भाष्यरत्नप्रभाव्याख्या
पूर्णानन्दीया
 

अत इति ।

मुक्तेर्नियोगासाध्यत्वेन नियोज्यालाभात् । कर्तव्यनियोगाभावादित्यर्थः ।

प्रदीपात्तमोनिवृत्तिवज्ज्ञानादज्ञाननिवृत्तिरूपमोक्षस्य दृष्टफलत्वाच्च न नियोगसाध्यत्वमित्याह -

अपिचेति ।

यो ब्रह्माहमिति वेद स ब्रह्मैव भवति । परं कारणमवरं कार्यं तद्रूपे तदधिष्ठाने तस्मिन्दृष्टे सति अस्य द्रष्टुरनारब्धफलानि कर्माणि नश्यन्ति । ब्रह्मणः स्वरूपमानन्दं विद्वान्निर्भयो भवति, द्वितीयाभावात् । अभयं ब्रह्म प्राप्तोऽसि, अज्ञानहानात्तज्जीवाख्यं ब्रह्म गुरूपदेशादात्मानमेव अहं ब्रह्मास्मीत्यवेत् विदितवत् । तस्माद्वेदनात्तद्ब्रह्म पूर्णमभवत् । परिच्छेदभ्रान्तिहानादेकत्वम् , अहं ब्रह्म इत्यनुभवतस्तत्रानुभवकाले मोहशोकौ न स्त इति श्रुतीनामर्थः ।

तासां तात्पर्यमाह -

ब्रह्मेति ।

विद्यातत्फलयोर्मध्य इत्यर्थः । मोक्षस्य विधिफलत्वे स्वर्गादिवत्कालान्तरभावित्वं स्यात् , तथा च श्रुतिबाध इति भावः ।

इतश्च मोक्षो वैधो नेत्याह -

तथेति ।

तद्ब्रह्मैतत्प्रत्यगस्मीति पश्यन् तस्माज्ज्ञानात् वामदेवो मुनीन्द्रः शुद्धं ब्रह्म प्रतिपेदे ह तत्र ज्ञाने तिष्ठन् दृष्टवानात्ममन्त्रान् स्वस्य सर्वात्मत्वप्रकाशकान् ‘अहं मनुः’ इत्यादीन्ददर्शेत्यर्थः ।

यद्यपि स्थितिर्गानक्रियाया लक्षणम् , ब्रह्मदर्शनं तु ब्रह्मप्रतिपत्तिक्रियाया हेतुरिति वैषम्यमस्ति तथापि ‘लक्षणहेत्वोः क्रियायाः’ (पा॰सू॰ ३-२-१२६)इति सूत्रेण क्रियां प्रति लक्षणहेत्वोरर्थयोर्वर्तमानाद्धातोः परस्य लटः शतृशानचावादेशौ भवत इति विहितशतृप्रत्ययसामर्थ्यात्तिष्ठन्गायति इत्युक्ते तत्कर्तृकं कार्यान्तरं मध्ये न भातीत्येतावता पश्यन् प्रतिपेदे इत्यस्य दृष्टान्तमाह -

यथेति ।

किं च ज्ञानादज्ञाननिवृत्तिः श्रूयते । ज्ञानस्य विधेयत्वे कर्मत्वादविद्यानिवर्तकत्वं न युक्तम् , अतो बोधका एव वेदान्ता न विधायका इत्याह -

त्वं हीति ।

भारद्वाजादयः षडृषयः पिप्पलादं गुरुं पादयोः प्रणम्य ऊचिरे - त्वं खल्वस्माकं पिता । यस्त्वमविद्यामहोदधेः परं पुनरावृत्तिशून्यं पारं ब्रह्म विद्याप्लवेनास्मांस्तारयसि प्रापयसि । ज्ञानेनाज्ञानं नाशयसीति यावत् ।

