किमक्रियार्थकशब्दानामानर्थक्यमभिधेयाभावः, फलाभावो वा । आद्य आह -
आम्नायस्येति ।
इति न्यायेन एतदभिधेयराहित्यं नियमेनाङ्गीकुर्वतां ‘सोमेन यजेत’ ‘दध्ना जुहोति’ इत्यादि वाक्येषु दधिसोमादिशब्दानामर्थशून्यत्वं स्यादित्यर्थः ।
ननु केनोक्तमभिधेयराहित्यमित्याशङ्क्याह -
प्रवृत्तीति ।
कार्यातिरेकेण भव्यार्थत्वेन कार्यशेषत्वेन दध्यादिशब्दो भूतं वक्ति चेत् , तर्हि सत्यादिशब्दः कूटस्थं न वक्तीत्यत्र को हेतुः, किं कूटस्थस्याक्रियत्वादुताक्रियाशेषत्वाद्वेति प्रश्नः ।
ननु दध्यादेः कार्यान्वयित्वेन कार्यत्वादुपदेशः, न कूटस्थस्याकार्यत्वादित्याद्यमाशङ्क्य निरस्यति -
नहीति ।
दध्यादेः कार्यत्वे कार्यशेषत्वहानिः । अतो भूतस्य कार्याद्भिन्नस्य दध्यादेः शब्दार्थत्वं लब्धमिति भावः ।
द्वितीयं शङ्कते -
अक्रियात्वेऽपीति ।
क्रियार्थः कार्यशेषपरः । कूटस्थस्य त्वकार्यशेषत्वान्नोपदेश इति भावः ।
भूतस्य कार्यशेषत्वं शब्दार्थत्वाय फलाय वा, नाद्य इत्याह -
नैष दोष इति ।
दध्यादेः कार्यशेषत्वे सत्यपि शब्देन वस्तुमात्रमेवोपदिष्टं न कार्यान्वयी शब्दार्थः । अन्वितार्थमात्रे शब्दानां शक्तिग्रहणादित्यर्थः(शक्तिरित्यर्थः)* ।
द्वितीयमङ्गीकरोति -
क्रियार्थत्वं त्विति ।
तस्य भूतविशेषस्य दध्यादेः क्रियाशेषत्वं फलमुद्दिश्याङ्गीक्रियत इत्यर्थः । न तु ब्रह्मण इति तुशब्दार्थः ।
ननु भूतस्य कार्यशेषत्वाङ्गीकारे स्वातन्त्र्येण कथं शब्दार्थतेति, तत्राह -
न चेति ।
फलार्थं शेषत्वाङ्गीकारमात्रेण शब्दार्थत्वभङ्गो नास्ति शेषत्वस्य शब्दार्थतायामप्रवेशादित्यर्थः ।
आनर्थक्यं फलाभाव इति पक्षं शङ्कते -
यदीति ।
यद्यपि दध्यादि स्वतो निष्फलमपि क्रियाद्वारा सफलत्वादुपदिष्टं तथापि कूटस्थब्रह्मवादिनः क्रियाद्वाराभावात्तेन दृष्टान्तेन किं फलं स्यादित्यर्थः ।
भूतस्य साफल्ये क्रियैव द्वारमिति न नियमः, रज्ज्वाः ज्ञानमात्रेण साफल्यदर्शनादित्याह -
उच्यत इति ।
तथैव ।
दध्यादिवदेवेत्यर्थः । दध्यादेः क्रियाद्वारा साफल्यं ब्रह्मणस्तु स्वत इति विशेषे सत्यपि वेदान्तानां सफलभूतार्थकत्वमात्रेण दध्याद्युपदेशसाम्यमित्यनवद्यम् ।
अतदर्थनामित्यस्य व्याख्यानम् -
अक्रियार्थकशब्दानामिति ।
अभिधेयाभाव इति ।
