भाष्यरत्नप्रभाव्याख्या
पूर्णानन्दीया
 

फलितमाह -

अत इति ।

यतो वृद्धा एवमाहुः, अतो विधिनिषेधवाक्यमेव शास्त्रम् । अर्थवादादिकं तु तच्छेषतयोपक्षीणम् । तेन कर्मशास्त्रेण सामान्यं शास्त्रत्वम् । तस्माद्वेदान्तानां कार्यपरत्वेनैव अर्थवत्त्वं स्यादित्यर्थः ।

ननु वेदान्तेषु नियोज्यस्य विधेयस्य चादर्शनात्कथं कार्यधीरिति । तत्राह -

सति चेति ।

ननु धर्मब्रह्मजिज्ञासासूत्रकाराभ्यामिह काण्डद्वयेऽर्थभेद उक्तः, एककार्यार्थत्वे शास्त्रभेदानुपपत्तेः । तत्र काण्डद्वये जिज्ञास्यभेदे सति फलवैलक्षण्यं वाच्यम् । तथा च न मुक्तिफलाय ज्ञानस्य विधेयता, मुक्तेर्विधेयक्रियाजन्यत्वे कर्मफलादविशेषप्रसङ्गादविशेषे जिज्ञास्यभेदासिद्धेः । अतः कर्मफलविलक्षणत्वान्नित्यसिद्धमुक्तेस्तद्व्यञ्जकज्ञानविधिरयुक्त इति शङ्कते(आशङ्कते)* -

नन्विहेति ।

मुक्तेः कर्मफलाद्वैलक्षण्यमसिद्धमिति तदर्थं ज्ञानं विधेयम् ।

न च तर्हि सफलं कार्यमेव वेदान्तेष्वपि जिज्ञास्यमिति तद्भेदासिद्धिरिति वाच्यम् , इष्टत्वात् । न च ब्रह्मणो जिज्ञास्यत्वसूत्रविरोधः, ज्ञानविधिशेषत्वेन सूत्रकृता ब्रह्मप्रतिपादनादिति परिहरति -

नार्हत्येवमिति(नेति )*

ब्रह्मणो विधिप्रयुक्तत्वं स्फुटयति -

आत्मा वा इति ।

‘ब्रह्म वेद’ इत्यत्र ब्रह्मभावकामो ब्रह्मवेदनं कुर्यादिति विधिः परिणम्यत इति द्रष्टव्यम् । लोकं ज्ञानस्वरूपम् ।

वेदान्तानेवार्थतो दर्शयति -

नित्य इति ।

ननु किं विधिफलमिति तदाह -

तदुपासनादिति ।

प्रत्यग्ब्रह्मोपासनात् ‘ब्रह्मविदाप्नोति परम्’ इति शास्त्रोक्तो मोक्षः स्वर्गवल्लोकाप्रसिद्धः फलमित्यर्थः ।

ब्रह्मणः कर्तव्योपासनाविषयकविधिशेषत्वानङ्गीकारे बाधकमाह -

कर्तव्येति ।

विध्यसम्बद्धसिद्धबोधे प्रवृत्त्यादिफलाभावाद्वेदान्तानां वैफल्यं स्यादित्यर्थः । नन्विति शङ्का स्पष्टार्था ।

दृष्टान्तवैषम्येण परिहरति -

स्यादिति ।

एतदर्थवत्वम् एवं चेत्स्यादित्यर्थः ।

एवंशब्दार्थमाह -

यदिति ।

किञ्च यदि ज्ञानादेव मुक्तिस्तदा श्रवणजन्यज्ञानानन्तरं मननादिविधिर्न स्यात् , तद्विधेश्च कार्यसाध्या मुक्तिरित्याह -

श्रोतव्य इति ।

शब्दानां कार्यान्वितशक्तेः, प्रवृत्त्यादिफलस्यैव शास्त्रत्वात् , सिद्धे फलाभावात् , मननादिविधेश्च कार्यपरा वेदान्ता इति पूर्वपक्षमुपसंहरति -

तस्मादिति ।

’तच्छेषतयान्यदुपयुक्तमि’ति भाष्यार्थमाह –

अर्थवादादिकन्त्विति ।

तत्सामान्यादिति ।

पदद्वयस्यार्थमाह –

तेनेति ।

शास्त्रत्वधर्मेण कर्मशास्त्रतुल्यत्वाद्वेदान्तानां कार्यपरत्वेनैवार्थवत्त्वमिति भावः ।

भाष्ये –

ब्रह्मज्ञानमिति ।

ज्ञानमुपसनमित्यर्थः । तथा च ज्योतिष्टोमवाक्ये यथा स्वर्गकामो नियोज्यः यागो विधेयः, तथा वेदान्तेऽपि मोक्षकामो नियोज्यः अहं ब्रह्मास्मीति प्रत्यगभिन्नब्रह्मोपासनं च विधेयमस्तीति कार्यपरत्वं युक्तमिति भावः ।

व्याख्याने

शङ्कते इति ।

ज्ञाने नोपासनं किन्तूपासनातिरिक्तं तच्च न विधेयमित्यभिप्रायेण सिद्धान्ती शङ्कत इति भावः ।

ज्ञानविधिशेषत्वेनेति ।

ज्ञानमुपासनमित्यर्थः ।

विधिप्रयुक्तत्वमिति ।

उपासनाविधिशेषत्वमित्यर्थः ।

’स विजिज्ञासितव्य’ इत्यादौ विधिप्रतीतावपि ब्रह्म वेदेत्यादौ विधिः न प्रतीयत इत्यत आह –

ब्रह्म वेदेति ।

वेदनमुपासनमित्यर्थः ।

शास्त्रोक्त इति ।

शास्त्रबलान्नित्य इत्युक्त इत्यर्थः । ब्रह्मोपासनादपूर्वद्वाराऽज्ञाननिवृत्त्या सगुणमोक्षो भवति न ज्ञानादिति भावः ।

चेच्छब्दमध्याहरति –

चेदिति ।

एवंशब्देति ।

एवंशब्दचेच्छब्दयोरर्थमाहेत्यर्थः ।

शब्दानां कार्यान्वितेति ।

अन्वितत्वं विशिष्टत्वमिति मन्तव्यम् ॥