इदानीं वेदान्तानां निषेधवाक्यवत्सिद्धार्थपरत्वमित्याह -
अपि चेति ।
नञः प्रकृत्यर्थेन सम्बन्धात् हननाभावो नञर्थः, इष्टसाधनत्वं तव्यादिप्रत्ययार्थः, इष्टश्चात्र नरकदुःखाभावः, तत्परिपालको हननाभाव इति निषेधवाक्यार्थः । हननाभावो दुःखाभावहेतुरित्युक्तावर्थाद्धननस्य दुःखसाधनत्वधिया पुरुषो निवर्तते । नात्र नियोगः कश्चिदिति, तस्य क्रियातत्साधनदध्यादिविषयत्वात् । न च हननाभावरूपा नञ्वाच्या निवृत्तिः क्रिया, अभावत्वात् । नापि क्रियासाधनम् । अभावस्य भावार्थाहेतुत्वाद्भावार्थासत्त्वाच्चेत्यर्थः । अतो निषेधशास्त्रस्य सिद्धार्थे प्रामाण्यमिति भावः ।
विपक्षे दण्डमाह -
अक्रियेति ।
ननु स्वभावतो रागतः प्राप्तेन हन्त्यर्थेनानुरागेण नञः सम्बन्धेन(नञ्सम्बन्धेन)* हेतुना हननविरोधिनी सङ्कल्पक्रिया बोध्यते, सा च नञर्थरूपा तत्राप्राप्तत्वाद्विधीयते, अहननं कुर्यादिति । तथा च कार्यार्थकमिदं वाक्यमित्याशङ्क्य निषेधति -
न चेति ।
औदासीन्यं पुरुषस्य स्वरूपं तच्च हननक्रियानिवृत्त्युपलक्षितं निवृत्त्यौदासीन्यं हननाभाव इति यावत् । तद्व्यतिरेकेण नञः क्रियार्थत्वं कल्पयितुं न च शक्यमिति योजना । मुख्यार्थस्याभावस्य नञर्थत्वसम्भवे तद्विरोधिक्रियालक्षणाया अन्याय्यत्वात् निषेधवाक्यस्यापि कार्यार्थकत्वे विधिनिषेधभेदविप्लवापत्तेश्चेति भावः ।
ननु तदभाववत्तदन्यतद्विरुद्धयोरपि नञः शक्तिः किं न स्यात् , अब्राह्मणः अधर्म इति प्रयोगदर्शनात् । तत्सादृश्यमभावश्च तदन्यत्वं तदल्पता। अप्राशस्त्यं विरोधश्च नञर्थाः षट् प्रकीर्तिताः॥ इत्यनेकार्थत्वादिति चेत्। न।(प्रयोगदर्शनादिति चेन्न)*, अनेकार्थत्वस्यान्याय्यत्वादित्याह -
नञश्चेति ।
गवादिशब्दानां तु अगत्या नानार्थत्वम्(नानार्थकत्वम्)* , स्वर्गेषुवाग्वज्रादीनां शक्यपशुसम्बन्धाभावेन लक्षणानवतारात् । अन्यविरुद्धयोस्तु लक्ष्यत्वं युक्तम् , शक्यसम्बन्धात् । ब्राह्मणादन्यस्मिन् क्षत्रियादौ, धर्मविरुद्धे वा पापे ब्राह्मणाद्यभावस्य नञ्शक्यस्य सम्बन्धात् । प्रकृते च आख्यातयोगान्नञ्प्रसज्यप्रतिषेधक एव न पर्युदासलक्षकः इति मन्तव्यम् । यद्वा नञः प्रकृत्या न सम्बन्धः प्रकृतेः प्रत्ययार्थोपसर्जनत्वात् , प्रधानसम्बन्धाच्चाप्रधानानां किन्तु प्रकृत्यर्थनिष्ठेन प्रत्ययार्थेनेष्टसाधनत्वेन सम्बन्धो नञः, इष्टं च स्वापेक्षया बलवदनिष्टाननुबन्धि यत्तदेव न तात्कालिकसुखमात्रम् , विषसंयुक्तान्नभोगस्यापि इष्टत्वापत्तेः । तथा च ‘न