वृत्तिकारमतनिरासमुपसंहरति -
तस्मादिति ।
प्राभाकरोक्तमुपन्यस्यति -
यदपि केचिदिति ।
कर्तात्मा लोकसिद्धत्वान्न वेदान्तार्थः । तदन्यद्ब्रह्म नास्त्येव, वेदस्य कार्यपरत्वेन मानाभावादित्यर्थः ।
मानाभावोऽसिद्ध इत्याह -
तन्नेति ।
अज्ञातस्य फलस्वरूपस्यात्मन उपनिषदेकवेद्यस्याकार्यशेषत्वात्कृत्स्नवेदस्य कार्यपरत्वमसिद्धम् । न च प्रवृत्तिनिवृत्तिलिङ्गाभ्यां श्रोतुस्तद्धेतुं कार्यबोधमनुमाय वक्तृवाक्यस्य कार्यपरत्वं निश्चित्य वाक्यस्थपदानां कार्यान्विते शक्तिग्रहान्न सिद्धस्यापदार्थस्य वाक्यार्थत्वमिति वाच्यम् , पुत्रस्ते जात इति वाक्यश्रोतुः पितुर्हर्षलिङ्गेनेष्टं पुत्रजन्मानुमाय पुत्रादिपदानां सिद्धे सङ्गतिग्रहात् , कार्यान्वितापेक्षयान्वितार्थे शक्तिरित्यङ्गीकारे लाघवात् , सिद्धस्यापि वाक्यार्थत्वादित्यलम् ।
किञ्च ब्रह्मणो नास्तित्वादेव कृत्स्नवेदस्य कार्यपरत्वमुत वेदान्तेषु तस्याभानात् , अथ वा कार्यशेषत्वात् , किं वा लोकसिद्धत्वादाहोस्वित् मानान्तरविरोधात् ? तत्राद्यं पक्षत्रयं निराचष्टे -
योऽसाविति ।
अनन्यशेषत्वार्थम् ‘असंसारी’ इत्यादि विशेषणम् ।
नास्तित्वाभावे हेतुं वेदान्तमानसिद्धत्वमुक्त्वा हेत्वन्तरमात्मत्वमाह -
स एष इति ।
इतिरिदमर्थे । इदं न इदं न इति सर्वदृश्यनिषेधेन य आत्मा उपदिष्टः स एष इत्यर्थः ।
चतुर्थं शङ्कते -
नन्वात्माहमिति ।
आत्मनोऽहङ्कारादिसाक्षित्वेनाहन्धीविषयत्वस्य निरस्तत्वान्न लोकसिद्धतेत्याह -
नेति ।
यं तीर्थकारा अपि न जानन्ति तस्यालौकिकत्वं किमु वाच्यमित्याह -
नहीति ।
समस्तारतम्यवर्जितः । तत्तन्मते आत्मानधिगतिद्योतकानि विशेषणानि ।
पञ्चमं निरस्यति -
अत इति ।
केनचिद्वादिना प्रमाणेन युक्त्या वेत्यर्थः । अगम्यत्वान्न मानान्तरविरोध इति भावः ।
साक्षी कर्माङ्गम् , चेतनत्वात् , कर्तृवदिति, तत्राह -
विधीति ।
अज्ञातसाक्षिणोऽनुपयोगाज्ज्ञातस्य व्याघातकत्वान्न कर्मशेषत्वमित्यर्थः ।
साक्षिणः सर्वशेषित्वादहेयानुपादेयत्वाच्च न कर्मशेषत्वमित्याह -
आत्मत्वादिति ।
प्राभाकरेति ।
प्रकृतसिद्ध्यर्थं प्राभाकरोक्तं दूषयितुमुपन्यस्यतीत्यर्थः । ब्रह्मनास्तिकत्वे तुल्येपि भाट्टमते सिद्धे पदानां शक्तिः प्रभाकरमते तु कार्यान्वितार्थे शक्तिरिति भेदः । कार्यान्वितार्थे शक्तितौल्येपि वृत्तिकारमते ब्रह्मास्तित्वाङ्गीकारेण मतयोर्भेदो विभावनीयः ।
मानाभावादिति ।
