वेदान्ता न विधिपराः स्वार्थे फलवत्वे सति नियोज्यविधुरत्वात् , नायं सर्प इति वाक्यवत् । ‘सोऽरोदीत्’ ‘स्वर्गकामो यजेत’ इति वाक्ययोर्निरासाय हेतौ विशेषणद्वयमिति सिद्धान्तयति -
अत्रेति ।
यदुक्तं मोक्षकामस्य नियोज्यस्य ज्ञानं विधेयमिति, तन्नेत्याह -
नेति ।
मोक्षो न विधिजन्यः, कर्मफलविलक्षणत्वात् , आत्मवदित्यर्थः ।
उक्तहेतुज्ञानाय कर्मतत्फले प्रपञ्चयति -
शारीरमित्यादिना यथावर्णितं(यथेति नास्ति्)* संसाररूपमनुवदति इत्यन्तेन ।
अथ वेदाध्ययनानन्तरम् , अतो - वेदस्य फलवदर्थपरत्वात् , धर्मनिर्णयाय कर्मवाक्यविचारः कर्तव्य इति सूत्रार्थः ।
न केवलं धर्माख्यं कर्म किन्तु अधर्मोऽपीत्याह -
अधर्मोऽपीति ।
निषेधवाक्यप्रमाणकत्वादित्यर्थः(-प्रमाणत्वादित्यर्थः)* ।
कर्मोक्त्वा फलमाह -
तयोरिति ।
मोक्षस्तु अतीन्द्रियो विशोकः शरीराद्यभोग्यो विषयाद्यजन्योऽनात्मवित्स्वप्रसिद्ध इति वैलक्षण्यज्ञापनाय(वैलक्षण्यज्ञानाय)* प्रत्यक्षत्वादीनि(प्रत्यक्षादीनि)* विशेषणानि ।
सामान्येन कर्मफलमुक्त्वा धर्मफलं पृथक्प्रपञ्चयति -
मनुष्यत्वादीति ।
‘स एको मानुष आनन्दः’(तै॰उ॰ २-८-१) ततः शतगुणो गन्धर्वादीनामिति श्रुतेरनुभवानुसारित्वमनुशब्दार्थः ।
ततश्च ।
सुखतारतम्यादित्यर्थः । मोक्षस्तु निरतिशयः, तत्साधनं च तत्वज्ञानमेकरूपमिति वैलक्षण्यम् ।
किं च साधनचतुष्टयसम्पन्न एकरूप एव मोक्षविद्याधिकारी, कर्मणि तु नानाविध इति वैलक्षण्यमाह -
धर्मेति ।
गम्यते न केवलं किं तु प्रसिद्धं चेत्यर्थः । अर्थित्वं फलकामित्वम् । सामर्थ्यं लौकिकं पुत्रादि । आदिपदाद्विद्वत्त्वं शास्त्रानिन्दितत्वं च ।
किं च कर्मफलं मार्गप्राप्यम् , मोक्षस्तु नित्याप्त इति भेदमाह -
तथेति ।
उपासनायां चित्तस्थैर्यप्रकर्षादर्चिरादिमार्गेण ब्रह्मलोकगमनं ‘तेऽर्चिषम्’(छा॰उ॰ ४-१५-५) इत्यादिना श्रूयत इत्यर्थः ।
‘अग्निहोत्रं तपः सत्यं वेदानां चानुपालनम् ।
आतिथ्यं वैश्वदेवं च इष्टमित्यभिधीयते ॥
वापीकूपतडागादि देवतायतनानि च ।
अन्नप्रदानमारामः पूर्तमित्यभिधीयते ॥
शरणागतसन्त्राणं भूतानां चाप्यहिंसनम् ।
बहिर्वेदि च यद्दानं दत्तमित्यभिधीयते ॥ ’
तत्रापि ।
चन्द्रलोकेऽपीत्यर्थः । सम्पतति गच्छति अस्माल्लोकादमुं लोकमनेनेति सम्पातः कर्म । यावत्कर्म भोक्तव्यं तावत्स्थित्वा पुनरायान्तीत्यर्थः ।