प्रश्नवाक्यमुक्त्वा छान्दोग्यमाह -

श्रुतमिति ।

अत्र ‘तारयतु’ इत्यन्तमुपक्रमस्थम् , शेषमुपसंहारस्थमिति भेदः । आत्मविच्छोकं तरतीति भगवत्तुल्येभ्यो मया श्रुतमेव हि न दृष्टम् , सोऽहमज्ञत्वात् हे भगवः, शोचामि, तं शोचन्तं मां भगवानेव ज्ञानप्लवेन शोकसागरस्य पारं(परं पारं)* प्रापयत्विति नारदेनोक्तः सनत्कुमारस्तस्मै तपसा दग्धकिल्बिषाय नारदाय तमसः शोकनिदानाज्ञानस्य ज्ञानेन निवृत्तिरूपं पारं ब्रह्म दर्शितवानित्यर्थः । ‘एतद्यो वेदसोऽविद्याग्रन्थिं विकिरति’ इति वाक्यमादिशब्दार्थः ।

एवं श्रुतेस्तत्त्वप्रमा मुक्तिहेतुर्न कर्मेत्युक्तम् । तत्राक्षपादगौतममुनिसंमतिमाह -

तथा चेति ।

गौरोऽहमिति मिथ्याज्ञानस्यापाये रागद्वेषमोहादिदोषाणां नाशः, दोषापायाद्धर्माधर्मस्वरूपप्रवृत्तेरपायः, प्रवृत्यपायात्पुनर्देहप्राप्तिरूपजन्मापायः, एवं पाठक्रमेणोत्तरोत्तरस्य हेतुनाशान्नाशे सति तस्य प्रवृत्तिहेतोरनन्तरस्य(प्रवृत्तिरूपहेतोरनन्तरस्य)* कार्यस्य जन्मनोऽपायाद्दुःखध्वंसरूपोऽपवर्गो भवतीत्यर्थः ।

ननु पूर्वसूत्रे ‘तत्त्वज्ञानान्निःश्रेयसाधिगमः’ इत्युक्ते सतीतरपदार्थभिन्नात्मतत्त्वज्ञानं कथं मोक्षं साधयतीत्याकाङ्क्षायां मिथ्याज्ञाननिवृत्तिद्वारेणेति वक्तुमिदं सूत्रं प्रवृत्तम् । तथा च भिन्नात्मज्ञानान्मुक्तिं वदत्सूत्रं सम्मतं चेत्परमतानुज्ञा स्यादित्यत आह -

मिथ्येति ।

तत्त्वज्ञानान्मुक्तिरित्यंशे सम्मतिरुक्ता भेदज्ञानं तु ‘यत्र हि द्वैतमिव भवति’ इति श्रुत्या भ्रान्तित्वात् ‘मृत्योः स मृत्युमाप्नोति य इह नानेव पश्यति’ इति श्रुत्या अनर्थहेतुत्वाच्च न मुक्तिहेतुरिति भावः ।

ननु ब्रह्मात्मैकत्वविज्ञानमपि भेदज्ञानवन्न प्रमा, सम्पदादिरूपत्वेन भ्रान्तित्वादित्यत आह -

न चेदमित्यादिना ।

अल्पालम्बनतिरस्कारेणोत्कृष्टवस्त्वभेदज्ञानं(-वस्त्वभेदध्यानं)* सम्पत् , यथा मनः स्ववृत्त्यानन्त्यादनन्तम् , तत उत्कृष्टा विश्वेदेवा अप्यनन्ता इत्यनन्तत्वसाम्यात् विश्वेदेवा एव मन इति सम्पत्तयानन्तफलप्राप्तिर्भवति तथा चेतनत्वसाम्याज्जीवे ब्रह्माभेदः सम्पदिति न चेत्यर्थः ।

आलम्बनस्य प्राधान्येन ध्यानं प्रतीकोपास्तिरध्यासः । यथा ब्रह्मदृष्ट्या मनस आदित्यस्य वा । तथा अहं ब्रह्मेति ज्ञानमध्यासो नेत्याह -

