अथ नवमवर्णकम्
विधिवाक्यानामपि फलवदज्ञातार्थत्वेन प्रामाण्यं तत्तुल्यं वेदान्तानामपीति स्थितम् । एवं पदानां सिद्धेऽर्थे व्युत्पत्तिमिच्छतां ब्रह्मनास्तिकानां मतम् , ब्रह्मणो मानान्तरायोग्यत्वात् , सफलत्वाच्च वेदान्तैकमेयत्वमित्युक्त्या निरस्तम् । सम्प्रति सर्वेषां पदानां कार्यान्वितार्थे शक्तिमिच्छतां विधिशेषत्वेन प्रत्यग्ब्रह्म वेदान्तैर्बोध्यते न स्वातन्त्र्येणेति वदतां वृत्तिकाराणां मतनिरासाय सूत्रस्य वर्णकान्तरमारभ्यते । तत्र वेदान्ताः किमुपासनाविधिशेषत्वेन ब्रह्म बोधयन्ति उत स्वातन्त्र्येणेति सिद्धे व्युत्पत्त्यभावभावाभ्यां संशये पूर्वपक्षमाह -
अत्रापर इति ।
ब्रह्मणो वेदान्तवेद्यत्वोक्तौ वृत्तिकाराः पूर्वपक्षयन्तीत्यर्थः । उपासनातो मुक्तिः पूर्वपक्षे, तत्त्वज्ञानादेवेति सिद्धान्ते फलम् । विधिर्नियोगः तस्य विषयः प्रतिपत्तिरुपासना ।
अस्याः को विषय इत्याकाङ्क्षायां सत्यादिवाक्यैर्विधिपरैरेव ब्रह्म समर्प्यत इत्याह -
प्रतिपत्तीति ।
विधिविषयप्रतिपत्तिविषयतयेत्यर्थः ।
विधिपराद्वाक्यात्तच्छेषलाभे दृष्टान्तमाह -
यथेति ।
‘यूपे पशुं बध्नाति’ ‘आहवनीये जुहोति’ ‘इन्द्रं यजेत’ इति विधिषु के यूपादय इत्याकाङ्क्षायां ‘यूपं तक्षति, अष्टाश्रीकरोति’ इति तक्षणादिसंस्कृतं दारु यूपः । ‘अग्नीनादधीत’ इत्याधानसंस्कृतोऽग्निराहवनीयः । ‘वज्रहस्तः पुरन्दरः’ इति विधिपरैरेव वाक्यैः समर्प्यन्ते तद्वद्ब्रह्मेत्यर्थः । विधिपरवाक्यस्यापि अन्यार्थबोधित्वे वाक्यभेदः स्यादिति शङ्कानिरासार्थमपिशब्दः । मानान्तराज्ञातान्यपि शेषतयोच्यन्ते न प्रधानत्वेनेति न वाक्यभेदः । प्रधानार्थभेदस्यैव वाक्यभेदकत्वादिति भावः ।
ननूक्तषड्विधलिङ्गैस्तात्पर्यविषयस्य ब्रह्मणः कुतो विधिशेषत्वमिति शङ्कते -
कुत इति ।
वृद्धव्यवहारेण हि शास्त्रतात्पर्यनिश्चयः । वृद्धव्यवहारे च श्रोतुः प्रवृत्तिनिवृत्ती उद्दिश्याप्तप्रयोगो(अपूर्वप्रयोगो)* दृश्यते । अतः शास्त्रस्यापि ते एव प्रयोजने । ते च कार्यज्ञानजन्ये इति कार्यपरत्वं शास्त्रस्य । ततः कार्यशेषत्वं ब्रह्मण इत्याह -
प्रवृत्तीति ।
शास्त्रस्य नियोगपरत्वे वृद्धसम्मतिमाह -
(न)* तथाहीत्यादिना ।
क्रिया, कार्यम् , नियोगो, विधिः धर्मोऽपूर्वमित्यनर्थान्तरम् ।
को वेदार्थ इत्याकाङ्क्षायां शाबरभाष्यकृतोक्तम् -
दृष्टो हीति ।
तस्य वेदस्य ।
