इदानीं दुःखतद्धेतुतदनुष्ठायिनां तारतम्यं वदन्नधर्मफलं प्रपञ्चयति -
तथोर्ध्वेति(तथोर्ध्वमिति)* ।
द्विविधं कर्मफलं मोक्षस्य तद्वैलक्षण्यज्ञानाय प्रपञ्चितमुपसंहरति -
एवमिति ।
अस्मिताकामक्रोधभयान्यादिशब्दार्थः । ‘ते तं भुक्त्वा स्वर्गलोकं विशालम्’(भ०गी० ९-२१) इत्याद्या स्मृतिः । काष्ठोपचयाज्ज्वालोपचयदर्शनात् , फलतारतम्येन साधनतारतम्यानुमानं न्यायः ।
श्रुतिमाह -
तथाचेति ।
मोक्षो न कर्मफलम् , कर्मफलविरुद्धातीन्द्रियत्वविशोकत्वशरीराद्यभोग्यत्वादिधर्मवत्वात् , व्यतिरेकेण स्वर्गादिवदिति न्यायानुग्राह्यां श्रुतिमाह -
अशरीरमिति ।
वावेत्यवधारणे । तत्त्वतो विदेहं सन्तमात्मानं वैषयिके सुखदुःखे नैव स्पृशत इत्यर्थः ।
मोक्षश्चेदुपासनारूपधर्मफलम् , तदेव प्रियमस्तीति तन्निषेधायोग इत्याह -
धर्मकार्यत्वे हीति ।
ननु प्रियं नाम वैषयिकं सुखं तन्निषिध्यते, मोक्षस्तु धर्मफलमेव, कर्मणां विचित्रफलदानसामर्थ्यादिति(विचित्रदानसामर्थ्यादिति)* शङ्कते -
अशरीरत्वमेवेति ।
आत्मनो देहासङ्गित्वमशरीरत्वम् , तस्यानादित्वान्न कर्मसाध्यतेत्याह -
नेति ।
अशरीरं स्थूलदेहशून्यम् , देहेष्वनेकेषु अनित्येषु एकं नित्यमवस्थितम् , महान्तं व्यापिनम् ।
आपेक्षिकमहत्त्वं वारयति -
विभुमिति ।
तमात्मानं ज्ञात्वा धीरः सन् शोकोपलक्षितं संसारं नानुभवतीत्यर्थः ।
सूक्ष्मदेहाभावे श्रुतिमाह -
अप्राण इति ।
प्राणमनसोः क्रियाज्ञानशक्त्योर्निषेधात् , तदधीनानां कर्मज्ञानेन्द्रियाणां निषेधो हि यतः, अतः शुद्ध इत्यर्थः । देहद्वयाभावे श्रुतिः ‘असङ्गो हि’(बृ॰उ॰ ४-३-१५) इति ।
निर्देहात्मस्वरूपमोक्षस्यानादिभावत्वे सिद्धे फलितमाह -
अत एवेति ।
नित्यत्वेऽपि परिणामितया धर्मकार्यत्वं मोक्षस्येत्याशङ्क्य नित्यं द्वेधा विभजते -
तत्र किञ्चिदिति ।
नित्यवस्तुमध्य इत्यर्थः । परिणामि च तन्नित्यं चेति परिणामिनित्यम् ।
आत्मा तु कूटस्थनित्य इति न कर्मसाध्य इत्याह -
इदं त्विति ।
परिणामिनो नित्यत्वं प्रत्यभिज्ञाकल्पितं मिथ्यैव । कूटस्थस्य तु नाशकाभावान्नित्यत्वं पारमार्थिकम् ।
अविद्यादिमान् यः शरीरतारतम्येन सुखदुःखान्यतरसम्बन्धीति व्याप्तिं भाष्यगर्भितां स्फुटत्वादुपेक्ष्य यस्तारतम्येन फलसम्बन्धीति व्याप्तावग्निवदिति दृष्टान्तं ज्ञापयन्ननुमानमाह –
काष्ठोपचयादिति ।
लक्षणया उपचयशब्दस्य तारतम्यमर्थः । अयं तारतम्येन साधनवान् तारतम्येन फलवत्त्वात् अग्निवदिति प्रयोगः ।
’तदुपासनाच्च शास्त्रदृष्टोऽदृष्ट’ इत्यादिभाष्येण मोक्षः उपासनाकर्मफलमिति यदुक्तं तद्दूषणपरं भाष्यमवतारयति –
मोक्षो न कर्मफलमिति ।
संसारवर्णनेन ज्ञापितं हेतुमाह –
कर्मफलविरुद्धेति ।
विशोकत्वादिकं पृथक्पृथगेव हेतुरिति मन्तव्यम् ।
व्यतिरेकेणेति ।
यत्र कर्मफलत्वं तत्र विशिष्टहेत्वभावः यथा स्वर्गादिवदिति भावः ।
वावेत्यस्यार्थं कथयन् व्यवहितेनान्वयमाह –
नैवेति ।
विपक्षे बाधकप्रतिपादकं भाष्यमवतारयति –
मोक्षश्चेदिति ।
तदेवेति ।
मोक्षस्वरूपं धर्मफलमेवेत्यर्थः । प्रियं सुखमित्यर्थः ।
तन्निषेधेति ।
सुखस्पर्शननिषेधो न सम्भवतीति पूर्ववादिनं प्रत्याहेत्यर्थः ।
नन्विति ।