न चेति ।

आदेश उपदेशः ।

क्रियाविशेषो विशिष्टक्रिया तया योगो निमित्तं यस्य ध्यानस्य तत्तथा । यथा प्रलयकाले वायुरग्न्यादीन्संवृणोति संहरतीति संवर्गः, स्वापकाले प्राणो वागादीन्संहरतीति संहारक्रियायोगात्संवर्ग इति ध्यानं छान्दोग्ये विहितम् , तथा वृद्धिक्रियायोगाज्जीवो ब्रह्मेति ज्ञानमिति नेत्याह -

नापीति ।

नियोगाभावादिति ।

नियोगकर्त्रभावादित्यर्थः ।

न नियोगेति ।

दृष्टस्याज्ञाननिवृत्तिरूपमोक्षस्यापरोक्षरूपसाक्षात्काराव्यवहितोत्तरजन्यत्वान्न कालान्तरभाव्यदृष्टफलकनियोगजन्यत्वम् अन्यथा मोक्षस्य कालान्तरभाव्यदृष्टफलत्वापत्तेरित्याहेत्यर्थः ।

यदपूर्वजन्यं तत्कालान्तरभावि यथा स्वर्गादि न तथा मोक्षः किन्तु ज्ञानाव्यवहितोत्तरजन्य इत्यत्र प्रमाणत्वनोदाहृतश्रुतीनामर्थमाह –

यो ब्रह्मेत्यादिना ।

यदा हि ज्ञानं तदा मोक्ष इति प्रतिपादकेन वर्तमानार्थकलट्प्रत्ययेन कालान्तरनिरासः क्रियत इति भावः । एवं सर्वत्र विज्ञेयम् । तस्मिन् दृष्टे सतीत्यनेन ज्ञानाव्यवहितोत्तरजन्यत्वं कर्मनाशस्य प्रतीयत इति भावः ।

प्रकृते पर्यवसानं करोति –

मोक्षस्य विधिफलत्व इति ।

वैध इति ।

विधिजन्य इत्यर्थः ।

सूर्यश्चेतीति ।

अव्यवहितोत्तरजन्यत्वप्रतिपादकं तस्यैतत्पश्यन्नित्यादिसूर्यश्चेतीत्यन्तं वाक्यमुदाहर्तव्यमिति भाष्यान्वयः । तिष्ठतिगायत्योर्मध्ये यदर्थयोर्मध्ये इत्यर्थः ।

वाक्यार्थमुक्त्वा तात्पर्यार्थमाह –

तत्र ज्ञान इति ।

लक्षणमिति ।

व्यावर्तकं चिन्हशब्दितपरिचायकं वेत्यर्थः । तिष्ठन् गायतीत्यत्र स्थितिकालीनगानक्रियावान् पुरुष इति बोधादितरकाले गानक्रियाव्यावर्तिका स्थितिर्भवति न हेतुरित्यतः कार्यान्तरप्रसक्तिः, स्थितेः कार्यान्तरवारकत्वाभावादुभयार्थकत्वे वाक्यभेदः स्यात् , पश्यन्प्रतिपेद इत्यत्र तु ब्रह्मदर्शनब्रह्मप्राप्तौ हेतुर्भवति, तथा च सामग्र्यव्यवहितोत्तरक्षणे कार्योत्पत्तेरावश्यकत्वान्न कार्यान्तरप्रसक्तिरिति दृष्टान्तवैषम्यमस्तीति भावः ।

