भाष्यरत्नप्रभाव्याख्या
पूर्णानन्दीया
 

अत्राहुः ।

प्राभाकरा इत्यर्थः । भ्रान्त्यभावाद्देहसम्बन्धादिकं सत्यमिति भावः ।

भेदज्ञानाभावान्न गौण इत्याह -

नेति ।

प्रसिद्धो ज्ञातो वस्तुनोर्भेदो येन तस्य गौणमुख्यज्ञानाश्रयत्वप्रसिद्धेरित्यर्थः । यस्य तस्य पुंसो गौणौ भवत इत्यन्वयः । शौर्यादिगुणविषयावित्यर्थः ।

तस्य त्विति ।

भेदज्ञानशून्यस्य पुंस इत्यर्थः ।

शब्दप्रत्ययाविति ।

शब्दः शाब्दबोधश्चेत्यर्थः ।

संशयमूलौ तावुदाहरति -

यथा मन्देति ।

यदा संशयमूलयोर्न गौणत्वं तदा भ्रान्तिमूलयोः किं वाच्यमित्याह -

यथा वेति ।

अकस्मादिति ।

अतर्कितादृष्टादिना संस्कारोद्बोधे सतीत्यर्थः । निरुपचारेण गुणज्ञानं विनेत्यर्थः ।

देहादिव्यतिरिक्तात्मास्तित्ववादिनामिति(देहादिव्यतिरिक्तात्मवादिनामिति)*

देहात्मवादिनां तु प्रमेत्यभिमान इति भावः ।

जीवन्मुक्तौ प्रमाणमाह -

तथा चेति ।

तत्तत्र जीवन्मुक्तस्य देहे । यथा दृष्टान्तः अहिनिर्ल्वयनी सर्पत्वक् वल्मीकादौ प्रत्यस्ता निक्षिप्ता मृता सर्पेण त्यक्ताभिमाना वर्तते, एवमेवेदं विदुषा त्यक्ताभिमानं शरीरं तिष्ठति । अथ तथा त्वचा निर्मुक्तसर्पवदेवायं देहस्थोऽशरीरः विदुषो देहे सर्पस्य त्वचीवाभिमानाभावादशरीरत्वादमृतः प्राणितीति प्राणो जीवन्नपि ब्रह्मैव, किं तद्ब्रह्म तेजः स्वयञ्ज्योतिरानन्द एवेत्यर्थः । वस्तुतोऽचक्षुरपि बाधितचक्षुराद्यनुवृत्त्या(बाधितचक्षुराद्यनिवृत्या)* सचक्षुरिवेत्यादि योज्यम् ।

इत्यनवद्यमिति ।

ब्रह्मात्मज्ञानान्मुक्तिलाभात्सिद्धं वेदान्तानां प्रामाण्यम् , हितशासनाच्छास्त्रत्वं च निर्दोषतया स्थितमित्यर्थः ।

ब्रह्मज्ञानमुद्दिश्य श्रवणवन्मनननिदिध्यासनयोरप्यवान्तरवाक्यभेदेन विध्यङ्गीकारान्न ब्रह्मणो विधिशेषत्वमुद्देश्यज्ञानलभ्यतया प्राधान्यादित्याह -

नेति ।

श्रवणं ज्ञानकरणवेदान्तगोचरत्वात्प्रधानम् , मनननिदिध्यासनयोः प्रमेयगोचरत्वात्तदङ्गत्वम् , नियमादृष्टस्य ज्ञान उपयोगः सर्वापेक्षान्यायादिति मन्तव्यम् ।

भाष्ये – ये तु देहादावात्माभिमानो न मिथ्या किन्तु आत्मीयत्वगुणयोगाद्गौणः माणवकादौ सिंहाद्यभिमान इतीवेति वदन्ति तन्मतं दूषयितुं उपन्यस्यति –

तत्राहुरिति ।

आत्मीयत्वगुणं ज्ञापयति –

आत्मीयेति ।

आत्मीयत्वं आत्मसम्बन्धित्वं तच्चात्मसम्बन्ध एव स च द्विनिष्ठत्वाद्गुण इति भावः । अत्र देहोऽहमिति भासमानत्वं वा गुण इति विज्ञेयम् ।

सङ्ग्रहवाक्यं विवृणोति –

यस्य हि प्रसिद्ध इति ।

यस्य चैत्रस्य मैत्रसिंहयोर्भेदः प्रसिद्ध इत्यर्थः ।

ततश्चान्य इति ।

मुख्यात् सिंहादन्यो मैत्र इत्यर्थः ।

तस्येति ।

चैत्रस्येत्यर्थः ।

तस्मिन् पुरुषे इति ।

सिंहादन्यस्मिन्मैत्रनामके पुरुष इत्यर्थः । सिंहादन्यो मैत्रो मैत्रादन्यः सिंह इति परस्परभेदज्ञानवतश्चैत्रस्य सिंहे सिंहशब्दप्रत्ययौ मुख्यौ मैत्रे तु तौ शौर्यादिगुणयोगाद्गौणौ भवतः तदा चैत्रस्य गौणमुख्यज्ञानाश्रयत्वं गौणादिज्ञानहेतोर्भेदज्ञानस्य सत्त्वादिति भावः ।