कार्यं वेदार्थ इत्यत्र चोदनासूत्रस्थं भाष्यमाह -
चोदनेति ।
क्रियाया नियोगस्य ज्ञानद्वारा प्रवर्तकं वाक्यं चोदनेत्युच्यत इत्यर्थः ।
शबरस्वामिसम्मतिमुक्त्वा जैमिनिसम्मतिमाह -
तस्य ज्ञानमिति ।
तस्य धर्मस्य ज्ञानं(ज्ञानमिति नास्ति)* ज्ञापकमपौरुषेयविधिवाक्यमुपदेशः । तस्य धर्मेणाव्यतिरेकादित्यर्थः ।
पदानां कार्यान्वितार्थे शक्तिरित्यत्र सूत्रं पठति -
तद्भूतानामिति ।
तत्तत्र वेदे भूतानां सिद्धार्थनिष्ठानां पदानां क्रियार्थेन कार्यवाचिना लिङादिपदेन समाम्नायः सहोच्चारणं कर्तव्यम् । पदार्थज्ञानस्य वाक्यार्थरूपकार्यधीनिमित्तत्वादित्यर्थः । कार्यान्वितार्थे शक्तानि पदानि कार्यवाचिपदेन सह पदार्थस्मृतिद्वारा कार्यमेव वाक्यार्थं बोधयन्तीति भावः ।
सिद्ध इति ।
घटाद्यर्थस्य सिद्धत्वं नाम उत्पत्त्यनन्तरं कृत्यसाध्यत्वं ब्रह्मणस्तु कृत्यसाध्यत्वमिति भेदः । व्युत्पत्तिं शक्तिमित्यर्थः । लोके पदानां योग्येतरसंसृष्टत्वेन स्वार्थप्रतिपादनसामर्थ्यमङ्गीकृत्य सिद्धेर्थे व्युत्पत्तिमिच्छतामिति भावः ।
ब्रह्म नास्तिकानामिति ।
ब्रह्मैव नास्तीति वदतां भट्टमतानुयायिनामित्यर्थः ।
सफलत्वाच्चेति ।
सफलज्ञानविषयत्वमेव सफलत्वमिति मन्तव्यम् ।
सर्वेषां पदानामिति ।
पदानां कार्यान्वित एवार्थे शक्तिरिष्यते तत्रैव शब्दसामर्थ्यान्न तु सिद्धेर्थे तदभावात्तथा च कार्यसंस्पर्शमन्तरेण सिद्धेर्थे शब्दस्य न प्रामाण्यं सिद्धस्यापदार्थत्वादिति कार्यान्वितार्थे शक्तिमच्छतामिति भावः । अयमर्थोनुपदं स्फुटीक्रियते । श्री गुरुचरणैस्तु – ब्रह्मविद्याभरणे अयमर्थः अतिस्फुटतया उपपादितः, तथाहि – लौकिकपदार्थव्युत्पत्त्यनुसारेण वेदवाक्यार्थो वर्णनीयः लौकिकी च व्युत्पत्तिः पदानां कार्य एव तत्रैवाद्यव्युत्पत्तिग्रहणसम्भवात् , न हि कोशादिभ्यः आद्यव्युत्पत्तिग्रहः सम्भवति अत्यन्ताव्युत्पन्नस्य कोशाद्यर्थज्ञानासम्भवात्ततश्च प्रयोज्यप्रयोजकवृद्धव्यवहाराद्भिन्नः शक्तिग्रहो वर्णनीयः प्रथमं स च व्युत्पित्सोरेहं भवति – प्रयोजकवृद्धस्य घटमानय गां बधानेति शब्दोच्चारणानन्तरं प्रयोज्यवृद्धेन कृतं घटानयनं गोबन्धनं च पश्यतः घटानयनगोबन्धनयोः कारणतया स्वीयस्तन्यपानादिदृष्टान्तेन कृतिचिकीर्षयोः मध्यमवृद्धगतयोरनुमाने सति चिकीर्षायाः कार्यताज्ञानमूलकत्वान्नूनमनेन आनयनबन्धनयोः कर्यतावगतेति बुद्धिर्भवति, तस्यां च बुद्धौ शब्दोच्चारणातिरिक्तस्य