सूत्रेणेति ।

व्याकरणसूत्रेणेत्यर्थः ।

सूत्रार्थमाह –

क्रियां प्रतीति ।

लक्षणपदं व्यावर्तकपरं परिचायकपरं वा ।

वर्तमानादिति ।

विद्यमानादित्यर्थः । लटः लट्प्रत्ययस्येत्यर्थः ।

इति विहितेति ।

व्याकरणसूत्रेण उक्तरीत्या विहितो यः शतृप्रत्ययस्तत्सामर्थ्यादित्यर्थः । उत्तरकालीनगानक्रियां प्रति स्थितेः व्यावर्तकत्वरूपार्थे प्रोच्यमाने विद्यमानधातोः परस्य वर्तमानार्थकलट्प्रत्ययस्यादेशत्वेन विहितो यः शतृप्रत्ययः सोपि ’स्थानिवदादेश’ इति न्यायेन वर्तमानार्थक एव तत्सामर्थ्यात्तिष्ठन् गायतीत्यत्र स्थितेः गानक्रियां प्रति हेतुत्वाप्रतीतावपि तस्याः कार्यान्तरावारकत्वेपि स्थितिकाले गानं कृतवानिति बोधेन तत्कर्तृककार्यान्तराभानात् तत्कर्तुः गानव्यतिरिक्तक्रियान्तरं मध्ये नास्तीति प्रतीयते, दार्ष्टान्तिकेपि ज्ञानकर्तुः ब्रह्मप्रतिपत्तिक्रियाव्यतिरिक्तकार्यान्तरं मध्ये नास्तीति प्रतीयते, तथा च पुरुषकर्तृककार्यान्तराभावरूपसाम्येन तिष्ठन् गायतीति दृष्टान्तः पश्यन्प्रतिपेद इत्यस्य युक्त इत्याहेत्यर्थः । कार्यान्तरं मध्ये न भातीति – रामानन्दीयपाठान्तरमत्र समीचीनं कार्यान्तराभनप्रतिपादकत्वेन सुबोधकत्वादिति वेदितव्यम् । मोक्षस्य नियोगसाध्यत्वे ज्ञानाव्यवहितोत्तरजन्यत्वप्रतिपादकश्रुतिविरोधमुपपाद्य सम्प्रति ज्ञानात्साक्षादज्ञाननिवृत्तिप्रतिपादकश्रुतिविरोधमुपपादयति सर्वज्ञः श्रीभाष्यकार इति ।

भाष्यमवतारयति –

किञ्चेति ।

कर्मत्वादिति ।

क्रियात्वादित्यर्थः । ज्ञानाज्ञानयोर्विरोधात् ज्ञानस्याज्ञाननिवर्तकत्वं युक्तं कर्माज्ञानयोर्विरोधाभावात् कर्मरूपस्य ज्ञानस्याज्ञाननिवर्तकत्वं न युक्तमिति भावः ।

प्रतीकमादाय परशब्दार्थमाह –

परं पुनरावर्तिशून्यमिति ।

परशब्दार्थमाह –

ब्रह्मेति ।

ब्रह्मेति च्छेदः, विद्याप्लवेनास्मान् ब्रह्म प्रापयसीत्यन्वयः । अत्र द्विकर्मकप्रयोगो द्रष्टव्यः ।

मे इत्यस्य विभक्तिव्यत्यासेनान्वयमाह –

मयेति ।

मृदितकषायायेत्यस्यार्थमाह –

तपसा दग्धकिल्बिषायेति ।

तत्त्वप्रमेति ।

तत्त्वप्रमैव साक्षान्मुक्तिहेतुः कर्मस्वरूपज्ञानं तु न मुक्तिहेतुरित्युक्तमित्यर्थः ।