मनुष्यत्वादूर्ध्वङ्गतेषु सुखस्य तारतम्यमुक्त्वा अधोगतेषु तदाह -
तथेति ।
यत्फलं तत् प्रवृत्तिनिवृत्तिजन्यमिति पूर्वपक्ष्यभिमतव्याप्तिरप्रयोजका प्रवृत्त्याद्यजन्यस्य सिद्धज्ञानजन्यस्य कर्मफलविलक्षणस्य विद्वदनुभवसिद्धस्य सर्वानर्थनिवृत्तिरूपस्य फलस्य सम्भवादित्यभिप्रेत्य परहरतीति भाष्यमवतारयति –
नियोज्येति ।
नियोज्यः नियोगकर्ता तत्प्रतिपादकत्वाभावादित्यर्थः । अथवा विधेयप्रतिपादकत्वाभावादित्यर्थः ।
निरासायेति ।
व्यभिचारवारणायेत्यर्थः । साध्याभाववति हेतोर्वृत्तित्वं व्यभिचारः ’सोरोदि’ति वाक्ये विधेयप्रतिपादकत्वाभावरूपहेतोः सत्वात् साक्षाद्विध्येकवाक्यतापन्नतया वाक्यस्य कार्यबोधकत्वेन साध्याभावस्य सत्त्वाच्च व्यभिचार इति विशेषणदलं फलवत्त्वसत्त्वेपि स्वार्थे फलवत्त्वरूपहेतोरभावात् न व्यभिचारः । ज्योतिष्टोमवाक्ये विशेषणदलस्य हेतोः सत्त्वाद्वाक्यस्य कार्यबोधकत्वेन साध्याभावस्य सत्त्वाच्च व्यभिचारस्तद्वारणाय विशेष्यदलं विधेयकबोधकत्वेन विशिष्टहेतोरभावान्न व्यभिचार इति भावः ।
नियोज्यस्येति ।
नियोज्यस्य मोक्षकामस्य ब्रह्मज्ञानमित्यर्थः ।
आत्मवदिति ।
प्रत्यगात्मवदित्यर्थः । ’ न कर्म ब्रह्मविद्याफलयोर्वैलक्षण्यादि’ति श्रीभाष्याकारस्य वस्तुसङ्ग्राहकवाक्यमेतत् । तस्यैव प्रपञ्चः ’अतो न कर्तव्यशेषत्वेन ब्रह्मोपदेशो युक्त’ इत्यन्तं भाष्यम् ।
’तत्र वर्णितं संसारमनुवदती’त्यन्तं भाष्यं कर्मतत्फलप्रतिपादकं ’ब्रह्मोपदेशो युक्त’ इत्यन्तं भाष्यं तु तद्वैलक्षण्यप्रतिपादकमिति प्रधानोपसर्जनभावेन विभागमभिप्रेत्य भाष्यमवतारयति –
उक्तहेत्विति ।
कर्मफलवैलक्षण्यादिति हेत्वित्यर्थः ।
धर्मजिज्ञासेति सूत्रस्थधर्मपदमधर्मोपलक्षणमिति सूत्रतात्पर्यं स्फुटीकरोतीति भाष्यमवतारयति –
न केवलमिति ।
जिज्ञास्यमिति शेषः ।
परिहारायाधर्मोपि जिज्ञास्य इत्यत्र भाष्योक्तहेतुं व्याख्याति –
निषेधेति ।
कर्मोक्त्वेति ।
धर्माधर्मरूपकर्मोक्त्वेत्यर्थः ।
भाष्ये –
यद्विषया जिज्ञासेति ।
यद्धर्माधर्मविषया जिज्ञासेत्यर्थः । अथातो धर्मजिज्ञासा अधर्मजिज्ञासा चेति यद्विषया जिज्ञासा सुत्रिता तयोर्धर्माधर्मयोः फलं सुखदुःखे स्थावरान्तरेषु प्रसिद्धे इत्यर्थः । लक्षणपदं प्रमाणपरम् । मनुष्यत्वादारभ्येति । मनुष्यादारभ्येत्यर्थः ।