हन्तव्यः’ हननं बलवदनिष्टासाधनत्वे सति इष्टसाधनं न भवतीत्यर्थः । अत्र च ‘हन्तव्यः’ इति हनने विशिष्टेष्टसाधनत्वं भ्रान्तिप्राप्तमनूद्य नेत्यभावबोधने बलवदनिष्टसाधनं हननमिति बुद्धिर्भवति, हनने तात्कालिकेष्टसाधनत्वरूपविशेष्यसत्वेन विशिष्टाभावबुद्धेर्विशेषणाभावपर्यवसानात् । विशेषणं च(चकारो नास्ति)* बलवदनिष्टासाधनत्वमिति तदभावो बलवदनिष्टसाधनत्वं नञर्थ इति पर्यवसन्नम् ।
तद्बुद्धिरौदासीन्यपरिपालिकेत्याह -
अभावेति ।
चोऽप्यर्थः पक्षान्तरद्योती । प्रकृत्यर्थाभावबुद्धिवत्प्रत्ययार्थाभावबुद्धिरपीत्यर्थः ।
बुद्धेः क्षणिकत्वात्तदभावे सत्यौदासीन्यात्प्रच्युतिरूपा हननादौ प्रवृत्तिः स्यादिति, तत्राह(अत्राह)* -
सा चेति ।
यथाग्निरिन्धनं दग्ध्वा शाम्यति एवं सा नञर्थाभावबुद्धिः हननादाविष्टसाधनत्वभ्रान्तिमूलं रागेन्धनं दग्ध्वैव शाम्यतीत्यक्षरार्थः । रागनाशे कुतः(कृते)* प्रच्युतिरिति भावः । यद्वा रागतः प्राप्ता सा क्रिया रागनाशे स्वयमेव शाम्यतीत्यर्थः ।
परपक्षे तु हननविरोधिक्रिया कार्येत्युक्तेऽपि हननस्येष्टसाधनत्वभ्रान्त्यनिरासात्प्रच्युतिर्दुर्वारा । तस्मात्तदभाव एव नञर्थ इत्युपसंहरति -
तस्मादिति ।
भावार्थाभावेन तद्विषयककृत्यभावात्कार्याभावस्तच्छब्दार्थः । यद्वेत्युक्तपक्षे निवृत्त्युपलक्षितमौदासीन्यं यस्माद्विशिष्टाभावायत्तमेवेति व्याख्येयम् । स्वतःसिद्धस्यौदासीन्यस्य नञर्थसाध्यत्वोपपादनार्थं निवृत्त्युपलक्षितत्वमिति ध्येयम् । ‘तस्य बटोर्व्रतम्’ इत्यनुष्ठेयक्रियावाचिव्रतशब्देन कार्यमुपक्रम्य ‘नेक्षेतोद्यन्तमादित्यम्’ इति प्रजापतिव्रतमुक्तम् । अत उपक्रमबलात्तत्र नञ ईक्षणविरोधिसङ्कल्पक्रियालक्षणाङ्गीकृता । एवमगौरसुरा अधर्म इत्यादौ नामधात्वर्थयुक्तस्य नञः प्रतिषेधवाचित्वायोगात् अन्यविरुद्धलक्षकत्वम् । एतेभ्यः प्रजापतिव्रतादिभ्योऽन्यत्राभावमेव नञर्थं मन्यामह इत्यर्थः । दुःखाभावफलके नञर्थे सिद्धे निषेधशास्त्रमानत्ववद्वेदान्तानां ब्रह्मणि मानत्वमिति भावः ।
पुत्रादिपदानां सिद्धेर्थे व्युत्पत्तिदर्शनात्कार्यान्वितापेक्षयान्वितार्थे शक्त्यङ्गीकारे लाघवाच्च चतुर्भिरनन्यशेषत्वाद्युक्तलिङ्गैः श्रुत्या च कार्यशेषत्वनिराकरणद्वारा वेदान्तानामात्मवस्तुपरत्वनिश्चयाच्च कर्मकाण्डस्यापि इष्टसाधनत्वरूपे सिद्धे लिङर्थे तात्पर्यस्य साधितत्वाच्च वेदान्तानां सिद्धब्रह्मपरत्वं साधयित्वा सम्प्रति निषेधवाक्यपर्यालोचनयापि सिद्धपरत्वमेवेत्युत्तरभाष्यमवतारयति –