कारणान्तरस्यासम्भवात् प्रयोजकवृद्धोच्चारितशब्दः कार्यविशेषे आनयनादौ शक्त इति निर्णयो भवति, ततश्चावापोद्वापाभ्यां यथायथं कार्यसामान्यं प्रथमावगतमविहायैव तेषु तेषु समभिव्याहारविशेषेषु तत्कार्यविशेषप्रत्ययः ततश्च कोशादिभ्योप्युपजीव्य प्राथमिकव्युत्पत्तिग्रहानुसारेण कार्यान्वित एव तत्तत्पदार्थे शक्तिः न तु तदन्वित इति ।
प्रयोजकेति ।
उत्तमेत्यर्थः ।
प्रयोज्येति ।
मधमेत्यर्थः । पश्यतः व्युत्पित्सोर्बालस्य बुद्धिर्भवतीत्यन्वयः । कृतिश्च चिकीर्षा च कृतिचिकीर्षे आनयनादिकं प्रति करणीभूते तयोरित्यर्थः । मध्यमवृद्धस्य आनयने प्रवृत्तिः कृतिचिकीर्षापूर्विका प्रवृत्तित्वात् स्वीयस्तन्यपानप्रवृत्तिवदिति बालेन व्युत्पत्सुनानुमीयत इति भावः ।
कार्यताज्ञानेति ।
आनयनं मत्कृतिसाध्यमिति कार्यत्वज्ञानमूलकत्वादित्यर्थः ।
अनेनेति ।
मध्यमवृद्धेनेत्यर्थः ।
अशक्तस्येति ।
अशक्तशब्दस्येत्यर्थः । यदि शब्दस्य कार्यतायां शक्तिर्न स्यात्तेन कथं कार्यताज्ञानं स्यात्तस्माद्गामानयेत्याद्युच्चरितशब्दः आनयनादिकार्यविशेषे शक्त इति बालस्य निश्चयो भवतीति ब्रह्मविद्याभरणफक्कि कार्थः ।
इति वदतामिति ।
इति ब्रह्मणः सत्त्वं वदतामित्यर्थः ।
वृत्तिकाराणामिति ।
ज्ञानकर्मसमुच्चयवादिभिन्नानामुपासनैव ज्ञानमुपासनाहेतुर्वा ज्ञानमित्यभ्युपगच्छतामहं ब्रह्मेति प्रत्यगभिन्नब्रह्मोपासनादपूर्वद्वारा स्वर्गवज्जन्योपि मोक्षः ’न स पुनरावर्तते’ ’ब्रह्मविदाप्नोति परमि’त्यादिशास्त्रबलान्नित्यः ध्वंसवदित्युक्तवतामाचार्यदेशीयानां वृत्तिकाराणामित्यर्थः ।
अधिकरणमारच्यते –
तत्रेति ।
सदेव सोम्येत्यादिवेदान्ता इत्यर्थः ।
’प्रतिपत्तिविधीति’ वाक्ये भाष्यतात्पर्यानुरोधेन विधिप्रतिपत्तिरिति व्यत्यासेन अन्वयं ज्ञापयन् अर्थकथनपूर्वकमवतारयति –
विधिर्नियोग इति ।
अनुपदं नियोगशब्दार्थोऽपूर्वमिति वक्ष्यते ।
विधिपरैरेवेति ।
विधिः ’तद्विजिज्ञासस्वे’त्यादिः तत्परैः स्वार्थे फलाभावात्तदेकवाक्यतापन्नैः ’सत्यं ज्ञानमनन्तं ब्रह्मे’त्यादिवाक्यैः अपूर्वविषयोपासनाविषयतया ब्रह्मणः विधिशेषत्वं समर्प्यत इति शास्त्रप्रमाणकत्वमाहेत्यर्थः । विधिरपूर्वरूपो विनियोगस्तद्विषणी या प्रतिपत्तिरुपासना तद्विषयतयेति विग्रहः । प्रतिपत्तेर्विधिविषयत्वं नाम विधिहेतुकृतिविषयत्वमिति मन्तव्यम् ।
वाक्यादिति ।
सत्यं ज्ञानमित्यादिवाक्यादित्यर्थः ।