ब्रह्मसद्भावे मानाभावादित्यर्थः । अज्ञातस्येत्यनेन वेदस्य प्रामाण्यं सूचितं, फलस्वरूपस्येत्यनेन कार्यशेषत्वाभावः सूचित इति भावः ।
न च प्रवृत्तीति ।
मध्यमवृद्धस्य प्रवृत्तिनिवृत्तिभ्यामित्यर्थः । श्रोतुः मध्यमवृद्धस्येत्यर्थः ।
अनुमायेति ।
व्युत्पित्सुर्बाल इति शेषः । वक्तृवाक्यस्य उत्तमवृद्धवाक्यस्येत्यर्थः ।
श्रोतुरिति ।
वाक्यश्रोता पिता मध्यस्थश्च भवति, तथा च मध्यस्थस्य सिद्धे सङ्गतिग्रहादित्यर्थः । पुत्रस्ते जात इति वाक्यश्रवणकाले पितुः हर्षपूर्वकस्नानाद्याचरणं दृष्ट्वा पुत्रजन्म हर्षपूर्वकस्नानदानाद्याचरणे निमित्तमिति वाक्यश्रोतुर्मध्यस्थस्य बुद्धिर्भवति तेन हेतुना पुत्रस्ते जात इति वाक्यं पुत्रजन्मप्रतिपादकमित्यनेन मधस्थेन निर्णीतमतः प्रथमव्युत्पत्तिग्रहः सिद्धस्थलेपि भवतीति न कार्यान्वित एव पदानां शक्तिः । यत्र तु आख्यातपदान्वयः तत्र तत्प्रयुक्तकार्यान्वयो भासत इत्येतावता अन्यत्रापि आख्यातपदरहितः पुत्रस्ते जात इत्यादौ पदानां कार्यान्वितार्थ एव शक्तिरिति कल्पनायामाग्रहो न युक्त इति भावः ।
पुत्रादिपदानां सिद्धार्थे व्युत्पत्तिं साधयित्वा कार्यान्वितार्थे पदानां शक्तिर्नास्तीत्यत्र हेतुमाह –
कार्यान्वितेति ।
नीलमित्युक्ते किं नीलमित्याकाङ्क्षाया अनुभवसिद्धत्वादन्वितार्थे शक्तिर्वक्तव्येत्यभिप्रायेणोक्तम् –
अन्वितार्थ इति ।
परस्परान्वयविशिष्टार्थ इत्यर्थः । सर्वेषां पदानां सिद्धार्थ एव शक्तिः किन्तु प्रयोजनज्ञानायापेक्षिताव्यवहितसम्बन्धसिद्ध्यर्थमितरपदान्वितमात्रमपेक्षितमित्यन्वितार्थे शक्तिरित्युच्यते लाघवात्तथा च सिद्धस्य ब्रह्मणो वाक्यार्थत्वादुपनिषदर्थता युक्तेति भावः ।
’औपनिषदस्य पुरुषस्यानन्यशेषत्वादिति ’ वस्तुसङ्ग्रहभाष्यं तस्यैव प्रपञ्चः ’योसावुपनिषत्स्वेवाधिगत’ इत्यादिभाष्यमित्यभिप्रेत्य सिद्धस्य वाक्यार्थत्वे हेत्वन्तरपरत्वेन भाष्यमवतारयति –
किञ्चेति ।
उपनिषत्स्वेवाधिगत इत्यनेन भाष्येणाभानादिति पक्षनिराकरणं नास्तित्वादेवेति पक्षनिराकरणं च भवति, अनन्यशेष इत्यनेन तृतीयपक्षनिराकरणमित्यभिप्रेत्याह –
तत्राद्यं पक्षत्रयमिति ।
अनन्यशेषत्वार्थमिति ।
ब्रह्मणः कार्यशेषत्वं नास्तीत्यनन्यशेषत्वं तदर्थमित्यर्थः । तथा हि ब्रह्मणः कार्यशेषत्वं न जीववत्कर्तृकत्वेन वक्तुं शक्यते तस्यासंसारित्वात् , नापि घटादिवत्क्रियापेक्षत्वेन तस्य उत्पाद्यादिचतुर्विधद्रव्यभिन्नत्वात् , नापि प्रयाजादिवदिति कर्तव्यतात्वेन तस्य स्वप्रकरणप्रतिपाद्यत्वात् , तस्मादसंसारित्वादिविशेषणत्रयेणानन्यशेषत्वं ब्रह्मणः सिद्धमिति भावः । वेदान्तेषु स्फुटत्वेन भानादात्मत्वाच्च असौ नास्तीति वदितुं न शक्यमिति भाष्यार्थः ।