इदानीमिति ।
निषेधवाक्यवदिति ।
क्रियान्वयाभिधानवादिनापि निषेधवाक्यस्य सिद्धार्थपरत्वं वक्तव्यं तद्वदित्यर्थः ।
भाष्ये
एवमाद्येति ।
एवमादिवाक्येषु प्रतिपाद्येत्यर्थः । आदिशब्देन ’न हन्यान्न पिबेदि’दित्यादिवाक्यं गृह्यते । अत्र निवृत्तिशब्देन हननाभावरूपा नञर्था निवृत्तिरुच्यते सा निवृत्तिर्न च क्रिया - कृतिजन्यकार्यरूपा न भवति अत्यन्ताभावरूपत्वेन सिद्धत्वात् । नापि क्रियासाधनं अभावरूपायाः निवृत्तेः कृतिजन्यकार्यं प्रत्यहेतुत्वात् । अभावप्रत्यक्षे कार्ये विषयत्वेनाभावस्य हेतुत्वात्तद्वारणाय कार्ये कृतिजन्यत्वविशेषणमिति मन्तव्यम् । हन्त्यर्थानुरागेण नञ् इति अत्र तृतीया हेत्वर्थे, अनुरागशब्दः सम्बन्धार्थकः, तथा च हननरूपेण हन्त्यर्थेन सह नञ्सम्बन्धादित्यर्थः । हन्त्यर्थसम्बन्धित्वान्नञ् इति फलितार्थः । क्रियाशब्दः कार्यवचनः हननरूपा या क्रिया तस्याः अभावरूपा या निवृत्तिस्तया उपलक्षितं यदौदासीन्यं तद्व्यतिरेकेणेति उपलक्षितपदमध्याहृत्य भाष्यं योजनीयम् । उपलक्षकत्वं परिपालकत्वं समानकलीनत्वं वेति विज्ञेयम् । उपलक्षितपदस्य कृत्यमनुपदं वक्ष्यते । औदासीन्यं नाम पुरुषस्य स्वरूपं तच्च तूष्णीम्भावः अनादिसिद्धहननप्रागभावो वेति फलितार्थः । यावत्पर्यन्तं पुरुषे हननात्यन्ताभावोस्ति तावत्पर्यन्तं पुरुषनिष्ठतूष्णीम्भावरूपनिवृत्तिः हननप्रागभावो वा तथैव तिष्ठतीत्येतावता नञर्थहननात्यन्ताभावरूपया निवृत्त्या हननप्रागभावरूपमौदासीन्यमुपलक्षितं भवतीत्युच्यते, तेन प्रकृत्यर्थाभावबुद्धिरौदासीन्यकरणमित्युक्तं, तथा च निवृत्तिमात्रमेव नञर्थः तेनैव प्रकृतकार्यार्थकत्ववारणादौदासीन्यं तु नञर्थं साध्यम् । ननु तर्हि औदासीन्यप्रतिपादनं किमर्थमिति चेत् । तस्य प्रतिपादनस्य औदासीन्यं नञर्थफलमिति ज्ञापनार्थत्वात् , तस्मान्निवृत्तिव्यतिरेकेण नञः क्रियार्थकत्वं कल्पयितुं न शक्यमिति भावः । केचित्तु हननक्रियानिवृत्तिरेव औदासीन्यमिति वदन्ति ।
नञश्चेति । बोधयतीति ।
यत् एष नञ्स्वभाव इत्यन्वयः ।
व्याख्याने –
प्रकृत्यर्थेनेति ।
हननेनेत्यर्थः ।
सिद्धं दुःखाभावं प्रति हननाभावस्य हेतुत्वासम्भवादौपचारिकं हेतुत्वमिति मत्वाह –
तत्परिपालक इति ।
परिपालनं रक्षणं तस्य हेतुः परिपालक इत्यर्थः । हननाभावः दुःखाभावस्य यथा स्थितिं करोतीत्येतावता साधनत्वव्यपदेश इति भावः ।
वाक्यार्थमुक्त्वा प्रकृत्यर्थाभावबुद्धिरौदासीन्यस्थापनकारणमिति तात्पर्यार्थमाह –
हननाभावो दुःखेति ।
