भाष्यरत्नप्रभाव्याख्या
पूर्णानन्दीया
 

यथा ‘पत्न्यवेक्षितमाज्यं भवति’ इति उपांशुयागाद्यङ्गस्याज्यस्य संस्कारकमवेक्षणं विहितं तथा कर्मणि कर्तृत्वेनाङ्गस्यात्मनः संस्कारार्थं ब्रह्मज्ञानं नेत्याह -

नाप्याज्येति ।

प्रतिज्ञाचतुष्टये हेतुमाह -

सम्पदादीति ।

उपक्रमादिलिङ्गैर्ब्रह्मात्मैकत्ववस्तुनि प्रमितिहेतुर्यः समानाधिकरणवाक्यानां पदनिष्ठः समन्वयस्तात्पर्यं निश्चितं तत्पीड्येत । किं च एकत्वज्ञानादाज्ञानिकहृदयस्यान्तःकरणस्य यो रागादिग्रन्थिश्चिन्मनस्तादात्म्यरूपाहङ्कारग्रन्थिर्वा नश्यतीत्यज्ञाननिवृत्तिफलवाक्यबाधः स्यात् , सम्पदादिज्ञानस्याप्रमात्वेनाज्ञानानिवर्तकत्वात् । किञ्च जीवस्य ब्रह्मत्वसम्पदा कथं तद्भावः । पूर्वरूपे स्थिते नष्टे वान्यस्यान्यात्मतायोगात् । तस्मान्न सम्पदादिरूपमित्यर्थः ।

सम्पदादिरूपत्वाभावे फलितमाह -

अत इति ।

प्रमात्वान्न कृतिसाध्या किं तर्हि नित्यैव ? न प्रमाणसाध्येत्यर्थः ।

उक्तरीत्या सिद्धब्रह्मरूपमोक्षस्य कार्यसाध्यत्वं तज्ज्ञानस्य नियोगविषयत्वं च कल्पयितुमशक्यं कृत्यसाध्यत्वादित्याह -

एवंभूतस्येति ।

ननु ब्रह्म कार्याङ्गम् , कारकत्वात्पत्न्यवेक्षणकर्मकारकाज्यवदिति चेत् , किं ज्ञाने ब्रह्मणः कर्मकारकत्वमुतोपासनायाम् । नाद्य इत्याह -

न चेति ।

शाब्दज्ञानं विदिक्रियाशब्दार्थः - विदितं कार्यमविदितं कारणं तस्मादधि अन्यदित्यर्थः । येनात्मना इदं सर्वं दृश्यं लोको विजानाति(जानाति)* तं केन करणेन जानीयात् । तस्मादविषय आत्मेत्यर्थः ।

न द्वितीय इत्याह -

तथेति ।

‘यन्मनसा न मनुते’(के॰उ॰ १-६) इति श्रुत्या लोको मनसा यद्ब्रह्म न जानातीत्यविषयत्वमुक्त्वा तदेवावेद्यं ब्रह्म त्वं विद्धि । यत्तूपाधिविशिष्टं देवतादिकमित्युपासते जना नेदं ब्रह्मेत्यर्थः ।

ब्रह्मणः शाब्दबोधाविषयत्वे प्रतिज्ञाहानिरिति शङ्कते -

अविषयत्व इति ।

वेदान्तजन्यवृत्तिकृताविद्यानिवृत्तिफलशालितया शास्त्रप्रमाणकत्वं वृत्तिविषयत्वेऽपि स्वप्रकाशब्रह्मणो वृत्त्यभिव्यक्तस्फुरणाविषयत्वादप्रमेयत्वमिति परिहरति -

नेति ।

परत्वात्फलत्वादित्यर्थः । निवृत्तिरूपब्रह्मतात्पर्यादिति वार्थः ।

उक्तं विवृणोति -

नहीति ।

चिद्विषयत्वमिदन्त्वम् । अविषयतया अनिदन्तया ।

अदृश्यत्वे श्रुतिमाह -

तथा चेति ।

यस्य ब्रह्मामतं चैतन्याविषय इति निश्चयस्तेन सम्यगवगतम् । यस्य त्वज्ञस्य ब्रह्म चैतन्यविषय इति मतं स न वेद ।

ब्रह्मात्मैक्यज्ञानस्य सम्पद्रूपत्वमध्यासरूपत्वं संवर्गध्यानरूपत्वं च न सम्भवतीति प्रतिपादकभाष्यं व्याख्याय सम्प्रति संस्काररूपत्वं न सम्भवतीति प्रतिपादकं भाष्यं व्याख्याति –

यथा पत्नीति ।

संस्कारकमिति ।

अदृष्टजनकमित्यर्थः । कर्मारम्भसमये अहं ब्रह्मास्मीत्युपासनारूपं ब्रह्मात्मज्ञानमावश्यकं तेन कर्तरि संस्कारद्वारा कर्मकारणमदृष्टं जन्यते तस्मादुपासनापरत्वं वेदान्तानामिति शङ्कितुरभिप्रायः ।

समानाधिकरणेति ।

पदयोः सामानाधिकरण्यमेकविभक्तिकत्वे सत्येकार्थबोधकत्वरूपं वाक्ये ह्युपचर्यते, तथा च भेदज्ञानपूर्वकसम्पदाद्युपासनापरत्वपक्षे वाक्यस्थपदानां सामानाधिकरण्यं न स्यादन्यथा घटः पट इति सामानाधिकरण्यप्रयोगः स्यादिति भावः ।