पशुमिति ।
पशोर्बन्धनं कुर्यादित्यर्थः ।
विधिवाक्यान्युदाहृत्य तत्पराणि वाक्यान्युदाहरति –
यूपं तक्षतीति ।
यूपे पशुं बध्नातीति विधौ यूपः क इत्याकाङ्क्षायां यूपं तक्षतीति वाक्येन तक्षणादिसंस्कृतं दारु यूप इति तस्य यूपस्य विधिशेषत्वं बोध्यते यथा तथा तद्विजिज्ञासस्वेति विधौ तद्ब्रह्म किमित्याकाङ्क्षायां सत्यादिवाक्येन सच्चिदानन्दं ब्रह्मेति तस्य ब्रह्मणः विधिशेषत्वं बोध्यते सत्यादिवाक्यस्य स्वार्थे फलाभावादिति भावः ।
शेषत्वं स्फुटीकरोति –
विधिपरेत्यादिना ।
ननु तथापि सत्यादिपदानां मानान्तरावेद्यब्रह्मबोधकत्वाद्वाक्यभेदो दुर्वार इत्यत आह –
मानान्तरेति ।
यूपादीन्यपीत्यर्थः ।
कुत इति ।
कस्माद्धेतोरित्यर्थः ।
वृद्धव्यवहारेणेति ।
उत्तमवृद्धानां व्यवहारो नाम गामानयेत्यादिवाक्यसमूहात्मकस्यास्य शास्त्रस्यास्मिन्नर्थे तात्पर्यमित्याकारकनिश्चयः मध्यमवृद्धानां जायत इत्यर्थः ।
उक्तमेव विवृणोति –
वृद्धव्यवहारे चेति ।
वृद्धव्यवहारस्थले इत्यर्थः । श्रोतुः मध्यमवृद्धस्येत्यर्थः ।
प्रवृत्तिनिवृत्तीति ।
अनुष्ठानरूपा प्रवृत्तिस्तद्विपरीता निवृत्तिरिति विवेकः । प्रवृत्तिनिवृत्तिप्रयोजनमन्तरा वाक्यप्रयोगानुपपत्तेः प्रवर्तकज्ञानद्वारा प्रवृत्त्यर्थं गामानयेति वाक्यं प्रयोक्ता उत्तमवृद्धः प्रयुङ्क्ते तेन वाक्यश्रोतुः मध्यमवृद्धस्य गामानयने प्रवृत्तिर्भवति न भुङ्क्ष्वेति वाक्यश्रोतुस्तस्य तूष्णीम्भावरूपा निवृत्तिर्भवति, तथा च श्रोतृप्रवृत्तिनिवृत्त्युद्देश्यक उत्तमवृद्धस्याप्तस्य वाक्यप्रयोगः मध्यमवृद्धस्य शास्त्रतात्पर्यनिश्चये हेतुरिति भावः ।
ततः किमित्यत आह –
अत इति ।
ते एवेति ।
वाक्यप्रयोगप्रयोजने प्रवृत्तिनिवृत्ती एवेत्यर्थः । ज्योतिष्टोमेनेत्यादिशास्त्रं धर्मे प्रवृत्त्यर्थमधर्मान्निवृत्त्यर्थं च प्रवृत्तं तस्मात्ते एव शास्त्रस्यापि प्रयोजन इति भावः ।
ते च कार्यजन्ये इति ।
धर्मो मत्कृतिसाध्य इति धर्मे कार्यत्वज्ञानेन प्रवृत्तिरुत्पद्यते ततः कार्यत्वज्ञानजन्यत्वं प्रवृत्तौ प्राप्तम् , एवं निवृत्तावप्यस्ति, तथाहि हेयं कलञ्जभक्षणादिकं मन्निवृत्तिप्रयत्नकार्यमिति तत्कार्यत्वज्ञानेन निवृत्तिरूपप्रयत्नाभिन्ना तूष्णीम्भावरूपा निवृत्तिर्जन्यते ततस्तस्यां कार्यत्वज्ञानजन्यत्वं वर्तते, तथा च हेयस्य निवृत्तिप्रयत्नकार्यत्वं नाम निवृत्तिपरिपाल्यप्रागभावप्रतियोगित्वमिति पुरस्तादेवोक्तमिति भावः ।