अर्थादिति ।
व्याप्तिबलादित्यर्थः ।
हननान्निवर्तत इति ।
निवृत्तिः द्विविधा अभावरूपा प्रयत्नविशेषरूपा चेति । नञ्वाच्या अभावरूपा निवृत्तिरुक्ता, तथा च हननाभावो दुःखाभावहेतुरिति प्रकृत्यर्थाभावविशेष्यकबुद्ध्या हनने दुःखसाधनत्वधीद्वारा पुरुषनिष्ठप्रयत्नविशेषरूपा तूष्णीम्भावाख्या निवृत्तिरुत्पद्यते तया अनादिसिद्धहननप्रागभावरूपमौदासीन्यं तथैव स्थाप्यते, तस्मात्प्रकृत्यर्थाभावबुद्धिः परम्परया औदासीन्ये कारणमिति भावः ।
ननु नञर्थेन हननाभावेनैव नियोगः साध्यते ततश्च नियोगपर्यवसितं वाक्यमिति तत्राह –
नात्र नियोग इति ।
नियोगोऽपूर्वमित्यर्थः । नियोगो हि क्रियातत्साधनविषयकः प्रकृते तु नास्ति क्रिया साधनं च येन नियोगस्यावकाश इति भावः ।
ननु यागानुष्ठानादिव नञर्थानुष्ठानान्नियोगोस्तु तथा च अनुष्ठितनञर्थ एव क्रियेत्यत आह –
न चेति ।
भावार्थाहेतुत्वादिति ।
कार्याहेतुत्वादित्यर्थः ।
भावार्थासत्त्वाच्चेति ।
अभावस्य कार्यासत्स्वरूपत्वाच्चेत्यर्थः । अभावो नाम कार्यस्यासत्स्वरूप एव विरोधिस्वरूप एवेति यावत् । तथा च अभावः कार्यं प्रति हेतुर्न भावतीति भावः ।
न चेत्यादिभाष्यस्थपदानि व्याचष्टे –
स्वभावत इति । हन्त्यर्थेनेति - तृतीया सहार्थे ।
सङ्कल्पक्रियेति ।
अप्राप्ता मानसी सङ्कल्पक्रियेत्यर्थः । न चाभावो नाम भावान्तरव्यतिरेकेण कश्चिदस्ति येन तत्पर्यवसितं वाक्यं स्यात्तस्माद्भावान्तरविधिपरं निषेधवाक्यमिति शङ्ककस्याभिप्रायः ।
निषेधतीति ।
न चाभावस्तद्बुद्धिगोचरत्वान्निवर्तयितुं शक्यः । न च भावान्तरमेवाभावः तस्याभावस्य सप्रतियोगित्वात्तस्मात्सिद्धः पृथगेवाभावः स एव नञ्मुख्यार्थ इत्यभिप्रेत्य वाक्यस्य कार्यार्थकत्वं निषेधतीत्यर्थः ।
उपलक्षितपदमध्याहृत्य भाष्यं योजयति –
औदासीन्यमिति ।
पुरुषस्य स्वरूपमिति ।
पुरुषनिष्ठो धर्म इत्यर्थः । तूष्णीम्भावः हननप्रागभावो वा धर्म इति द्रष्टव्यम् । निवृत्त्युपलक्षितं तच्च औदासीन्यं निवृत्त्यौदासीन्यमित्यन्वयः ।
किं द्वयोर्नञर्थता नेत्याह –
हननाभाव इति ।
हननाभाव एव नञर्थः औदासीन्यं तु नञर्थसाध्यमिति भेदः ।
क्रियेति ।
सङ्कल्पात्मिका क्रियेत्यर्थः ।
विप्लवेति ।
नाशेत्यर्थः । विधिप्रतिषेधविभागव्यवहारो न स्यादिति फलितार्थः ।
तदभाववदिति ।
प्रकृते तच्छब्दत्रयेण हननमुच्यते, अधर्म इति च्छेदः ।
ननु अनेकार्थत्वस्यान्याय्यत्वे गोपदस्य स्वर्गवाग्वज्रादिषु शक्तिर्न स्यादित्यत आह –
गवादिशब्दानां त्विति ।
