भाष्यरत्नप्रभाव्याख्या
पूर्णानन्दीया
 

अनित्यत्वेनात्मनो हेयत्वमाशङ्क्याह -

सर्वं हीति ।

परिणामित्वेन हेयतां निराचष्टे -

विक्रियेति ।

उपादेयत्वं निराचष्टे -

अत एवेति ।

निर्विकारत्वादित्यर्थः(निर्विकारित्वादित्यर्थः)* । उपादेयत्वं हि साध्यस्य न त्वात्मनः । नित्यसिद्धत्वादित्यर्थः ।

परप्राप्त्यर्थमात्मा हेय इत्यत आह -

तस्मात् , पुरुषान्न परं किञ्चिदिति ।

काष्ठा सर्वस्यावधिः ।

एवमात्मनोऽनन्यशेषत्वात् , अबाध्यत्वात् , अपूर्वत्वात् , वेदान्तेषु स्फुटं भानाच्च(स्फुटभानाच्च)* वेदान्तैकवेद्यत्वमुक्तम् । तत्र श्रुतिमाह -

तं त्वेति ।

तं सकारणसूत्रस्याधिष्ठानं पुरुषं पूर्णं हे शाकल्य, त्वा त्वां पृच्छामीत्यर्थः ।

अत इति ।

उक्तलिङ्गैः श्रुत्या च वेदान्तानामात्मवस्तुपरत्वनिश्चयादित्यर्थः ।

पूर्वोक्तमनुवदति -

यदपीति ।

वेदस्य नैरर्थक्ये शङ्किते तस्यार्थवत्तापरमिदं भाष्यम् -

दृष्टो हीति ।

तत्र ‘फलवदर्थावबोधनम्’ इति वक्तव्ये धर्मविचारप्रक्रमात् ‘कर्मावबोधनम्’ इत्युक्तं नैतावता वेदान्तानां ब्रह्मपरत्वनिरासः । अत एव ‘अनुपलब्धेऽर्थे तत्प्रमाणम्’ इति सूत्रकारो धर्मस्य फलवदज्ञातत्वेनैव वेदार्थतां दर्शयति । तच्चाविशिष्टं ब्रह्मण इति न वृद्धवाक्यैर्विरोध इत्याह -

तद्धर्मेति ।

निषेधशास्त्रस्यापि निवृत्तिकार्यपरत्वमस्ति, तत्सूत्रभाष्यवाक्यजातं कर्मकाण्डस्य कार्यपरत्वाभिप्रायमित्यर्थः । वस्तुतस्तु लिङर्थे कर्मकाण्डस्य तात्पर्यम् , लिङर्थश्च, लोके प्रवर्तकज्ञानगोचरत्वेन कॢप्तं यागादिक्रियागतमिष्टसाधनत्वमेव न क्रियातोऽतिरिक्तं कार्यं तस्य कूर्मलोमवदप्रसिद्धत्वादिति तस्यापि पराभिमतकार्यविलक्षणे सिद्धे प्रामाण्यं किमुत ज्ञानकाण्डस्येति मन्तव्यम् ।

किं च वेदान्ताः सिद्धवस्तुपराः, फलवद्भूतशब्दत्वात् , दध्यादिशब्दवदित्याह -

अपि चेति ।

आशङ्क्येति ।

विज्ञानवादिमतानुसारेणाशङ्क्येत्यर्थः ।

परिणामित्वेनेति ।

परिणामवादिमतमुसृत्यात्मनः परिणामित्वेन हेयत्वमाशङ्क्य निराचष्ट इत्यर्थः ।

परप्राप्त्यर्थमिति ।

परमुत्कृष्टं ब्रह्म तत्प्राप्त्यर्थं मुमुक्षुणा आत्मा हेयस्त्यक्तुं योग्य इति पूर्वपक्षार्थः ।

ब्रह्मत्वादात्मैव परस्तस्मान्न हेय इति परिहरति –

आहेति ।

विकल्पपञ्चकनिरासे उक्तहेतुचतुष्टयमनूह्योत्तरग्रन्थमवतारयति –

एवमात्मन इति ।

स्फुटम्भानादित्यनेन विकल्पद्वयनिरास इति ज्ञेयम् ।

सूत्रस्येति ।

हिरण्यगर्भस्येत्यर्थः ।

भाष्ये प्राभाकरमतनिरासमुपसंहरति –

अतो भूतवस्त्विति ।

अनुक्रमणमिति ।

वेदार्थसङ्ग्राहकवक्यजातमित्यर्थः ।

व्याख्याने -

पर्वोक्तमिति ।

सिंहावलोकनन्यायेन वृत्तिकारमतोक्तमन्यथा उपपादयितुमनुवदतीत्यर्थः । भाष्यमिति शाबरभाष्यमित्यर्थः । सूत्रकारो भगवान् जैमिनिरित्यर्थः ।

तच्चेति ।

फलवदज्ञातत्वेन वेदार्थत्वमित्यर्थः । ब्रह्मणः फलवत्त्वमविद्यानिवृत्तिरूपफलवत्त्वं तन्निवृत्तिस्वरूपत्वं वेति विज्ञेयम् ।

अनुक्रमणशब्दार्थं ज्ञापयितुं तच्छब्दस्य प्रतीकमादायार्थमाह –

तत्सूत्रभाष्यवाक्यजातमिति ।

यानि सूत्रवाक्यानि भाष्यवाक्यानि च तेषां समूह इत्यर्थः ।

कर्मकाण्डस्य कार्यपरत्वमङ्गीकृत्य न ज्ञानकाण्डस्येत्युक्तं सम्प्रति कर्मकाण्डस्यापि न कार्यपरत्वं किन्तु सिद्धपरत्वनेवेत्याह –

वस्तुतस्त्विति ।

प्रवर्तकज्ञानगोचरत्वेनेति ।

यागो मदिष्टसाधनमिति यत्प्रवृत्तिजनकमिष्टसाधनत्वज्ञानं तद्विषयत्वेनेत्यर्थः । क्लृप्तं सिद्धमित्यर्थः ।

एवकारव्यवच्छेद्यमाह –

न क्रियात इति ।

क्रियारूपयागादतिरिक्तापूर्वात्मककार्यं न लिङर्थ इत्यर्थः ।

तस्येति ।

अपूर्वस्येत्यर्थः । प्रवर्तकज्ञानविषयत्वेन सिद्धस्वरूपेष्टसाधनत्वे लिङर्थस्य शक्तिसम्भवेन प्रत्यक्षादिप्रमाणरहिते कूर्मलोमवदप्रसिद्धे साध्ये अपूर्वे तस्य शक्तिकल्पनाया अन्याय्यत्वादिष्टसाधनत्वमेव लिङर्थः नापूर्वं न प्रवर्तना वेति भावः ।

तस्यापीति ।

कर्मकाण्डस्यापीत्यर्थः ।

पराभिमतेति ।

प्राभाकराद्यभिमतेत्यर्थः ।

सिद्ध इति ।

सिद्धस्वरूपेष्टसाधनत्व इत्यर्थः ।

किमुतेति ।

किमु वक्तव्यमित्यर्थः ।

ज्ञानकाण्डः सिद्धवस्तुपरः वेदत्वात्कर्मकाण्डवदित्यनेनानुमानेन सिद्धं वेदान्तानां सिद्धवस्तुपरत्वं मनसि निधायानुमानान्तरेणापि साधयतीत्यवतारयति –

किञ्चेति ।

फलवदिति ।

फलवद्यद्भूतं सिद्धं वस्तु तत्प्रतिपादको यः शब्दस्तत्त्वादित्यर्थः ।