भाष्यरत्नप्रभाव्याख्या
पूर्णानन्दीया
 

कूटस्थत्वसिध्यर्थं परिस्पन्दाभावमाह -

व्योमवदिति ।

परिणामाभावमाह -

सर्वविक्रियारहितमिति ।

फलानपेक्षित्वान्न फलार्थापि क्रियेत्याह -

नित्यतृप्तमिति ।

तृप्तिरनपेक्षत्वम् , विशोकं सुखं वा । निरवयवत्वान्न क्रिया । तस्य भानार्थमपि न क्रिया, स्वयञ्ज्योतिष्ट्वात् । अतः कूटस्थत्वान्न कर्मसाध्यो मोक्ष इत्युक्तम् ।

कर्मतत्कार्यासङ्गित्वाच्च तथेत्याह -

यत्रेति ।

कालानवच्छिन्नत्वाच्चेत्याह -

कालेति ।

कालत्रयं च नोपावर्तत इति योग्यतया सम्बन्धनीयम् ।

धर्माद्यनवच्छेदे मानमाह -

अन्यत्रेति ।

अन्यदित्यर्थः । कृतात्कार्यात् , अकृताच्च कारणात् , भूताद्भव्याच्च, चकाराद्वर्तमानाच्च अन्यद्यत्पश्यसि तद्वदेत्यर्थः ।

ननु उक्ताः श्रुतयो ब्रह्मणः कूटस्थासङ्गित्वं वदन्तु, मोक्षस्य नियोगफलत्वं किं न स्यादिति, तत्राह -

अत इति ।

तत्कैवल्यं ब्रह्मैव । कर्मफलविलक्षणत्वादित्यर्थः । ब्रह्माभेदान्मोक्षस्य कूटस्थत्वं धर्माद्यसङ्गित्वं चेति भावः । यद्वा यज्जिज्ञास्यं(तज्जिज्ञास्यं)* तद्ब्रह्म अतः पृथग्जिज्ञास्यत्वाद्धर्माद्यस्पृष्टमित्यर्थः । अतः शब्दाभावपाठेऽप्ययमेवार्थः । ब्रह्मणो विधिस्पर्शे शास्त्रपृथक्त्वं न स्यात् , कार्यविलक्षणानधिगतविषयालाभात् । नहि ब्रह्मात्मैक्यं भेदप्रमाणे जाग्रति विधिपरवाक्याल्लब्धुं शक्यम् । न वा तद्विना विधेरनुपपत्तिः । योषिदग्न्यैक्योपास्तिविधिदर्शनादिति भावः ।

अथवा मोक्षस्य नियोगासाध्यत्वे फलितं सूत्रार्थमाह -

अत इति ।

यदत्र जिज्ञास्यं ब्रह्म तत्स्वतन्त्रमेव वेदान्तैरुपदिश्यते । समन्वयादित्यर्थः ।

विपक्षे दण्डं पातयति -

तद्यदीति ।

तत्रैवं सतीति ।

मोक्षे साध्यत्वेनानित्ये सतीत्यर्थः ।

व्याख्याने पञ्चभिर्विशेषणैः कूटस्थत्वं साधयतीत्यभिप्रेत्य भाष्यमवतारयति –

कूटस्थत्वसिद्ध्यर्थमित्यादिना ।

परिणामेति ।

षड्भावविकारराहित्यमभिप्रेत्य प्रकृतत्वात्परिणामाभावपरत्वेन भाष्यं योजयतीति भावः ।

निरवयवत्वादिति ।

निरवयत्वादेवोक्तगमनादिक्रियापि नास्तीति भावः ।

न कर्मेति ।

उपासनारूपकर्मेत्यर्थः ।

कर्मेति ।

धर्माधर्माख्यं कर्मेत्यर्थः ।

तथेत्याहेति ।

उपासनातज्जन्यापूर्वसाध्यत्वं मोक्षस्य नास्तीत्याहेत्यर्थः ।

कालानवच्छिन्नत्वादिति ।

कालासम्बन्धित्वादित्यर्थः ।

धर्माद्यनवच्छेद इति ।

धर्माद्यसम्बन्धित्व इत्यर्थः ।

’अन्यत्रेति’ पदं विभक्तिव्यत्यासेन योजयति –

अन्यदिति ।

ब्रह्मातिरिक्तो मोक्ष इत्यभिप्रायेण शङ्कते –

नन्विति ।

तच्छब्दस्य कैवल्यार्थकत्वं कथयन् भाष्यं योजयति –

तत्कैवल्यमिति ।

अतःशब्दार्थमाह –

कर्मेति ।

तथा च मोक्षस्य न नियोगफलत्वमिति परिहारार्थः । अस्मिन् व्याख्याने यत्पूर्वोक्तमशरीरत्वरूपं तत्कैवल्यं ब्रह्मैवेति यत्पदमध्याहृत्य भाष्यं योजनीयम् । न च यस्य कैवल्यस्येयं जिज्ञासा प्रस्तुता तत्कैवल्यं ब्रह्मैवेत्यन्वयस्य युक्तत्वात्किमध्याहारेणेति वाच्यम् । ब्रह्मज्ञानेच्छायाः प्रस्तुतत्वेपि मोक्षज्ञानेच्छायां अप्रस्तुतत्वात् ।