गवादिशब्दानां नानार्थे शक्तिरङ्गीकार्येत्यत्र हेतुमाह –
स्वर्गेति ।
इषुशब्दो बाणवाचकः, गोपदस्य शक्यार्थः पशुः तत्सम्बन्धः स्वर्गदिषु नास्तीति गोपदस्य लक्षणया स्वर्गाद्यर्थकत्वं न सम्भवतीत्यगत्या नानार्थकत्वमेव निश्चीयत इति भावः ।
तर्हि प्रकृतेऽपि दीयतां सैव निश्चयात्मिका दृष्टिरित्याशङ्कां वैषम्येण परिहरति –
अन्येति ।
नञः शक्यार्थः अभावः तत्सम्बन्धोन्यविरुद्धयोरस्तीति नञो लक्षणयान्यविरुद्धार्थकत्वं कल्पयितुमुचितं तस्मात्तयोः न शक्तिरिति भावः ।
लक्ष्यत्वमुदाहृत्य दर्शयति –
ब्राह्मणादिति ।
ननु लिङादिविशिष्टधातुराख्यातपदस्यार्थः, तथा च आख्यातयोगादित्यत्र कथं तस्य आख्यातपदस्य धातुमात्रे प्रयोग इति चेन्न । आख्यातजानि रूपाणीत्यादिवृद्धव्यवहारे आख्यातैकदेशे धातुमात्रेप्याख्यातशब्दप्रयोगस्य दर्शनादित्यभिप्रेत्याह –
प्रकृत इति ।
न हन्तव्य इत्यादिवदित्यर्थः । चस्त्वर्थकः । अथवा लक्षणाया अन्याय्यत्वादिति हेत्वन्तरसमुच्चयार्थश्चशब्दः । आख्यातयोगादाख्यातैकदेशधातुयोगादित्यर्थः । यद्वेति – द्वितीयव्याख्याने नञ् न धातुयोगः किन्तु आख्यातैकदेशप्रत्यययोग इति भावः ।
प्रसज्येति ।
प्रसक्तेत्यर्थः । हननमिष्टसाधनमेवेति भ्रान्त्या प्रसक्तहनननिषेधार्थकः नञ्शब्द इत्यर्थः ।
एवकारव्यावर्त्यमाह –
न पर्युदासलक्षक इति ।
न विरुद्धसङ्कल्पक्रियालक्षक इत्यर्थः । नञ्शब्दो लक्षणया विरुद्धसङ्कल्पक्रियार्थको न भवतीति भावः ।
प्रकृत्यर्थस्य हननस्यैव नञ्शब्दान्वयमङ्गीकृत्य तदभावोर्थान्तरं वा न विधेयमित्युक्तमिदानीं स्वयमेवास्वरसं सूचयन्प्रत्ययार्थ एव नञ् सम्बध्यत इति व्याख्यानान्तरमाह –
यद्वेति ।
ननु भवतु प्रकृतेरुपसर्जनत्वं तथापि प्रकृत्या सह नञ्सम्बन्धः स्यादित्यत आह –
प्रधानेति ।
प्रत्ययार्थः प्रधानं तेनैव सम्बन्धो वक्तव्य इति भावः ।
तदेतदाह –
किं त्विति ।
इष्टस्य विशेषणमाह –
इष्टं चेति ।
स्वापेक्षयेति ।
इष्टापेक्षयेत्यर्थः । बलवत् यदनिष्टं तदननुबन्धि तदसम्बन्धीत्यर्थः ।
बलवदनिष्टासाधनत्वे सतीष्टसाधनत्वं तव्यप्रत्ययार्थ इति स्फुटीकर्तुं इष्टविशेषणेन पर्यवसितमिष्टसाधनत्वस्य विशेषणं कथयन्नन्वयमाह –
अत्रेति ।
विशिष्टेति ।
विशिष्टं च तत् इष्टसाधनत्वं चेति कर्मधारयः, तथा च हननं बलवदनिष्टासाधनं सत् इष्टसाधनमिति हनने बलवदनिष्टासाधनत्वविशिष्टेष्टसाधनत्वं भ्रान्तिप्राप्तमनूद्येत्यर्थः ।
बलवदनिष्टसाधनं हननमिति बुद्धिर्भवतीति यत्तत्कथमित्यत आह –