प्रतिपाद्यरूपार्थशून्यत्वमित्यर्थः ।
इति पदस्य प्रतीकमादायार्थं परिष्करोति –
इति न्यायेनेति ।
’आनर्थक्यमतदर्थानामि’त्येतत्सूत्रप्रतिपादितार्थरीत्येति यावत् ।
एतत्पदस्य प्रतीकमादायार्थमाह –
एतदिति ।
नियमेनेति ।
एतत्सूत्रार्थानतिलङ्गनेनेत्यर्थः ।
अङ्गीकुर्वतामिति ।
वृत्तिकाराणामिति शेषः ।
भूतोपदेशानामित्याद्यंशस्यार्थमाह –
सोमेनेति ।
ननु केनोक्तमिति ।
दध्यादिशब्दानामर्थवत्त्वमस्त्विति वदन्तं पूर्ववादिनं प्रति प्रतिबन्द्या परिहारमाहेति भावः ।
प्रवृत्तिनिवृत्तिव्यतिरेकेणेत्यस्यार्थमाह –
कार्यातिरेकेणेति ।
कार्यं विनेत्यर्थः । कार्यमवबोधयित्वापीति यावत् ।
प्रतीकमादायार्थमाह –
भव्यार्थत्वेनेति ।
वक्तीति ।
बोधयतीत्यर्थः । कार्यमवबोधयन् दध्यादिशब्दः कार्याय दध्यादिरूपं सिद्धं वस्तु बोधयतीति चेदिति पूर्वपक्षानुवादः ।
को हेतुरित्यत्र किंशब्दः प्रश्नार्थकः, तथा च हेतुविषयकं प्रश्नं हेतूद्घाटनद्वारा विवृणोति –
किं कूटस्थस्येति ।
कूटस्थस्याक्रियात्वात्सत्यादिशब्दः किं कूटस्थं न वक्तीति पूर्वेणान्वयः, अक्रियात्वादकार्यत्वादित्यर्थः । कार्यभिन्नत्वादिति यावत् । अक्रियाशेषत्वादकार्यशेषत्वादित्यर्थः । प्रश्नः – सिद्धान्तिप्रश्न इत्यर्थः ।
एवं सिद्धान्तिप्रश्ने स्थिते ह्यक्रियात्वान्न वक्तीति पूर्वपक्ष्युत्तरमुत्थापयति –
नन्विति ।
नन्वित्यादिग्रन्थः नहीत्यादिपरिहारभाष्यस्य शङ्काग्रन्थः प्रश्नश्च पूर्वपक्ष्युत्तरप्रतिपादकग्रन्थ इति भेदः ।
कूटस्थाद्वैषम्यमाह –
दध्यादेरिति ।
निरस्यतीति ।
पूर्वपक्षिणोक्तमाद्यं पक्षं सिद्धान्ती निरस्यतीत्यर्थः । पूर्वपक्ष्युत्तरं खण्डयतीति भावः ।
अत इति ।
कार्यशेषत्वेन कार्यत्वाभावादित्यर्थः । यथा दध्यादिशब्दः कार्याद्भिन्नं दध्यादिकं सिद्धं वस्तु वक्ति तथा सिद्धं कार्याद्भिन्नं कूटस्थं सत्यादिशब्दो वक्तीति भावः ।
द्वितीयं शङ्कत इति ।
कूटस्थस्य दध्यादिवैषम्यमुपपादयन् द्वितीयपक्षमुत्थपयतीत्यर्थः । अक्रियाशेषत्वान्न वक्तीति पूर्वपक्षिणा उक्तं प्रश्नस्योत्तरं प्रपञ्चयतीति भावः ।
पूर्वपक्षं पूरयति –
कूटस्थस्य त्विति ।