तात्पर्यमिति ।

एकस्मिन्नर्थे निश्चितं यत्तात्पर्यं तत्पीड्येतेत्यन्वयः ।

कथं तद्भाव इति ।

ब्रह्मभावः कथमित्यर्थः ।

नष्टे वेति ।

नष्टपक्षे अधिकरणस्यैवाभावान्न तद्भावापत्तिरिति भावः ।

सम्पदादिरूपत्वाभाव इति ।

पुरुषव्यापारतन्त्रसम्पदादिरूपत्वाभाव इत्यर्थः ।

शङ्कते –

किं तर्हि नित्यैवेति ।

परिहरति –

नेति ।

प्रमाणसाध्यत्वं प्रमितवस्तुजन्यत्वं ब्रह्मविद्या न नित्या किन्तु प्रमाणसाध्येति भावः ।

प्रमाणविषयेति ।

प्रमाणपदं प्रमापरं प्रमाणविषयघटादिवस्तुज्ञानवद्यथार्थवस्तुतन्त्रैवेति भाष्यार्थः ।

मोक्षस्य कर्मसाध्यत्वं ब्रह्मज्ञानस्य नियोगविषयत्वं च कार्यानुप्रवेशशब्दार्थ इति स्फुटीकुर्वन् भाष्यमवतारयति –

उक्तरीत्येति ।

कार्याङ्गमिति ।

कर्माङ्गमित्यर्थः । कारणमिति । अज्ञानरूपं कारणमित्यर्थः ।

अविषयत्वमुक्त्वेति ।

प्रत्यक्षाद्यविषयत्वमुक्त्वेत्यर्थः ।

नेदमिति ।

इदमितीदन्त्वेन निर्दिष्टं न ब्रह्मेत्युक्तमित्यर्थः । तथा च ब्रह्मणः ज्ञानविषयत्वरूपमुपासनाविषयत्वरूपं च यत्कर्मत्वं तस्य प्रतिषेधात्पक्षे हेत्वसिद्धेः नानुमानं स्वसाध्यसाधकमिति भावः ।

ब्रह्मणः शाब्देति ।

ब्रह्म शास्त्रप्रमाणकं शास्त्रतात्पर्यविषयत्वादिति शब्दात्मकशास्त्रजन्यबोधविषयत्वरूपं ब्रह्मणः शास्त्रप्रमाणकत्वं तृतीयसुत्रे प्रतिज्ञातं सम्प्रति शास्त्रजन्यबोधाविषयत्वे प्रतिज्ञाहानिरिति शङ्कितुरभिप्रायः ।

वृत्तीति ।

ब्रह्माकारवृत्तीत्यर्थः । ब्रह्मणः शास्त्रजन्यबोधकृताविद्यानिवृत्तिफलशालित्वरूपशास्त्रप्रमाणकत्वमभ्युपगम्यते न शास्त्रजन्यबोधविषयत्वरूपं दृश्यत्वापत्तेरनेकश्रुतिविरोधाच्च, तथा च तत्र बोधविषयत्वेन तस्याप्रतिज्ञातत्वान्न प्रतिज्ञाहानिरिति भावः ।

ननु ब्रह्मणः बोधाविषयत्वे कथमविद्यानिवृत्तिः ज्ञानाज्ञानयोः समानविषयकत्वाभावादित्यत आह –

वृत्तिकृताविषयत्वेपीति ।

अप्रमेयत्वमिति ।

शाब्दबोधाविषयत्वमिति यावत् । अविद्यानिवृत्त्यर्थं केवलवृत्तिव्याप्तिरूपं ब्रह्मणः शास्त्रजन्यवृत्तिविषयत्वं गौणमभ्युपगम्यते तस्य स्वप्रकाशत्वेन वृत्त्यभिव्यक्तस्फुरणाविषयत्वान्मुख्यत्वं वृत्तिप्रतिबिम्बितचैतन्यांशरूपबोधविषयत्वं तु नाभ्युपगम्यते तस्मात्प्रत्यगभिन्नब्रह्मणः शाब्दबोधाविषयत्वे हि न काप्यनुपपत्तिरिति भावः । अत्रेदमनुसन्धेयम् । विषयत्वं द्विविधं मुख्यं गौणं चेति । तत्र विशिष्टनिष्ठत्वं मुख्यत्वं केवलाहङ्कारादिनिष्ठत्वं केवलात्मनिष्ठत्वं वा गौणत्वमित्येवमध्यासभाष्यग्रन्थे प्रतिपादितम् , सम्भावनाभाष्यग्रन्थे तु तथैवोपपादितम् , तथा हि भासमानत्वाख्यं विषयत्वं द्विविधं गौणं मुख्यं चेति । तत्र भानप्रयुक्तफलभाक्त्वरूपत्वं गौणत्वं भानभिन्नत्वविशिष्टत्वं मुख्यत्वमिति । अस्यां फक्किकायामपि विषयत्वं द्विविधं गौणं मुख्यं चेति, तत्र वृत्तिव्याप्तिरूपत्वं गौणत्वं फलव्याप्तिरूपत्वं मुख्यत्वमिति, तथा च पक्षत्रयेपि आत्मनि गौणमेव विषयत्वं पर्यवसितम् , अहङ्कारे तु गौणं मुख्यं चेति ।

अभावस्याधिकरणस्वरूपत्वं मत्वाह –

निवृत्तिरूपेति ।

तस्य मतमित्यत्र तच्छब्दस्य विभक्तिव्यत्यासेनान्वयमाह –

तेनेति ।

ब्रह्मचैतन्येति ।

ब्रह्मेति च्छेदः ।