हनने तावदिति ।
अत्र हनने विशिष्टेष्टसाधनत्वमनूद्य नेत्यभावबोधनेन प्राप्तो विशिष्टाभावो विशेषणाभावायत्त इत्याह –
विशिष्टाभावेति ।
विशेषणविशिष्टस्याभावः तद्बुद्धेर्विषेणाभावे पर्यवसानादित्यर्थः । हनने बलवदनिष्टसाधनत्वस्य सत्त्वात् तात्कालिकेष्टसाधनत्वरूपविशेष्यस्य सत्त्वाच्च बलवदनिष्टासाधनत्वरूपाविशेषणाभावादेव बलवदनिष्टासाधनत्वविशिष्टेष्टसाधनत्वाभावो वक्तव्य इति विशिष्टाभावो नञर्थ इत्यनेन विशेषणाभाव एव पर्यवसानान्नञर्थ इत्युक्तमिति भावः ।
किं तद्विशेषणमिति जिज्ञासायामाह –
विशेषणं चेति ।
बलवदनिष्टसाधनत्वं नञर्थ इति बलवदनिष्टसाधनत्वशरीरप्रविष्टाभावांशो नञर्थ इत्युक्तमिति भावः । बलवदनिष्टासाधनत्वं नाम बलवदनिष्टसाधनत्वाभावः, तस्य तव्यप्रत्ययार्थैकदेशस्य विशेषणस्य योऽभावः नञर्थरूपः सन् बलवदनिष्टसाधनत्वरूप एव अभावाभावस्य भावरूपत्वात् , तथा च चरमाभावांशमादाय बलवदनिष्टसाधनत्वं नञर्थ इति भावः ।
परिपालिकेति ।
रक्षणहेतुरित्यर्थः ।
प्रकृत्यर्थाभावबुद्धिवदिति ।
यथा हननाभावबुद्धिरौदासीन्ये कारणं तथा विशेषणविशिष्टविशेष्यं तव्यप्रत्ययार्थस्तदभावो नञर्थः तद्बुद्धिरौदासीन्ये कारणमित्यर्थः । प्रथमव्याख्याने हननाभावो दुःखाभावहेतुरिति प्रकृत्यर्थाभावविशेष्यकदुःखाभावहेतुत्वप्रकारकबुद्ध्या हननं दुःखसाधनमिति अर्थात् ज्ञानमुत्पद्यते तेन ज्ञानेन हननस्य इष्टसाधनत्वभ्रान्तिनिवृत्तिद्वारा हननात्पुरुषो निवर्तते इति प्रयत्नरूपा निवृत्तिरुत्पद्यते तया सिद्धमौदासीन्यं हननप्रागभावरूपं तथैव तिष्ठतीति प्रकृत्यर्थाभावबुद्धिरौदासीन्ये कारणमिति व्यपदिश्यते । द्वितीयव्याख्याने तु हननं बलवदनिष्टसाधनमिति हननविशेष्यकप्रत्ययार्थैकदेशस्य भावप्रकारकबुद्ध्या हनने विशिष्टेष्टसाधनत्वभ्रान्तिनाशद्वारा हननात्पुरुषो निवर्तते इति प्रयत्नरूपा निवृत्तिरुत्पद्यते तया हननप्रागभावरूपमौदासीन्यं सिद्धं तथैव तिष्ठति तस्मात्प्रत्ययार्थाभावबद्धिरौदासीन्ये कारणमिति व्यपदिश्यत इति निष्कृष्टार्थः । प्रथमव्याख्यानेऽनिष्टसाधनत्वमार्थिकतया बोध्यते द्वितीये तु प्रत्ययनञ्शब्दाभ्यां बोध्यते इति भेदः । प्रथमे इष्टसाधनत्वमात्रं तव्यप्रत्ययार्थः तेनैव उक्तरीत्या औदासीन्यनिर्वाहात् , द्वितीये बलवदनिष्टासाधनत्वविशिष्टसाधनत्वं तव्यप्रत्ययार्थ इति भेदः ।
औदासीन्यात्प्रच्युतिरूपेति ।
औदासीन्यनाशरूपेत्यर्थः । यदा पुरुषस्य हनने प्रवृत्तिस्तदा हननप्रागभावनाशो भवतीति प्रागभावनाशरूपा प्रवृत्तिरिति भावः ।
