भेदमेव दृष्टान्तान्तरेणाह -
यथा चेति ।
अभेदसत्त्वेऽपि विधितो ध्यानं कर्तुं शक्यम् , न ज्ञानमित्यर्थः ।
ननु प्रत्यक्षज्ञानस्य विषयजन्यतया तत्तन्त्रत्वेऽपि शाब्दबोधस्य तदभावाद्विधेयक्रियात्वमिति नेत्याह -
एवं सर्वेति ।
शब्दानुमानाद्यर्थेष्वपि ज्ञानमविधेयक्रियात्वेन ज्ञातव्यम् । तत्रापि मानादेव ज्ञानस्य प्राप्तेर्विध्ययोगादित्यर्थः ।
तत्रैवं सति ।
लोके ज्ञानस्याविधेयत्वे सतीत्यर्थः । यथाभूतत्वमबाधितत्वम् ।
ननु ‘आत्मानं पश्येत्’ ‘ब्रह्म त्वं विद्धि’(के०उ॰ १-५) ‘आत्मा द्रष्टव्यः’ इति विज्ञाने लिङ्लोट्तव्यप्रत्यया विधायकाः श्रूयन्ते, अतो ज्ञानं विधेयमित्यत आह -
तद्विषय इति ।
तस्मिन् ज्ञानरूपविषये विधयः पुरुषं प्रवर्तयितुमशक्ता भवन्ति । अनियोज्यं कृत्यसाध्यं नियोज्यशून्यं वा ज्ञानं तद्विषयकत्वादित्यर्थः । ममायं नियोग इति बोद्धा नियोज्यो विषयश्च विधेर्नास्तीति भावः ।
तर्हि ज्ञेयं ब्रह्म विधीयताम् , नेत्याह -
अहेयेति ।
वस्तुस्वरूपो विषयस्तत्त्वात् । ब्रह्मणो निरतिशयस्यासाध्यत्वान्न विधेयत्वमित्यर्थः । उदासीनवस्तुविषयकत्वाच्च ज्ञानं न विधेयम् , प्रवृत्यादिफलाभावादिति वार्थः(प्रवृत्यादिफलाभावादित्यर्थः)* ।
विधिपदानां गतिं पृच्छति -
किमर्थानीति ।
विधिच्छायानि प्रसिद्धयागादिविधितुल्यानीत्यर्थः ।
विधिप्रत्ययैरात्मज्ञानं परमपुरुषार्थसाधनमिति स्तूयते । स्तुत्या आत्यन्तिकेष्टहेतुत्वभ्रान्त्या या विषयेषु प्रवृत्तिरात्मश्रवणादिप्रतिबन्धिका तन्निवृत्तिफलानि विधिपदानीत्याह -
स्वाभाविकेति ।
विवृणोति -
यो हीत्यादिना ।
तत्र विषयेषु । सङ्घातस्य या प्रवृत्तिः तद्गोचराच्छब्दादेरित्यर्थः । स्रोतश्चित्तवृत्तिप्रवाहः । प्रवर्तयन्ति ज्ञानसाधनश्रवणादाविति शेषः ।
श्रवणस्वरूपमाह -
तस्येति ।
अन्वेषणं ज्ञानम् । यदिदं जगत्तत्सर्वमात्मैवेत्यनात्मबाधेनात्मा बोध्यते । अद्वितीयादृश्यात्मबोधे विधिस्तपस्वी द्वैतवनोपजीवनः क्व स्थास्यतीति भावः ।
आत्मज्ञानिनः कर्तव्याभावे मानमाह -
तथा चेति ।
अयं स्वयंप्रभानन्दः(स्वयं परमानन्दः)* परमात्माहमस्मि इति यदि कश्चित्पुरुष आत्मानं जानीयात्तदा किं फलमिच्छन् , कस्य वा भोक्तुः प्रीतये, शरीरं तप्यमानमनुसञ्ज्वरेत्तप्येत । भोक्तृभोग्यद्वैताभावात्कृतकृत्य आत्मविदित्यभिप्रायः । ज्ञानदौर्लभ्यार्थश्चेच्छब्दः । एतद्गुह्यतमं तत्त्वम् ।