अक्षपादमुनीति ।

तर्कशास्त्रसूत्रकृद्गौतममुनिसम्मतिमाहेत्यर्थः ।

मिथ्याज्ञानाकारमाह –

गौरोहमिति ।

पाठक्रमेणेति ।

’दुःखजन्मप्रवृत्ती’त्यादिसूत्रपाठक्रमेणेत्यर्थः ।

प्रवृत्तिहेतोरिति ।

प्रवृत्तिरूपहेतोरित्यर्थः । इयं षष्ठी व्यधिकरणेति ज्ञेयम् । न विद्यतेऽन्तरं यस्य तत्तथा तस्येत्यर्थः । जन्मप्रवृत्त्योः मध्ये किञ्चिदन्तरं व्यवधायकं नास्तीत्यनन्तरं प्रवृत्तिकार्यं च जन्म भवतीति वाक्यार्थः । अयं भावः । देहे अनुभूतमाध्यात्मिकादिदुःखं प्रति शरीरस्य जन्म कारणं शरीरोत्पत्तिं प्रति धर्माधर्मप्रवृत्तिः कारणं धर्मादिप्रवृत्तौ रागद्वेषमोहादिदोषः कारणं रागादिदोषे गौरोहमित्यादिमिथ्याज्ञानं कारणमित्येवं मिथ्याज्ञानाद्दुःखोत्पत्तिमभिप्रेत्याचार्यः श्रीगौतममुनिः नाशक्रमप्रतिपादकं सूत्रं रचयाञ्चकार, तथा चोत्तरोत्तरकारणनाशेन पूर्वपूर्वकार्यनाशादेकविंशतिदुःखध्वंसरूपो मोक्षो भवतीति तत्त्वज्ञानान्मिथ्याज्ञाननिवृत्तिद्वारा मोक्षः प्रतिपादितः इत्यस्मिन्नर्थे सम्मतिरुक्तेति ।

भेदज्ञानं त्विति ।

भेदज्ञानान्मुक्तिरित्यंशे बहुश्रुतिविरोधान्न सम्मतिरुक्तेति भावः ।

ननु वेदान्तानां सामान्योपासनाविधिपरत्वाभावेपि सम्पदाद्यन्यतमरूपविशेषोपासनविधिपरत्वं स्यात् सगुणवाक्यवन्निर्गुणवाक्यानामुपासनाविधिपरत्वे लाघवादित्याशङ्कां वारयितुमुत्तरभाष्यं प्रवृत्तिमित्याशयं मनसि निधाय तदवतारयति –

ननु ब्रह्मेति ।

ऐक्यज्ञानस्याप्रमात्वं साधयितुः शङ्कितुः वेदान्तानां सम्पदादिरूपविशेषोपासनाविधिपरत्वं स्यादित्यभिप्रायः । सिद्धान्तिनस्तु सम्पदादीनामाहार्यारोपरूपाणां विशेषोपासनात्वमङ्गीकृत्याप्रमात्वेनाज्ञानानिवर्तकत्वादिरूपानन्तदोषान्न तत्परत्वं वेदान्तानामिति कुतो लाघवावकाशः प्रामाणिकगौरवस्यादोषत्वात्तथा चैकत्वज्ञानं प्रमात्मकत्वेन न सम्पदादिरूपमित्यभिप्रायः ।

अल्पालम्बनेति ।

मनस्यल्पत्वबुद्धितिरस्कारेण मनस्त्वबुद्धितिरस्कारेण वा उत्कृष्टविश्वेदेवाभेदध्यानं सम्पदित्यर्थः । एतच्च भेदज्ञानपूर्वकत्वान्न प्रमेति भावः । एवमुत्तरत्र विज्ञेयम् ।

अभेदः सम्पदिति ।

अभेदध्यानं ध्यानविषयीभूताभेदो वा सम्पदित्यर्थः ।

प्रतीकस्य सम्पद्भेदमाह –

आलम्बनप्राधान्येनेति ।

आरोप्यप्रधाना सम्पत् अधिष्ठानप्रधानोऽध्यास इत्यध्याससम्पदोर्विभागः कल्पतरौ दर्शितः ।

अर्थं कथयन् अन्वयपूर्वकं उत्तरभाष्यमवतारयति –

क्रियाविशेष इति ।

अधिदैवतं व्याख्यायाध्यात्मं व्याकरोति -

स्वापकाल इति ।

वृद्धिक्रियेति ।

जीवस्य शरीरपरिणामहेतुत्वरूपं यद्बृंहणत्वं तदात्मकवृद्धिक्रियायोगादित्यर्थः ।