न गौणाविति ।

भेदज्ञानरूपहेतोरभावादिति भावः ।

संशयहेतुमाह –

मन्देति ।

द्विकोटिकमुदाहृत्य एककोटिकस्थलमुदाहरति –

यथा वेति ।

कथं गौणाविति ।

आत्मानात्मनोर्भेदज्ञानाभावेन हेतोरभावादिति भावः । आत्मानात्मविवेकिनामपि श्रवणमननकुशलतामात्रपण्डितानामित्यर्थः । अनुत्पन्नतत्त्वसाक्षात्काराणामिति यावत् ।

अजावीति ।

अविरजाविशेषः स्त्रीरूपः ।

अविविक्ताविति ।

आत्मानात्मविवेकिनोत्पद्यमानावित्यर्थः ।

निश्चिताविति ।

विषयनिश्चितत्वापादकावित्यर्थः ।

व्याख्याने – ननु भ्रान्तेरुचितकारणजन्यत्वात्कथमकस्मादिति कारणं विनैव जातत्वमुच्यत इत्याशङ्क्य दृष्टरूपायाः रजतैकपक्षपातिन्याः भ्रमसामग्र्याः असम्भवाददृष्टाद्यपेक्षत्वमकस्माच्छब्देन विवक्षितमाह –

अतर्कितादृष्टादिनेति ।

भ्रमरूपकार्योत्पत्तेः पूर्वं प्रमाणेनानिश्चितत्वमदृष्टस्य अतर्कितत्वम् । एतेन कार्यैकोन्नेयमदृष्टमित्युक्तं भवति । आदिशब्देन ’सदृशादृष्टचिन्ताद्याः स्मृतिबीजस्य बोधका’ इति श्लोकोक्तचिन्तादिकमुच्यते । तथा च दृष्टकारणस्य रजतकोट्येकपक्षपातिनः निरूपयितुमशक्यत्वाददृष्टादिकमेव तदसाधारणं कल्प्यते, अदृष्टस्य कार्यैकोन्नेयतया यथार्थकार्यमेव तत्कल्प्यते, एतदभिप्रायेणैव अदृष्टस्य अतर्कितत्वविशेषणं दत्तमिति भावः । दृष्टरूपायाः रजतैकपक्षपातिभ्रमसामग्र्याः निरूपयितुमशक्यत्वं बहुधा ब्रह्मविद्याभरणे श्रीगुरुचरणैः प्रपञ्चितमिह विस्तरभयादुपरम्यते । प्राणितीति प्राण – इत्यतः प्राक्तनो ग्रन्थः स्फुटार्थः ।

प्राणशब्दास्य फलितार्थमाह –

जीवन्नपीति ।

’पश्वादिभिश्चाविशेषादिति’ भाष्यव्याख्यानावसरे बाधिताध्यासानुवृत्त्या ह्यपरोक्षज्ञानिनां व्यवहार इति समन्वयसूत्रे वक्ष्यत इत्युक्तम् तदत्र भाष्यार्थकथनद्वारा द्योतयित्वा श्रुत्यर्थकथनद्वारा स्फुटयति –

वस्तुत इति ।

समन्वयसूत्रार्थोपसंहारव्याजेन तत्सूत्रप्रथमवर्णकार्थं स्फोरयति –

ब्रह्मात्मज्ञानादिति ।

अवान्तरवाक्यभेदेनेति ।

’मन्तव्यो निदिध्यासितव्य’ इत्यवान्तरवाक्यभेदेनेत्यर्थः । ’आत्मा वा अरे द्रष्टव्यः’ इत्यादिकमत्र महावाक्यमिति विज्ञेयम् ।

श्रवणमिति ।

ब्रह्मात्मविषयकशाब्दज्ञाने कारणत्वेन वेदान्तरूपशब्दस्य प्राधान्यं तद्गोचरत्वेन श्रवणज्ञानकरणं सत्प्रधानमित्यर्थः ।

नियमेति ।

नियमविधिपक्षे वेदान्तवाक्यैरेव श्रवणं कर्तव्यमित्याकारकनियमस्यादृष्टद्वारा ज्ञाने उपयोगः, तथा चोद्देश्यत्वादज्ञानं सर्वप्रधानं भवति श्रवणापेक्षया वेदान्तशास्त्रं तु प्रधानं मननापेक्षया श्रवणं तु प्रधानं भवतीति भावः । इयांस्तु विशेषः । श्रवणं प्रति मननादिकं अङ्गं ज्ञानं प्रति नियमाद्यदृष्टं कारणमिति ।

सर्वापेक्षेति ।

’सर्वापेक्षा च यज्ञादिश्रुतेरश्ववदिति ’ भगवतः श्रीवेदव्यासस्य सूत्रम् । तस्यार्थः । विद्यायाः स्वोत्पत्तौ सर्वेषां आश्रमकर्मणां अपेक्षास्ति । कुतः ? यज्ञादिश्रुतेः सर्वकर्मणां ज्ञानसाधनत्वबोधिकायाः ’तमेतं वेदानुवचनेन’ इत्यादिश्रतेरित्यर्थः ।

ननु विद्यायाः स्वोत्पत्तौ परम्परया कर्मापेक्षावत् मोक्षेपि तदपेक्षास्त्वित्यत आह –

अश्ववदिति ।

यथा अश्वो योग्यताबलाद्रथचर्यायां नियुज्यते न लाङ्गलकर्मणि तदभावात् तद्वत्कर्मणां मोक्षे योग्यताया अभावान्नापेक्ष्यत इत्यर्थः । तथा च ज्ञानोत्पत्तौ नियमादृष्टं कारणं न मोक्षोत्पत्तावयोग्यत्वादित्यत्र सर्वापेक्षान्याय उपपादित इति मन्तव्यम् ।