ध्यानमिति ।
आहार्यरूपं ध्यानमित्यर्थः ।
नन्विति ।
प्रत्यक्षात्मकज्ञानं प्रति विषयस्य हेतुत्वेन तज्ज्ञानस्य वस्तुतन्त्रत्वेपि शाब्दबोधात्मकज्ञानं प्रति विषयस्य कारणत्वाभावात् शाब्दबोधादेर्न विषयवस्तुतन्त्रता तस्माद्विधेयक्रियात्वं स्यादिति शङ्कार्थः ।
शब्दानुमानाद्यर्थेष्विति ।
शब्दादिप्रमाणविषयार्थेष्वित्यर्थः ।
मानादेवेति ।
अबाधितवस्तुविषयप्रमाणादेवानुमित्यादेः प्राप्तेरित्यर्थः । अनुमित्यादिज्ञाने विषयेन्द्रियसंयोगाभावेन मुख्यवस्तुतन्त्रत्वाभावेपि अनुमित्यादिनिष्ठप्रमात्वस्याबाधितवस्तुतन्त्रत्वमौपचारिकमस्तीति भावः ।
भाष्ये – या चोदनाजन्या पुरुषतन्त्रा च क्रिया तां प्रसिद्धां क्रियां तद्विलक्षणप्रसिद्धघटादिज्ञानं चोपपाद्य प्रकृतमाविष्करोति –
तत्रैवं सतीति ।
साक्षात्कारात्मकं शाब्दबोधात्मकमनुमित्यात्मकं वा ब्रह्मात्मविषयकं ज्ञानं न चोदनातन्त्रं नापि पुरुषतन्त्रं परम्परया कृतिजन्यत्वेपि साक्षात्कृतिजन्यत्वाभावात्प्रसिद्धघटादिज्ञानवदिति भावः ।
व्याख्याने लिङ्गादित्रयस्य क्रमेणोदाहरणपूर्वकं भाष्यमवतारयति –
नन्विति ।
अनिर्योज्यं ज्ञानं विषयो येषां विध्यादीनामिति बहुव्रीहिसमासमभिप्रेत्य वाक्यं व्याकरोति –
अनियोज्यमिति ।
नियोज्यशून्यं वेति ।
कृतिसाध्यफलरहितं वेत्यर्थः ।
नियोज्यश्च विषयश्च नियोज्यविषयौ येषां न विद्येते ते अनियोज्यविषया विधयस्तेषां भावः अनियोज्यविषयत्वं तस्मादिति समासान्तरं तात्पर्यार्थकथनेन स्फोरयति –
ममेति ।
अयं फलहेतुभूतः अपूर्वरूपो नियोगः ममावश्यक इति ज्ञानवान् बोद्धा यः स नियोज्य इत्यर्थः । विषयश्च कृतिसाध्यविषयश्चेत्यर्थः । यथा ज्योतिष्टोमवाक्ये स्वर्गकामरूपनियोज्यः कृतिसाध्ययागरूपविषयश्च विधेरस्ति तद्वदत्र नियोज्यो विषयश्च विधेर्नास्तीति भावः ।
बहुव्रीहिसमासभ्रमं वारयति –
वस्तुस्वरूप इति ।
आत्मस्वरूपत्वात् ब्रह्माहेयमनुपादानं च भवति स्वव्यतिरिक्तमेव हेयमुपादेयं चेति प्रसिद्धं लोके, तस्मादहेयानुपादेयवस्तुस्वरूपत्वात् ब्रह्मणः विधयो ज्ञान इव तस्मिन् न प्रवर्तन्त इति भावः ।
फलितमाह –
निरतिशयस्येति ।