चतुर्थं शङ्कत इति ।
चतुर्थपक्षमवलम्ब्यावधारणमसहमानः उपनिषत्स्वेव विज्ञायते इति यत्तत्कथमिति शङ्कत इत्यर्थः । अथवा चतुर्थं चतुर्थपक्षमवलम्ब्येत्यर्थः । ब्रह्मणः लोकसिद्धत्वेन वेदस्य कार्यपरत्वं स्यादिति शङ्कत इति भावः । चतुर्थशङ्का भाष्यस्था शङ्काचतुष्टयं तु भाष्याद्बहिरिति विज्ञेयम् ।
अहंप्रत्ययविषयत्वादिति ।
अहंप्रत्ययविषयत्वेन लोकसिद्धत्वादिति भाष्यार्थः ।
आत्मन इति ।
विशिष्टस्यात्मनः अहन्धीविषयत्वेऽपि अहङ्कारादिदेहपर्यन्तसाक्षिणि केवलात्मन्यहन्धीविषयत्वस्य निरस्तत्वादुपनिषद्वेद्यत्वमेव वक्तव्यमतो न चतुर्थः पक्ष इति भावः ।
विधिकाण्डे तर्कसमये वेति भाष्यस्य तात्पर्यार्थमाह –
तीर्थकारा इति ।
शास्त्रकर्तार इत्यर्थः । अलौकिकत्वमुपनिषेदेकवेद्यत्वम् ।
तत्तन्मत इति ।
अहंप्रत्ययविषयेत्यादिविशेषणेन सर्वस्यात्मा हि विशिष्टभिन्नप्रत्यक्चेत्यनत्वेन मीमांसकैर्नाधिगत इति द्योत्यते किन्तु कर्तृत्वेनाधिगत इत्यर्थः । तत्साक्षीत्यनेन विशेषणेन अहङ्कारादिसाक्षित्वेन बौद्धैरात्मा नाधिगतः किन्तु देहेन्द्रियादिसङ्घातत्वेनाधिगत इति भावः । सर्वभूतस्थ इत्यनेनासद्वादिना हि सत्त्वेनात्मा नाधिगतः किन्त्वसत्त्वेनेत्यर्थः । सम इत्यनेन मध्यमपरिमाणवादिना हि समत्वेनात्मा नाधिगत इति द्योत्यते किन्तु तारतम्येनाधिगत इति भावः । एक इत्यनेन तार्किकैरेकत्वेनात्मा नाधिगतः किन्तु भिन्नत्वेनेत्यर्थः । कूटस्थ इत्यनेन परिमाणवादिना निर्विकारत्वेनात्मा नाधिगतः किन्तु परिमाणरूपविकारवत्त्वेनेत्यर्थः । नित्य इत्यनेन क्षणिकविज्ञानवादिना स्थिरत्वेनात्मा नाधिगतः किन्तु प्रतिक्षणमुत्पत्त्यादिमत्त्वेनाधिगत इत्यर्थः । पूर्णं इत्यनेन विशेषणेन परिच्छिन्नत्वादिना सर्वस्यात्मा व्यापकत्वेन नाधिगत इति द्योत्यते किन्त्वव्यापकत्वेनाधिगत इत्यर्थः । तथा चोक्तविशेषणेन विशिष्टात्मा वेदान्तिभिरेव अधिगत इति भावः ।
साक्षित्वेनाज्ञानदशायां कर्माङ्गत्वमुच्यते किं ज्ञानदशायामिति विकल्प्य आद्यं निराचष्टे –
अज्ञातेति ।
कर्माङ्गत्वानुपयोगादित्यर्थः ।
द्वितीयं दूषयति –
व्याघातकत्वादिति ।
कल्पितसर्वदृश्यसाक्षी अहमित्यद्वैतज्ञानदशायां द्वैतज्ञानाभावेन कर्माङ्गत्वविरोधादित्यर्थः ।