दध्यादेः कार्यस्वरूपत्वाभावेपि कार्यशेषत्वप्राधान्येन दध्यादिशब्दसिद्धं वस्तु वक्तीति युक्तं ब्रह्मणस्तु कार्यशेषत्वाभावात् तच्छेषत्वप्राधान्येन सत्यादिशब्दः कूटस्थं न वक्तीति युक्तं तस्माद्वैषम्यमिति भावः ।
एवकारपदं व्युत्क्रमेण योजयति –
वस्तुमात्रमेवेति ।
शक्तिमत्त्वविशेषणव्यावृत्त्यर्थं मात्रपदं तेन वस्तु परिशिष्यते तथा च वस्त्वेवोपदिष्टमिति भावः । अथवा मात्रपदं कार्त्स्न्यार्थकं तथा च वस्तुमात्रं वस्तुत्वावच्छिन्नमित्यर्थः ।
एवकारव्यावर्त्यमाह –
न कार्यान्वयीति ।
कार्यशेषत्वविशिष्टः शब्दार्थो न भवतीत्यर्थः । शब्देनार्थ एवोपदिष्टः न कार्यशषत्वविशिष्टत्वविशिष्ट इति भावः ।
शेषत्ववैशिष्ट्यस्य शक्यतावच्छेदककोटौ निवेशो नास्तीत्यत्र हेतुमाह –
अन्वितार्थेति ।
पदानां सिद्धार्थ एव शक्तिः परन्तु शाब्दबोधार्थमपेक्षिततद्विषयसंसर्गलाभाय वस्तुतः परस्परान्वितत्वमात्रमपेक्षितमिति यदुक्तं तन्न विस्मर्तव्यमिति भावः । क्रियानिर्वर्तनशक्तिमद्वस्त्वितिशब्देन वस्त्वेवोपदिश्यते तद्वस्तु वस्तुतः कार्योत्पादनशक्तिमद्भवतीति भाष्यार्थः । एतेन क्रियानिर्वर्तनशक्तिमत्पदस्वारस्यात् कार्यान्वितार्थ एव शक्तिरङ्गीकृतेति भ्रमो निरस्तः । तस्य पदस्य वस्तुस्वरूपमात्रकथनपरत्वेन व्याख्यातत्वादिति भावनीयम् ।
प्रतीकमादाय तच्छब्दार्थमाह –
तस्येति ।
न तु ब्रह्मण इति ।
ब्रह्मणः स्वतः फलरूपत्वेन फलान्तरापेक्षाभावात्फलमुद्दिश्य कार्यशेषत्वं यद्यपि नास्ति तथापि सत्यादिशब्दार्थतास्त्येवेति भावः ।
दध्यादिदृष्टान्ते विरोधं पूर्वपक्षी शङ्कते –
नन्विति ।
भूतस्य दध्यादेरित्यर्थः ।
एतावतेत्यस्यार्थमाह –
फलार्थमिति ।
वस्त्वनुपदिष्टपदस्यार्थमाह –
शब्देति ।
शब्दार्थतायामिति ।
शक्यतावच्छेदककोटावित्यर्थः ।
पक्षं शङ्कत इति ।
द्वितीयपक्षं शङ्कत इत्यर्थः । क्रियाद्वारा सफलभूतार्थप्रतिपादकत्वाद्दध्यादिशब्दानामानर्थक्यं नास्त्येव सत्यादिशब्दानां तु क्रियाद्वारानङ्गीकारेण सफलभूतार्थप्रतिपादकत्वाभावात्कथमानर्थक्यं नास्तीति शङ्कत इति भावः ।
शङ्कां स्फुटीकर्तुं ’यदि नामोपदिष्ट’मित्यादिभाष्यं व्याचष्टे –
यद्यपीति ।
क्रिया द्वारा सफलत्वादिति ।
कार्यशेषत्वद्वारा कार्यरूपफलसहितत्वादित्यर्थः ।
उपदिष्टमिति ।
दध्यादिशब्देनेति शेषः ।
किं तव तेन स्यादित्यंशस्यार्थमाह –
तथापीति ।