भाष्यरत्नप्रभाव्याख्या
पूर्णानन्दीया
 

ननु जीवेनासम्बन्धाद्भिन्नत्वाद्वा देवस्याभानं न तु मायागूहनादिति, नेत्याह -

सर्वव्यापी सर्वभूतान्तरात्मेति ।

देवस्य विभुत्वात्सर्वप्राणिप्रत्यक्त्वाच्चावरणादेवाभानमित्यर्थः । प्रत्यक्त्वे कर्तृत्वं स्यादिति चेन्न, कर्माध्यक्षः । क्रियासाक्षीत्यर्थः । तर्हि साक्ष्यमस्तीति द्वैतापत्तिः । न सर्वभूतानामधिष्ठानं भूत्वा साक्षी भवति । साक्ष्यमधिष्ठाने साक्षिणि कल्पितमिति भावः ।

साक्षिशब्दार्थमाह -

चेता केवल इति ।

बोद्धृत्वे सति अकर्ता साक्षीति लोकप्रसिद्धम् । चकारो दोषाभावसमुच्चयार्थः । निर्गुणत्वान्निर्दोषत्वाच्च गुणो दोषनाशो वा संस्कारो नेत्यर्थः । ‘सः’ इत्युपक्रमाच्छुक्रादिशब्दाः पुंस्त्वेन वाच्याः । स एव आत्मा परि सर्वमगात् व्याप्तः, शुक्रो दीप्तिमान् , अकायो लिङ्गशून्यः, अव्रणोऽक्षतः, अस्नाविरः शिराविधुरः अनश्वर इति वा । आभ्यां पदाभ्यां स्थूलदेहशून्यत्वमुक्तम् । शुद्धो रागादिमलशून्यः । अपापविद्धः पुण्यपापाभ्यामसंस्पृष्ट इत्यर्थः ।

अत इति ।

उत्पत्त्याप्तिविकारसंस्कारेभ्योऽन्यत्पञ्चमं क्रियाफलं नास्ति, यन्मोक्षस्य क्रियासाध्यत्वे द्वारं भवेदित्यर्थः ।

ननु मोक्षस्यासाध्यत्वे शास्त्रारम्भो वृथा । न । ज्ञानार्थत्वादित्याह -

तस्मादिति ।

द्वाराभावादित्यर्थः ।

व्याघातं शङ्कते -

नन्विति ।

तथा च मोक्षे क्रियानुप्रवेशो नास्तीति व्याहतमिति भावः ।

मानसमपि ज्ञानं न विधियोग्या क्रिया, वस्तुतन्त्रत्वात् , कृत्यसाध्यत्वाच्चेत्याह -

नेति ।

वैलक्षण्यं प्रपञ्चयति -

क्रिया हीति ।

यत्र विषये तदनपेक्षैव(तदनपेक्षयैव)* या चोद्यते तत्र सा हि क्रियेति योजना ।

विषयवस्त्वनपेक्षा, कृतिसाध्या च क्रियेत्यत्र दृष्टान्तमाह -

यथेति ।

गृहीतमिति ।(गृहीतम्)* अध्वर्युणेति शेषः । वषट्करिष्यन्होता, सन्ध्यां देवतामिति चैवमादिवाक्येषु यथा यादृशी ध्यानक्रिया वस्त्वनपेक्षा पुन्तन्त्रा च चोद्यते तादृशी क्रियेत्यर्थः ।

ध्यानमपि मानसत्वाज्ज्ञानवन्न क्रियेत्यत आह -

ध्यानमित्यादिना ।

तथापि क्रियैवेति शेषः । कृत्यसाध्यत्वमुपाधिरिति भावः ।

ध्यानक्रियामुक्त्वा ततो वैलक्षण्यं ज्ञानस्य स्फुटयति -

ज्ञानं त्विति ।

अतः प्रमात्वान्न चोदनातन्त्रं न विधेर्विषयः । पुरुषः कृतिद्वारा तन्त्रं हेतुर्यस्य तत्पुरुषतन्त्रम् , तस्माद्वस्त्वव्यभिचारादपुन्तन्त्रत्वाच्च ध्यानाज्ज्ञानस्य महान्भेद इत्यर्थः ।

तद्भूत्वेति ।

अधिष्ठानं भूत्वेत्यर्थः ।

द्वैतापत्तिं परिहरति –

साक्ष्यमिति ।

चेतेति ।

चेतृशब्द ऋकारान्तः ।

चेता केवल इति पदद्वयस्य क्रमेणार्थं वदन् अनुभवमाह –

बोद्धृत्वे सतीति ।

प्रकृते किमायातमित्यत आह –

निर्गुणत्वादिति ।

शिराः नाड्य इत्यर्थः ।

देहद्वयाभावे फलितमाह –

पुण्यपापाभ्यामिति ।

उपसंहरतीति ज्ञापयन् भाष्यार्थमाह –

उत्पत्तीति ।

परिहरति –

नेति ।

ज्ञानार्थत्वाच्छास्त्रारम्भः सार्थक इत्याहेत्यर्थः ।

व्याघातमिति ।

विरोधमित्यर्थः । शास्त्रं ज्ञानार्थञ्चेन्मोक्षे क्रियानुप्रवेशः कथं नोपपद्यते ज्ञानस्यैव क्रियात्वादिति विरोधं शङ्कते इति भावः ।