ननु नञर्थाभावबुद्धिनाशोक्त्या शङ्कायाः कः परिहार इत्यत आह –
इत्यक्षरार्थ इति ।
तात्पर्यार्थेन शङ्कां परिहरति –
रागनाश इति ।
अक्षरार्थेन शङ्कां परिहर्तुं व्याख्यानान्तरमाह –
यद्वेति ।
सा क्रियेति ।
हनने प्रवृत्तिरूपा क्रियेत्यर्थः । अनिष्टसाधनत्वज्ञानेन रागनाशात् स्वयमेव क्रिया शाम्यतीति भावः ।
परपक्षे त्विति ।
निषेधवाक्यस्य कार्यपरत्वपक्ष इत्यर्थः ।
’तस्मात्प्रसक्तक्रियानिवृत्त्यौदासीन्यमेवे’त्याद्युपसंहारभाष्यार्थं सङ्गृह्णाति –
तस्मात्तदभाव एव नञर्थ इति ।
तस्मान्नञर्थकार्यार्थकत्वाभावादित्यर्थः । तदभावः तयोरभाव इति विग्रहः, तयोः प्रकृत्यर्थप्रत्ययार्थयोरभाव एव इत्यनेन प्रसक्तक्रियेत्यादिभाष्यार्थ इति, नञर्थ इत्यनेन प्रतिषेधार्थ इति भाष्यार्थश्च सङ्गृहीत इति भावः । एवकारो तदन्यतद्विरुद्धव्यवच्छेदार्थकः ।
ननु हननाभावं इष्टसाधनमिति ज्ञानस्य जायमानत्वेन विधेयत्वात् कथं निषेधवाक्यस्य कार्यार्थकत्वं नास्तीत्यत आह –
भावार्थाभावेनेति ।
विधेयार्थभावेनेत्यर्थः । मानसं तु ज्ञानं प्रमाणप्रमेयजन्यं न कृतिजन्यकार्यं तस्मान्न कार्यपरत्वं वाक्यस्येति भावः ।
प्रसक्तक्रियानिवृत्त्यौदासीन्यं यस्माद्विशिष्टाभावायत्तं तस्माद्विशिष्टाभावमेव ’ब्राह्मणो न हन्तव्य’ इत्यादिषु प्रतिषेधार्थं मन्यामह इत्यपेक्षितपदान्यध्याहृत्य उपसंहारभाष्यं व्याख्येयमित्याह –
यद्वेति ।
यद्वा नञ्प्रकृत्येत्युक्तपक्ष इत्यर्थः ।
यस्मादिति ।
नञ्कार्यार्थकत्वाभावादित्यर्थः ।
औदासीन्यं विशिष्टाभावसाध्यमेव न कार्यसाध्यं कार्यस्याभावादित्यभिप्रेत्योक्तं -
विशष्टाभावायत्तमिति ।
यद्वेति – द्वितीयव्याख्याने बलवदनिष्टासाधनत्वविशिष्टेष्टसाधनत्वं तव्यप्रत्ययार्थ इत्युक्तं तथा च विशिष्टस्य प्रत्ययार्थस्य यः अभावः तेनायत्तं सम्पादितमित्यर्थः । निवृत्त्युपलक्षितमौदासीन्यं यस्मान्नञ्कार्यार्थकत्वाभावाद्विशिष्टाभावायत्तमेव न कार्यायत्तं तस्मान्नञ्कार्यार्थकत्वाभावेन औदासीन्यस्य विशिष्टाभावायत्तत्वाद्विशिष्टाभाव एव नञर्थ इति पदजातमध्याहृत्य उपसंहारवाक्यं यद्वेति पक्षे व्याख्येयमिति फलितार्थः । औदासीन्यं हि नञर्थायत्तं तस्य विशिष्टाभावायत्तं चेद्विशिष्टाभाव एव नञर्थ इति पर्यवसितमिति भावः । एतेन प्रथमपक्षोक्तप्रकृत्यर्थाभाव एवोपसंहृतः न प्रत्ययार्थाभावः द्वितीयपक्षोक्तः वाक्यस्य तद्बोधकत्वाभावादिति निरस्तम् । अध्याहारेण वाक्यस्य प्रत्ययार्थाभावबोधकत्वेनापि व्याख्यातत्वादिति सुधीभिर्विभावनीयम् ।