अनुश्रूयत इति ।
श्रुत्यानुभूयत इत्यर्थः । ’स एको मानुष आनन्द’ इत्यादिश्रुत्या सुखतारतम्यमनुभूयत इति भावः ।
प्रसिद्धत्वमेवोपपादयति –
अर्थित्वेति ।
विद्यासमाधीति ।
विद्यापदमुपासनापरम् , तथा च विद्यारूपो यः समाधिविशेषः ध्यानविशेषः तस्माद्धेतोरित्यर्थः इति केचित् ।
उपासनाविशिष्टकर्मिणामुत्तरमार्गेण गमनमिति मार्गतारतम्यमुपपादयति –
केवलैरिति ।
उपासनारहितपुरुषकृतैः कर्मभिरित्यर्थः ।
इष्टापूर्तेति ।
’अन्येषामपि दृश्यत’ इति व्याकरणसूत्रेणेष्टापूर्तेत्यत्र दीर्घो वेदितव्यः । अन्येषामपि लक्ष्याणां प्रयोगानुसारेण पूर्वपदान्तस्य दीर्घो दृश्यते इति सूत्रार्थः ।
प्रतिषेधचोदनालक्षणस्येति ।
निषेधवाक्यप्रमाणकस्येत्यर्थः ।
उपादानेति ।
ग्रहणेत्यर्थः ।
तथा च श्रुतिरिति ।
यथा वर्णितं तथैव “न ह वै सशरीरस्य सतः प्रियाप्रिययोरपहतिरस्ती’त्याकारकश्रुतिश्च संसाररूपं तारतम्यमनुवदतीत्यन्वयः ।
व्याख्याने –
विशोक इति ।
विषयेन्द्रियजन्यसुखस्याप्यनित्यत्वाच्छोकत्वमेव, तथा च ’सुखदुःखे’त्यनेन भाष्येण मोक्षे विशोकत्वविशेषणं ज्ञापितमिति भावः ।
ब्रह्मादिस्थावरान्तेष्विति –
भाष्यस्य व्याख्यानमनात्मवस्त्विति ।
विशेषणानिति ।
पञ्चविशेषणानीत्यर्थः ।
कर्मफलमुक्त्वेति ।
धर्माधर्मफलमुक्त्वेत्यर्थः ।
पृथगिति ।
विशेषणेत्यर्थः । प्रथमत इति शेषः ।
मनुष्यलोकादूर्ध्वलोकेषु शरीराणां सुखाधिक्यं दुःखस्याल्पत्वं मनुष्यलोकेषु सुखदुःखयोः समत्वं मनुष्यलोकादधोलोकेषु दुःखाधिक्यं सुखाल्पतेति विभागमभिप्रेत्य तस्यापि तारतम्येन भवितव्यमिति धर्मतारतम्यमुपपादयतीत्याह –
स एको मानुष इत्यादिना ।
अनुशब्देति ।
अनुश्रूयत इत्यत्रानुशब्दार्थ इति विज्ञेयम् ।
इति वैलक्षण्यमिति ।
इतिशब्दो हेत्वर्थकः, साधनादिवैलक्षण्यात् फलवैलक्षण्यमिति भावः ।
शास्त्रानिन्दितत्वं चेति ।
यागाधिकारित्वस्य निन्दितत्वादनिन्दितत्वमधिकारिविशेषणमिति भावः ।
’विद्यासमाधिविशेषादि’ति भाष्यस्यार्थमाह –
उपासनायामिति ।
इष्टापूर्तदत्तानि व्याचष्टे –
अग्निहोत्रमित्यादिना ।
बहिर्वैदि चेति ।
क्रत्वङ्गभिन्नमित्यर्थः ।
अस्माल्लोकादिति ।
मनुष्यलोकादित्यर्थः ।
उषित्वेति पदस्यार्थमाह –
स्थित्वेति ।