भाष्यरत्नप्रभाव्याख्या
पूर्णानन्दीया
 

द्वैतज्ञानस्य संस्कारबलात्पुनरुदये विधानमिति नेत्याह -

नहीति ।

दृढस्येति शेषः । भ्रान्तित्वानिश्चयो दार्ढ्यम् , संस्कारोत्थं तु भ्रान्तित्वेन निश्चितं न विधिनिमित्तम् ।

येनेति ।

उपासनायां कारणस्य सत्वेनेत्यर्थः ।

वेदप्रामाण्यस्य व्यापकं क्रीयार्थत्वमनुवदति(क्रियार्थकत्वमनुवदति)* -

यद्यपीति ।

कर्मकाण्डेऽर्थवादादीनामित्यर्थः । तथा च व्यापकाभावाद्वेदान्तेषु व्याप्याभावानुमानमिति भावः ।

वेदान्ता न स्वार्थे मानम् , अक्रियार्थत्वात् ‘सोऽरोदीत्’ इत्यादिवदित्यनुमाने निष्फलार्थकत्वमुपाधिरित्याह -

तथापीति ।

अर्थवादानां निष्फलस्वार्थामानत्वेऽपीत्यर्थः । तद्विषयस्य तत्करणस्य । स्वार्थे ब्रह्मात्मनीति शेषः । सफलज्ञानकरणत्वेन वेदान्तानां स्वार्थे मानत्वसिद्धेर्न क्रियार्थत्वं(क्रियार्थकत्वं)* तद्व्यापकमिति भावः ।

ननु माभूद्वेदप्रामाण्यस्य व्यापकं क्रियार्थत्वम् (क्रियार्थकत्व)*, व्याप्यं तु भविष्यति, तदभावाद्वेदान्तानां प्रामाण्यं दुर्ज्ञानमिति, नेत्याह -

न चेति ।

येन वेदप्रामाण्यं स्वस्यानुमानगम्यत्वेनान्यत्र क्वचिद्दृष्टं दृष्टान्तमपेक्षेत तदेव नास्तीत्यर्थः । चक्षुरादिवद्वेदस्य स्वतःप्रामाण्यज्ञानान्न तद्व्याप्तिलिङ्गाद्यपेक्षा । प्रामाण्यसंशये तु फलवदज्ञाताबाधितार्थतात्पर्यात्प्रामाण्यनिश्चयो न क्रियार्थत्वेन । कूपे पतेदिति वाक्ये व्यभिचारादिति भावः ।

वर्णकार्थमुपसंहरति -

तस्मादिति ।

समन्वयादित्यर्थः ।

द्वैतज्ञानस्य सकारणस्य नाशाच्चेति यदुक्तं तन्न सम्भवति ज्ञानकालेपि संस्कारोत्थस्य द्वैतज्ञानस्य सत्त्वादिति शङ्कते –

द्वैतज्ञानस्येति ।

उपासनायां कारणस्योपासकद्वैतज्ञानस्य संस्कारवशात्पुनरुत्थितस्य सत्त्वादुपासनाविधिशेषत्वं ब्रह्मणः वक्तुं शक्यत इति भावः ।

उपासनां प्रति भ्रान्तित्वेनानिश्चितद्वैतज्ञानमेव कारणं तच्चैकत्वज्ञानेन नाशात्पुनर्नोपपद्यत एव तया चैकत्वज्ञाने विद्यमाने संस्कारवशादुत्पन्नमपि द्वैतज्ञानं भ्रान्तित्वेन निश्चतत्वान्नोपासनाविधौ कारणमिति भाष्याशयं स्फुटीकरोति –

दृढस्येतीति ।

भ्रान्तत्वेनानिश्चितस्येत्यर्थः ।

संस्कारोत्थमिति ।

संस्कारोत्थद्वैतज्ञानं तु भ्रान्तित्वेन निश्चितत्वान्नोपासनाविधौ कारणं तस्मादेकत्वज्ञानकाले ब्रह्मणो न विधिशेषत्वमित्यर्थः ।

सत्त्वेनेति ।

येन करणस्य सत्त्वेन विधिशेषत्वं तदेव कारणस्य सत्त्वं नास्तीति भावः ।

व्याप्याभावेति ।

व्याप्याभावसाधकानुमानमित्यर्थः ।

तदेवोपपादयति –

वेदान्ता इति ।

अक्रियार्थत्वात्साक्षात्कार्यबोधकत्वाभावादित्यर्थः ।

निष्फलार्थकत्वमिति ।

दृष्टान्ते साध्यव्यापकत्वात् पक्षे साधनाव्यापकत्वाच्च निष्फलार्थकत्वमुपाधिरिति भावः ।

तत्कारणस्येति ।

आत्मज्ञानकारणस्येत्यर्थः । सफलं यज्ज्ञानं तत्कारणत्वेनेत्यर्थः ।

व्याप्यं तु भविष्यतीति ।

वेदान्तानां प्रामाण्यमप्रत्यक्षत्वादनुमानेन ज्ञातव्यम् , अनुमानं तु हेत्वपक्षकमिति योग्यतया क्रियार्थकत्वं हेतुरिति वक्तव्यम् , तथा च हेत्वभावात् हेतुज्ञानाभावेन प्रामाण्यज्ञानाभावात्प्रामाण्यमेव नास्तीति पूर्वपक्षार्थः ।

येनेति ।

यच्छब्दापेक्षितं तच्छब्दं पूरयति –

तदेवेति ।

अनुमानगम्यत्वमेवेत्यर्थः ।

निर्दुष्टवेदवाक्यत्वादेव वेदस्य स्वतः प्रामाण्यं तज्ज्ञानं च सम्भवति तस्मान्नानुमानापेक्षं तदित्याशयं सदृष्टान्तं स्फोरयति –

चक्षुरादिवदिति ।

अपौरुषेयत्वात् निर्दुष्टत्वेन वेदस्य स्वतः प्रामाण्येपि पुरुषस्य प्रामाण्यसन्देहे प्राप्ते तन्निश्चयार्थमनुमानापेक्षा स्यादित्याशङ्क्य परिहरति –

प्रामाण्यसंशय इति ।

फलवत् अज्ञाताबाधितार्थविषयकप्रमाकरणत्वात् वेदस्य प्रामाण्यनिश्चयः न कार्यपरत्वात् , तथा च नानुमानापेक्षेति भावः ।

विपक्षे बाधकमाह –

कूप इति ।

कूपे पतेदिति वाक्यस्य कूपपतनरूपकार्यार्थकत्वसत्त्वेपि प्रामाण्याभावाद्व्यभिचारः । यदि कूपे पतेदिति वाक्यस्यापि प्रामाण्यं स्यादित्युच्यते तदा सर्वोपि कूपपतने प्रवर्तते न तु प्रवर्तते तस्मात्कूपपतनरूपबाधितार्थबोधकत्वाद्वाक्यस्याप्रामाण्यमेवेति भावः ।

ननु तर्हि व्यभिचारात् क्रियार्थत्वेन प्रामाण्याभावे विधिवाक्यानां कथं प्रामाण्यमित्यत आह –

विधिवाक्यानामपीति ।

फलितमाह –

तत्तुल्यमिति ।