ननु प्रथमव्याख्याने हननाभावः द्वितीये विशिष्टाभावो नञर्थश्चेत्तत्साध्यमौदासीन्यं भवत्येव किमुपलक्षितत्वविशेषणेनेत्यत आह –
स्वतःसिद्धस्येति ।
अत्राभावारूपा निवृत्तिः नञर्थः प्रकृत्यर्थाभावबुद्धौ प्रकृत्यर्थाभावस्य नञर्थस्य हेतुत्वं विद्यते प्रमायाः वस्तुतन्त्रत्वात्तद्बुद्धिद्वारा प्रयत्नरूपनिवृत्तिं प्रति हेतुत्वं नञर्थस्य निवृत्तिद्वारा हेतुत्वमौदासीन्यं प्रति तस्मान्नञर्थसाध्यत्वमौदासीन्यस्येति भावः । एवं प्रत्ययार्थाभावबुद्धौ विज्ञेयम् । नन्वनादिसिद्धस्य प्रागभावरूपस्यौदासीन्यं कथं तत्साध्यत्वमिति चेत् । साध्योपरागेणेति ब्रूमः । तथाहि यदा हि पुरुषे प्रयत्नविशेषरूपा निवृत्तिस्तदा हननप्रागभाव इत्यन्वयव्याप्तिबलात्सामानाधिकरण्येन सम्बन्धेन सिद्धस्य निवृत्तिरूपसाध्यसम्बन्धित्वमित्येतावता साध्यत्वमौपचारिकमित्यनवद्यम् ।
ननु ’नेक्षेतोद्यन्तमादित्यमि’त्यादौ ईक्षणविरोधिनी मानसीसङ्कल्पक्रिया नेक्षेतेति विधीयते यथा तथा ’न हन्यादिति’ हननविरोधिनी मानसी सङ्कल्पक्रिया एव विधीयतामित्यत आह –
तस्य बटोरिति ।
प्राजापत्यसंज्ञकं व्रतमित्यर्थः । तस्य बटोर्व्रतमिति गुरुशुश्रूषयाद्यनुष्ठेयक्रियारूपकार्योपक्रमात्तु विरोधिसङ्कल्पक्रियायां नञ्शब्दस्य लक्षणा अङ्गीकृता तद्वदत्र किं नापवादकं किञ्चिदस्ति येन विरोधिक्रियायां लक्षणामङ्गीकृत्य सा विधेयतेति भावः ।
नामधात्वर्थेति ।
’अगौरसुरा’ इत्यादौ नामार्थयुक्तत्वं ’नेक्षेते’त्यत्र धार्थत्वयुक्तत्वमिति विवेकः ।
’प्रजापतिव्रतादिभ्योऽन्यत्र ब्राह्मणो न हन्तव्य’ इत्यादिषु प्रतिषेधार्थं मन्यामह इति भाष्ययोजनामभिप्रेत्य व्याचष्टे –
एतेभ्य इति ।
अन्यत्र अन्येषु ब्राह्मणो न हन्तव्य इत्यादिष्वित्यर्थः । ननु ’ न हन्यादि’त्यादौ धात्वर्थयोगे सति नञः कथमभावार्थकत्वं ’नामधात्वर्थयोगे तु नैव नञ्प्रतिषेधक’ इति वचनविरोधात् । अत्रोच्यते । वचनस्यायमभिप्रायः – यत्रापवादकमस्ति तत्र नामधत्वर्थयोगेपि स नैवाभावर्थको नञ् भवतीति, अत एव ’नेक्षेतोद्यन्तमादित्यमि’त्यत्र कार्योपक्रमस्यापवादकस्य सत्त्वान्नञो नाभावार्थकत्वं किन्तु ईक्षणविरोधिसङ्कल्पक्रियाकत्वं ’न हन्यादि’त्यादौ तु कस्यचिदप्यपवादकस्याभावान्नञः अभावार्थकत्वमेव युक्तमिति श्रीविवरणाचार्यैर्बहुधा प्रपञ्चितम् , तस्माद्वचनविरोधाभावा’न्न हन्यादि’त्यादौ धात्वर्थाद्यन्वितोपि नञ् प्रतिषेधार्थक एवेति भावः ।