ननु तर्हि यस्येयं जिज्ञासेति यच्छब्दस्यान्वयः स्यादिति चेन्न । ’तद्यदि कर्तव्यशेषतये’त्युत्तरभाष्यस्थतच्छब्देनान्वयसम्भवात्तथा च यत्पदमध्याहर्तव्यमित्यस्वरसात् व्याख्यानान्तरमाह –

यद्वेति ।

’यस्य ब्रह्मणो जिज्ञासा प्रस्तुता तद्ब्रह्मेति’ भाष्यान्वयमर्थतः स्फुटीकरोति –

यज्जिज्ञास्यमिति ।

तच्छब्दस्य कैवल्यार्थकत्वभ्रमं वारयति –

तद्ब्रह्मेति ।

प्रतीकमादायातःशब्दार्थमाह –

अतः पृथगिति ।

’अथातो ब्रह्मजिज्ञासे’त्यादिना शास्त्रेण जिज्ञास्यत्वादित्यर्थः ।

असंस्पृष्टमिति ।

असम्बन्धीत्यर्थः । प्रथमव्याख्याने अतस्तदित्यादिभाष्यं मोक्षस्य नियोगफलत्वशङ्कानिरासप्रतिपादकं द्वितीये तु ब्रह्मणो धर्माद्यसंस्पृष्टत्वहेतुप्रतिपादकमिति भेदः । द्वितीयव्याख्याने यस्येयं जिज्ञासेति यच्छब्दस्य पूर्वोत्तरस्थतच्छब्दाभ्यामन्वयो वेदितव्यः ।

ब्रह्म धर्माद्यसंस्पृष्टं पृथक् जिज्ञास्यत्वात् व्यतिरेकेण स्वर्गवदित्यनुमानं तस्मिन्नप्रयोजकत्वशङ्कानिरासार्थमनुकूलतर्कमाह –

ब्रह्मणो विधिस्पर्श इति ।

अहं ब्रह्मास्मीत्यारोप्यैक्यविषयकोपासनाविधिशेषत्वेन ब्रह्मणः विधिसम्बन्धित्वे इत्यर्थः । उपासनयाः कार्यरूपत्वेन कार्यविलक्षणानधिगतविषयाभावाद्वेदान्तशास्त्रस्य कर्मशास्त्रापेक्षया पृथक्त्वं न स्यात्तथा च प्रथमसूत्रेण ब्रह्मणः पृथग्जिज्ञास्यत्वानुपपत्तिरिति भावः ।

ननु ब्रह्मणः विधिशेषत्वेपि विधिपरात्सत्यादिवाक्यात् ब्रह्मात्मैक्यस्य उपासनाविषयस्य ज्ञातुं शक्यत्वात् कार्यविलक्षणानधिगतब्रह्मात्मैक्यरूपविषयलाभेन वेदान्तानां पृथक्शास्त्रत्वकथनं युक्तमित्यत आह –

न हीति ।

नाहमीश्वर इति भेदप्रामाण्यस्य जागरूकत्वात् न ब्रह्मात्मैक्यं ज्ञातुं शक्यम् विधिपरवाक्यस्य अप्राधान्येन ब्रह्मात्मैक्यबोधकतया दुर्बलत्वात्तथा च शास्त्रपृथक्त्वकथनं व्यर्थमिति भावः ।

ननु प्रत्यगभिन्नब्रह्मोपासनाविधेः वास्तवं ब्रह्मात्मैक्यमन्तरानुपपन्नत्वात्तदावश्यकं, तथा चाहं ब्रह्मास्मीति प्रधानविधिवाक्येनैव विषयलाभात् शास्त्रपृथक्त्वं युक्तमित्याशङ्क्य वास्तवैक्यं विनैवारोपितैक्यविषयकभ्रमात्मकज्ञानादेव तदुपासनायाः सम्भवेन तद्विधेरुपपत्तेः न तदपेक्षेपि परिहरति –

न वेति ।

तद्विनेति ।

वास्तैक्यं विनेत्यर्थः ।

आरोपितैक्यविषयकभ्रमात्मकज्ञानादुपासनाद्वारा विधेरुपपत्तिः क्व दृष्टेत्याशङ्क्य ’योषा वाव गौतमाग्निरि’त्यत्र दृष्टेत्याह –

योषिदिति ।

प्रकृते ऐक्योपासनां प्रति ऐक्यारोपः आरोप्यैक्यं वा हेतुः न वास्तवैक्यमिति भावः ।

स्वपक्षे सूत्रस्वारस्यज्ञापनाय योजनान्तरमाह –

अथवेति ।

सूत्रार्थमिति ।

’तत्तु समन्वयादिति’ सूत्रस्यार्थमित्यर्थः ।

’अथातो ब्रह्मजिज्ञासे’ति सूत्रेण जिज्ञास्यं ब्रह्म यद्ब्रह्म तदेव ’तत्तु समन्वयादि’त्यत्र तच्छब्दार्थ इति भाष्यभावं स्फुटीकुर्वन्नन्वयमाविष्करोति –

यदत्रेति ।

अतःशब्दार्थमाह –

समन्वयादिति ।

ब्रह्मणः स्वातन्त्र्येणोपदेशानङ्गीकारे अथातो ब्रह्मोपासानाजिज्ञासेति सूत्रं स्यान्न त्वेवमस्ति तस्माद्ब्रह्म स्वतन्त्रमेवोपदिश्यते इति भावः ।