तच्छब्दापेक्षितं पूरयति –

मायाभिर्बहुरूपमिति ।

ऋग्यजुरिति ।

’आत्मा वा इदमेकमेवे’त्यादिकं ऋग्वाक्यं ’तदेतद्ब्रह्मे’त्यादिकं यजुर्वाक्यं ’सदेव सोम्ये’दमित्यादिकं सामवाक्यमिति विभागः ।

तात्पर्ये निश्चीयमान इति ।

बोधकत्वे निश्चीयमान इत्यर्थः ।

यत्पर इति ।

यस्मिन् शब्दस्य तात्पर्यं स एव शब्दार्थ इति न्यायादित्यर्थः ।

कर्त्रादीति ।

कर्ममाहात्म्यं किं वक्तव्यं कर्मकर्तादिसच्चिदानन्दस्वरूप इत्येवं कर्तृस्तावकत्वमित्यर्थः ।

’तत्केन कं पश्येदि’त्यत्र तच्छब्दस्य विभक्तिव्यत्यासेनार्थमाह –

तत्तत्रेति ।

ननु तर्ह्यर्थवादानां वेदान्तवत्क्रियापरत्वं न स्यादित्याशङ्क्य वैषम्यमाह –

अर्थवादानां त्विति ।

यदुक्तमिति ।

सिद्धं ब्रह्म न वेदार्थः मानान्तरवेद्यत्वात् घटवदिति यदुक्तं तद्दूषयतीति भावः ।

पक्षे हेत्वसिद्धिः सोपाधिकत्वाच्च नानुमानमित्यभिप्रेत्य परिहरति –

आहेति ।

व्यवहितं पदं योजयति –

तत्त्वमसीति ।

दृष्टान्ते साध्यव्यापकत्वात्पक्षे साधनाव्यापकत्वाच्चात्र मानान्तरयोग्यत्वमुपाधिरिति भावः ।

उक्तं दूषणद्वयं प्रतिबन्धाय स्फुटिकरोति -

धर्मो न वेदार्थ इति ।

धर्मो वेद एव मानान्तस्तद्धर्मो न वेदार्थ इत्युक्तानुमानहेतोरसिद्धिः मानान्तरयोग्यत्वमुपाधिश्चेति यदि दृश्येत तर्हि प्रकृतेपि दीयतां सैव दृष्टिरित्याह –

तदा ब्रह्मण्यपीति ।

भाष्ये

हेयोपादेयशून्येति ।

स्वापेक्षया यद्भिन्नं तद्धेयमुपादेयं च भवति ब्रह्म तु प्रत्यक्त्वेन स्वरूपत्वाद्धेयोपादेयाभ्यां भिन्नं तस्माद्धेयोपादेयशून्यं यद्ब्रह्म तदात्मैक्यावगमादित्यर्थः । पुरुषार्थं प्रति प्रवृत्तिनिवृत्योर्न हेतुता नायं सर्प इति ज्ञानादुत्पन्ने भयकम्पादिनिवृत्तिरूपपुरुषार्थे व्यभिचारात्तथा च सिद्धज्ञानात् प्रवृत्त्याद्यभावेपि पुरुषार्थसिद्धिरिति भावः ।

देवतादिप्रतिपादनस्येति ।

देवतादिप्रतिपादकवाक्यस्येत्यर्थः । स्वपदं देवतादिपरं, तथा च देवतादिप्रतिपादकपञ्चाग्निवाक्यस्य तु पञ्चाग्निगतोपासनापरत्वमिष्टमिति भावः ।

व्याख्यने –

ज्येष्ठत्वादिगुणा इति ।

’यो ह वै ज्येष्ठं श्रेष्ठं चे’त्यादिश्रुत्या प्राणस्य ज्येष्ठत्वादिगुणाः प्रतिपाद्यन्त इति भावः ।

द्वितीयपक्षं भाष्यतात्पर्येण ग्रन्थाद्बहिः परिहरति –

न द्वितीय इति ।

तदर्थस्येति ।

वेदान्तार्थस्येत्यर्थः । तच्छेषत्वं विधिशेषत्वमित्यर्थः ।

प्रथमकल्पमिष्टापत्त्या ग्रन्थाद्बहिः परिहरति –

आद्य अध्यस्तेति ।

तस्य प्राणादिरूपस्य ब्रह्मणः इत्यर्थः ।

निर्गुणब्रह्मणः तच्छेषत्वं नास्तीति स्फुटीकुर्वन् एकत्वपदाद्यपेक्षितं पूरयति –

अहमिति ।

ब्रह्मात्मपदस्य पूर्वेणान्वयः । एकत्वज्ञानानन्तरं तज्ज्ञानफलं विना उपासनाजन्यफलाभावान्नोपासनाविधिशेषत्वं ब्रह्मण इति भावः ।