मानसमपि इति ।

यो विध्यर्थः स कृतिसाध्यत्वविशिष्टः तथा च ज्ञानस्य कृत्यसाध्यत्वं न विध्यर्थत्वायोगात् न विधियोग्यक्रियात्वमिति भावः ।

वैलक्षण्यमिति ।

भेदमित्यर्थः । ज्ञानस्य ध्यानक्रियावैलक्षण्यं प्रपञ्चयतीति भावः ।

सामान्यव्याप्तिप्रतिपादकं भाष्यं योजयति –

यत्रेति ।

चोद्यत इति ।

चोदनया उत्पद्यत इत्यर्थः ।

यत्र विषयवस्त्वनपेक्षत्वे सति कृतिसाध्यत्वं तत्र क्रियात्वमिति सामान्यव्याप्तिस्तामुपपादयन् तस्यां दृष्टान्तप्रतिपादकं भाष्यमवतारयति –

विषयवस्त्वनपेक्षेति ।

विषयाजन्येत्यर्थः । अनुमित्यादौ विषयस्याहेतुत्वात्तदजन्ये तस्मिन् व्यभिचारवारणाय कृतिजन्यत्वदलम् । कृतिसाध्ये अपूर्वे व्यभिचारवारणाय विषयवस्त्वनपेक्षत्वदलम् , अपूर्वस्य उपादानरूपविषयजन्यत्वेन तदजन्यत्वाभावान्न व्यभिचारः । उपासनायाः अपूर्वविषयत्वं नाम पूर्वहेतुकृतिविषयत्वमिति पुरस्तादुक्तमिति विज्ञेयम् । वषट्करिष्यन्निति हेतौ वषट्करिष्यन् तां देवतां ध्यायेदित्यर्थः ।

वाक्यान्तरमाह –

सन्ध्यामिति ।

ध्याने विषयवस्त्वनपेक्षत्वे सति कृतिसाध्यत्वं क्रियात्वं च विद्यत इति व्याप्तिं परिष्करोति –

यथा यादृशीति ।

यादृशी अनाहार्यप्रमाव्यतिरिक्तेत्यर्थः ।

ज्ञानमेवेति ।

ज्ञानमिवेत्यर्थः । ध्यानं न क्रिया मानसत्वाज्ज्ञानवदिति प्रयोगः ।

ध्यानं क्रिया मानसत्वादित्यनुमाने कृत्यसाध्यत्वमुपाधिः दृष्टान्ते साध्यव्यापकत्वात् पक्षे साधनाव्यापकत्वाच्चेत्याह –

कत्यसाध्यत्वमिति ।

ज्ञानस्येति ।

लोके प्रसिद्धघटादिज्ञानस्येत्यर्थः ।

भाष्ये – पूर्वमात्मनः वृत्तिप्रतिफलितचैतन्याविषयत्वेपि वत्तिविषयत्वमुक्तं तदत्रोपसंहृतम् –

ज्ञानमेकं मुक्त्वेति ।

यथेति ।

किञ्चिद्ध्यानं यथावस्थितवस्त्वनुसार्यपि वस्तुनिरपेक्षं भवति तदभिप्रायेण यस्यै देवताया इति सन्ध्यां मनसेति चोदाहरणद्वयम् , किञ्चित्पुनर्ध्यानं वस्त्वनुसार्यपि भवति तदभिप्रायेण पुरुषो वा वेत्युदाहरणम् , अतो ध्यानस्य वस्त्वनुसारे तदननुसारे च न निर्बन्धः, कृतिसाध्यत्वं तु नियतमेवेति तस्य विधेयत्वमुपपद्यते, प्रमाणज्ञानस्य तु कृत्यसाध्यतया न विधेयत्वमिति समुदायार्थः । ज्ञानं तु प्रमाणजन्यमिति । यथार्थवस्तुविषयप्रत्यक्षादिप्रमाणजन्यत्वात् ज्ञानस्य सर्वदानाहार्यप्रमात्मकत्वमेव ध्यानादीनां तु केषाञ्चिदनाहार्यत्वं केषाञ्चिद्भ्रमत्वं केषाञ्चित्प्रमात्वं सम्भवति तस्मादपि ज्ञानस्य महद्वैलक्षण्यमिति भावः ।

व्याख्याने प्रतीकमादायेति शब्दार्थमाह –

अतः प्रमाणजन्यत्वादिति ।

प्रतीकमादायार्थमाह –

न चोदनेति ।

ज्ञानस्य प्रमातृजन्यत्वेन पुरुषतन्त्रताऽस्त्येवेति आशङ्क्य विग्रहप्रतिपादकद्वारा परिहरति –

पुरुष इति ।

ज्ञानस्य प्रमातृजन्यत्वेपि कृतिसाध्यत्वाभावान्न पुरुषतन्त्रतेति भावः ।

प्रतीकमादायार्थमाह –

तस्मादिति ।