प्रकृतमाह –
तत इति ।
तस्माद्धेतोरित्यर्थः ।
इत्याहेति ।
इत्येवं वृत्तिकारस्य तात्पर्यमाहेत्यर्थः ।
भाष्ये –
कुत एतदिति ।
विधिशेषत्वं कस्माद्धेतोरित्यर्थः ।
अनुक्रमणमिति ।
वेदार्थसङ्ग्राहकवाक्यजातमित्यर्थः । अनुक्रमणं शास्त्रस्य कार्यपरत्वमेव बोधयतीति भावः ।
तदेवोपपादयति –
दृष्टो हि तस्यार्थ इति ।
अत्र नामपदं व्यर्थं कर्मावबोधनं कार्यज्ञानमित्यर्थः । तथा च ज्ञायमानं कार्यं वेदार्थ इति दृष्टो हीति शाबरभाष्यवाक्यार्थः ।
ज्ञानमुपदेश इति ।
ज्ञानं ज्ञापकमित्यर्थः । उपदेशः अपौरुषेयविधिवाक्यमित्यर्थः ।
तद्भूतानामिति ।
’तद्भूतानां क्रियार्थेन समाम्नायोर्थस्य तन्निमित्तत्वादि’त्येतावत्सूत्रमिति विज्ञेयम् ।
विषयविशेष इति ।
धर्मादावित्यर्थः ।
कुतश्चिद्विषयविशेषादिति ।
अधर्मात्सुरापानादेरित्यर्थः । शास्त्रं विधिनिषेधवाक्यमित्यर्थः ।
व्याख्याने – कार्यपरत्वं शास्त्रस्येत्युक्तं नियोगपरत्वं च कुत्रचिदुक्तं तस्य ज्ञानमित्यत्र धर्मबोधकत्वमुक्तम् , भाष्ये तु क्रियायाः प्रवर्तकमित्यत्र क्रियापरत्वं शास्त्रस्येत्युक्तम् , तथाचानेकार्थकत्वात्कथं कार्यपरत्वमेवेत्यत आह –
क्रिया कार्यमिति ।
षण्णामेकार्थकत्वात्पर्यायतेत्यर्थः ।
सुत्रस्थमिति ।
सूत्रार्थकथनपरमित्यर्थः । भाष्यकर्ता शबरस्वामी सूत्रकर्ता भगवान् जैमिनिरिति विवेकः ।
तस्य धर्मेणाव्यतिरेकादिति ।
विधिवाक्यस्य धर्मेणाव्यभिचरितत्वादित्यर्थः । विधिवाक्यस्य नियमेन धर्मबोधकत्वादिति यावत् । तथा च यद्विधिवाक्यं तद्धर्मबोधकमिति व्याप्तिप्रतिपादनपरेण श्रीजैमिनिसूत्रेण शास्त्रस्य नियोगपरत्वं दर्शितमिति भावः ।
सूत्रमिति ।
जैमिनिसूत्रमित्यर्थः ।
तत्पदं विभक्तिव्यत्यासेन परिष्करोति –
तत्तत्रेति ।
सिद्धार्थनिष्ठानामिति ।
सिद्धार्थबोधकानामित्यर्थः ।
समाम्नायः कर्तव्य इति ।
कर्तव्यपदस्यात्राध्याहारः कृत इति विज्ञेयम् ।
अर्थस्य तन्निमित्तत्वादित्यंशं व्याकरोति –
पदार्थज्ञानस्येति ।
पदार्थस्मृतेरित्यर्थः ।
विज्ञानादिपदेन सहोच्चारितसिद्धार्थनिष्ठपदसमुदायात्मकाम्नायः पदार्थस्मृतेर्वाक्त्यार्थधीनिमित्तत्वात्तद्वारा कार्यरूपवाक्यार्थज्ञाने हेतुर्भवतीति सूत्रयोजनामभिप्रेत्य सङ्ग्रहेण तात्पर्यार्थमाह –
कार्यान्वितेति ।
पदार्थस्मृतिद्वारा पदानि कार्यवाचिपदेन सह वाक्यार्थं बोधयन्तीत्यन्वयः ।