व्याख्यानान्तरं वदन् बहुव्रीहिसमासमभिप्रेत्य भाष्यस्थाहेयेत्यादिहेतोरर्थमाह –
उदासीनेति ।
अनियोज्येत्यादिहेतुसमुच्चयार्थश्चशब्दः ।
उदासीनवस्तुविषकत्वेपि ज्ञानस्य विधेयत्वं स्यादित्याशङ्क्याह –
प्रवृत्तीति ।
वाशब्दः व्याख्यानान्तरद्योतकः ।
स्तुत्येति ।
स्तुत्या तन्निवृत्तिफलानीत्यन्वयः ।
विषयप्रवृत्तौ हेतुमाह –
आत्यन्तिकेति ।
उत्कृष्टसुखहेतुत्वभ्रान्त्येत्यर्थः ।
विषयेष्विति ।
शब्दस्पर्शरूपादिविषयेष्वित्यर्थः । स्रक्चन्दनादिविषयेष्विति फलितार्थः ।
भाष्ये
स्वाभाविकप्रवृत्तीति ।
स्वाभाविकी स्वभावसिद्धा या प्रवृत्तिस्तद्विषयेभ्यः स्रक्चन्दनादिभ्यो यद्विमुखीकरणं तदर्थानीति विग्रहः । अथ वा स्वाभाविकेभ्यः प्रवृत्तिविषयेभ्यो यद्विमुखीकरणमिति विग्रहः । विषयाणां स्वाभाविकत्वे लोकप्रमाणसिद्धत्वम् ।
तत्रेति ।
विषय इत्यर्थः । आत्यन्तिकमुत्कृष्टमित्यर्थः । पुरुषार्थं सुखमित्यर्थः । अनित्यत्वादिति शेषः ।
तमिति ।
यो हि बहिर्मुखस्तमुत्कृष्टसुखार्थिनमधिकारिणमित्यर्थः । बहिर्मुखस्य सुखे उत्कृष्टवाञ्छयाधिकारित्वं सम्पाद्य तं श्रवणादौ वाक्यानि प्रवर्तयन्तीति ज्ञापनार्थमात्यन्तिकेत्यादिविशेषणम् । एतेन साधनचतुष्टयसम्पन्नस्य श्रवणादौ प्रवृत्तिर्युक्ता श्रुतीनां तस्मिन्प्रवर्तयितृत्वं च युक्तं कथं बहिर्मुखस्येति शङ्का निरस्ता, कथञ्चिदधिकारित्वस्य प्रतिपादनादिति भावः ।
तत्केन कमिति ।
तत्तत्र विद्याकाले केन करणेन कं विषयं पश्येदित्यर्थः ।
अकर्तव्यप्रधानमिति ।
अकर्तव्यं कृत्यसाध्यं यद्ब्रह्म तदेव प्रधानं विषयो यस्य तत्तथेत्यर्थः ।
व्याख्याने –
विवृणोतीति ।
सङ्ग्रहवाक्यं विवृणोतीत्यर्थः ।
शब्दादेरिति ।
शब्दस्पर्शादिविषयादित्यर्थः ।
श्रवणस्वरूपमिति ।
अधिकारिणो लाभात्तस्य पुरुषार्थवाञ्छिनस्तत्त्वज्ञानाय श्रवणस्वरूपमाहेत्यर्थः । अनात्मबोधेनात्मा बोध्यत इत्यनेन श्रवणस्वरूपमुक्तमिति भावः ।
विधिपदानामुक्तरीत्या गतिसम्भवात् क्व वादिनामवकाश इति वादिनं प्रत्युपहासद्वारा स्वमतं परिष्करोति –
अद्वितीयेति ।
तपस्विनः अरण्यरूपवनापेक्षायाः सत्त्वादिदमाह –
द्वैतेति ।
शेषपूर्त्यान्वयं दर्शयति –
अहमिति ।
श्रुत्यर्थफलितमाह –
भोक्तृभोग्येति ।
प्रतीकमादाय एतच्छब्दार्थमाह –
एतदिति ।