धर्मफलं द्विविधं, तथाहि – वैषयिकसुखहेतुत्वेन तत्सुखसम्बन्धिरूपं धर्मफलमेकं यथा स्वर्गादि, तथा च स्वर्गादिजनितं सुखं श्रुत्या निषिध्यते तस्मान्न सुखस्पर्शननिषेधायोगः । अपरं धर्मफलमशरीरत्वरूपं तच्च पर्यवसानतया शरीराद्यभावः । स तु ध्वंसवत् नित्योपि जन्यश्च, स एव मोक्षः श्रुतिबलात् कर्मणां विचित्रशक्तित्वेन विचित्रफलदानसामर्थ्याच्चेति पूर्ववादी शङ्कत इति भावः ।
आत्मन इति ।
अशरीरत्वं भावरूपमथो न त्वभावरूपो ध्वंसवैलक्षण्याद्दृष्टान्तवैषम्यमिति सिद्धान्त्यभिप्रायः ।
अशरीरात्मस्वरूपस्य मोक्षस्यानादित्वे भावत्वे च प्रमाणत्वेनोदाहृतां श्रुतिं व्याचष्टे –
अशरीरमिति ।
’महान्तं विभुमिति’ पदद्वयस्य पौनरुक्त्याशङ्कां वारयितुमवतारयति –
आपेक्षिकमिति ।
सावधिकमित्यर्थः । अनवस्थेष्ववस्थितमित्यनेनानादित्वमितरांशेन भावत्वमिति विज्ञेयम् । ’ब्रह्म वेद ब्रह्मैव भवति, विद्ययामृतमश्नुते, ब्रह्मसंस्थोऽमृतत्वमेति, अथायमशरीरोऽमृतः प्राणो ब्रह्मैवे’त्यादिश्रुतिभिर्दर्शितस्य ब्रह्मात्मत्वाशरीरत्वामृतत्वलक्षणस्य मोक्षस्य सादित्वेऽन्तवत्त्वं स्यात् । न चेष्टापत्तिरिति वाच्यम् । अन्तवत्त्वादनित्यत्वेन पुनरावृत्तौ पुनर्बन्धान्मोक्षस्योपचरितार्थत्वप्रसङ्गात्तथा चोक्तश्रुत्या उपचरितार्थत्वापादनरूपन्यायेन चानादिभावस्य मोक्षस्य नित्यसिद्धत्वप्रतीतेः नोपासनाक्रियारूपधर्मफलत्वमिति सिद्धान्तार्थः । नित्यं द्विविधं परिणामिनित्यं कूटस्थनित्यं चेति । ननु नित्यवस्तुमध्ये यस्मिन् वस्तुनि परिणममाने सति तदेव इदमिति प्रत्यभिज्ञाप्रमाणबलात् सिद्धं परिणामनित्यत्वमेव मोक्षस्य स्यात् , तथा च यत् परिणामिनित्यं तत्कार्यमिति व्याप्तिर्यथा पृथिव्यादि तद्वन्मोक्षस्य धर्मकार्यत्वं च स्यात् इति चेत् । उच्यते – यत् परिणामिनित्यं तत्सावयवमिति व्याप्तिः यथा पृथिव्यादि । तथा च श्रुत्युक्तस्य स्वाभाविकाशरीरामृतब्रह्मलक्षणस्य मोक्षस्य निरवयवत्वान्न परिणामिनित्यत्वं किन्तु कूटस्थनित्यत्वमेव ।
किञ्च परिणामिनित्यत्वं कल्पितं कूटस्थनित्यत्वन्तु श्रुतेः स्वाभाविकत्वान्नाशकाभावाच्च पारमार्थिकमित्यभ्युपगम्यते ततो न परिणामिनित्यत्वं मोक्षस्य तस्मान्नोपासनाकर्मकार्यत्वमित्येतमर्थं स्फुटीकर्तुं भाष्यमवतारयति –
नित्यत्वेपीत्यादिना ।
भाष्ये –
किञ्चिदिति ।
किञ्चिद्वस्त्वस्तीत्यर्थः ।
न विहन्यत इति ।
अप्रतिहता जन्यत इति यावत् । यस्मिन् वस्तुनि परिणममाने सति तदेव वस्त्विदमिति प्रत्यभिज्ञारूपबुद्धिरप्रतिहता जन्यते तत्किञ्चिद्वस्तु प्रत्यभिज्ञाप्रमाणकं परिणामिनित्यं स्यादिति पूर्वेणान्वयः । यथा पृथिव्यादि परिणामिनित्यं यथा च सत्त्वादिगुणत्रयविशिष्टं प्रधानं प्रकृतिशब्दवाच्यं परिणामिनित्यं तद्वदित्यर्थः ।
योऽहं बाल्येपि तथान्वभूवं सोहं वृद्धोस्मीत्यवस्थारूपधर्मभेदेपि धर्म्यैक्यविषयकप्रत्यभिज्ञाबलात्परिणामिनित्यं तार्किकाभिमतं शरिरादिकमादिशब्देनोच्यते –
यत्र धर्माधर्माविति ।
यस्मिन्धर्माधर्मौ नोपावर्तेते कालत्रयं च नोपावर्तते तदशरीरत्वमित्यन्वयः ।
तेन कर्तव्येनेति ।
कर्तव्येनोपासनेनापूर्वद्वारा साध्यो मोक्ष इत्यभ्युपगम्येत अभ्युपगम्यते चेदित्यर्थः ।
फलितमाह –
तत्रैवं सतीति ।
अनित्योपि मोक्षः अनित्येषु कश्चिद्विलक्षण इत्यत्र इष्टापत्तिं वारयति –
नित्यश्चेदिति ।