उक्तमेव दार्ढ्यार्थमनुवदति -
अविज्ञातमिति ।
अविषयतया ब्रह्म विजानतामविज्ञातमदृश्यमिति पक्षः । अज्ञानां तु ब्रह्म विज्ञातं दृश्यमिति पक्ष इत्यर्थः ।
दृष्टेर्द्रष्टारं चाक्षुषमनोवृत्तेः साक्षिणम् , अनया दृश्यया दृष्ट्या न पश्येर्विज्ञातेर्बुद्धिवृत्तेर्निश्चयरूपायाः साक्षिणं तथा न विषयीकुर्यादित्याह -
नेति ।
नन्वविद्यादिनिवर्तकत्वेन शास्त्रस्य प्रामाण्येऽपि निवृत्तेरागन्तुकत्वान्मोक्षस्यानित्यत्वं स्यादिति नेत्याह -
अत इति ।
तत्त्वज्ञानादित्यर्थः । ध्वंसस्य नित्यत्वादात्मरूपत्वाच्च नानित्यत्वप्रसङ्ग इत्यर्थः ।
उत्पत्तिविकाराप्तिसंस्काररूपं चतुर्विधमेव क्रियाफलं तद्भिन्नत्वान्मोक्षस्य नोपासनासाध्यत्वमित्याह -
यस्य तु इत्यादिना तस्माज्ज्ञानमेकं मुक्त्वा इत्यन्तेन ।
तथा उत्पाद्यत्ववद्विकार्यत्वे चापेक्षत इति युक्तमित्यन्वयः ।
दूषयति -
तयोरिति ।
स्थितस्यैवावस्थान्तरं(एवकारो नास्ति)* विकारः ।
नन्वनित्यत्वनिरासाय क्रियया स्थितस्यैव ब्रह्मणो ग्रामवदाप्तिरस्तु, नेत्याह -
न चेति ।
ब्रह्म जीवाभिन्नं न वा । उभयथाप्याप्तत्वान्न क्रियापेक्षेत्याह -
स्वात्मेत्यादिना ।
यथा व्रीहीणां संस्कार्यत्वेन प्रोक्षणापेक्षा तथा मोक्षस्य नेत्याह -
नापीत्यादिना ।
गुणाधानं व्रीहिषु प्रोक्षणादिना, क्षालनादिना वस्त्रादौ मलापनयः ।
शङ्कते -
स्वात्मधर्म इति ।
ब्रह्मात्मस्वरूप एव मोक्षोऽनाद्यविद्यामलावृत उपासनया मले नष्टेऽभिव्यज्यत इत्यत्र दृष्टान्तः -
यथेति ।
अनुवदतीति ।
श्रुतिः स्वयमेवानुवदतीत्यर्थः । अविज्ञातमपि ज्ञानिनां पक्षः विज्ञातमित्यज्ञानिनां पक्ष इति विवेकः ।
अविषयत्वे उदाहृतं श्रुत्यन्तरं व्याचष्टे –
दृष्टेरिति ।
दृष्ट्येति ।
चाक्षुषमनोवृत्त्येत्यर्थः ।
तयेति ।
बुद्धिवृत्त्येत्यर्थः ।
आगन्तुकत्वादिति ।
जन्यत्वादित्यर्थः । तथा च निवृत्तेर्जन्यत्वेन तद्रूपमोक्षस्यापि जन्यत्वादनित्यत्वं स्यादिति शङ्कितुरभिप्रायः ।
ध्वंसस्येति ।
जन्यत्वेपि निवृत्तिरूपध्वंसस्येत्यर्थः । अविद्यायाः कल्पितत्वादन्त्यभावविकाररूपतन्निवृत्तेरपि कल्पितत्वेनाधिष्ठानात्मस्वरूपत्वात्तन्निवृत्तेः परमते ध्वंसरूपत्वेन नित्यत्वप्रसङ्गः तस्मान्न नियोगपरत्वं वेदान्तानामिति भावः ।
ननु मोक्षः क्रियाफलं भवितुमर्हति उत्पत्त्याद्यन्यतमवत्त्वात् घटादिवदित्यनुमानेन मोक्षस्योपासनाजन्यत्वमौपचारिकं स्यादित्याशङ्कां पक्षे हेत्वसिद्ध्या परिहरतीति भाष्यमवतारयति –
उत्पत्तीति ।
न हि मोक्षस्योत्पत्त्यादिकमेवास्ति येनोत्पत्त्यादेः क्रियाजन्यत्वात् तद्द्वारा क्रियाजन्यत्वं मोक्षस्य स्यात्तथा चोत्पत्त्याद्यन्यतमरूपसाध्यसम्बन्धेन मोक्षस्य साध्यत्वमिति यत्पूर्वपक्षिणो मतं तदसङ्गतमिति सिद्धान्तसमुदायग्रन्थार्थः । उत्पत्तिः सामग्र्यव्यवहितोत्तरक्षणसम्बन्ध इत्यर्थः । आप्तिः संयोगादिरूपप्राप्तिरित्यर्थः ।
भाष्ये
उत्पाद्य इति ।
उत्पत्तिमानित्यर्थः । मानसमुपासनाध्यानरूपं वा कायिकमग्निष्टोमादिरूपं कार्यं कर्मेत्यर्थः ।
तयोः पक्षयोरिति ।
मोक्षस्योत्पाद्यत्वं कश्चिद्वदति कश्चिद्विकार्यत्वं तयोः पक्षयोरित्यर्थः । साध्यश्चेन्मोक्षोऽभ्युपगम्यते अनित्य एव स्यादित्यादिभाष्ये दृढत्वेनानित्यत्वं साधितमिति भावः ।
अनाप्यत्वादिति ।
क्रियापूर्वकाप्यत्वानुपपत्तेरित्यर्थः ।
सर्वेणेति ।
सर्ववस्तुनेत्यर्थः ।
गुणाधानेनेति ।
अत्राभेदे तृतीयाद्वयमिति विभावनीयम् ।
व्रीह्यादौ प्रोक्षणादिना गुणाधानलक्षणः संस्कारः सम्भवति वस्त्रादौ तु क्षालनेन दोषापनयरूपः संस्कारः सम्भवति यथा तथा ब्रह्मणि द्विविधः संस्कारो न सम्भवतीत्याह –
न तावदिति ।
अनाधेयातिशयेति ।
असङ्गत्वेन गुणाद्यसम्भन्धीत्यर्थः ।
स्वात्मधर्म एवेति ।
ब्रह्मात्मस्वरूपभूत एवेत्यर्थः ।
व्याख्याने – प्रतीकमादाय तथेत्यस्यार्थमाह –
तथोत्पाद्यत्ववदिति ।
अपेक्षत इति ।
त्रिविधमध्ये अन्यतमं कर्मापेक्षत इत्यर्थः ।
दूषयतीति ।
स्वमते मोक्षस्योत्पत्त्याद्यनङ्गीकारान्न नित्यत्वदोषः प्रत्युत परमत एव तदङ्गीकारादनित्यत्वदोष इति दूषयतीत्यर्थः ।
स्थितस्यैवेति ।
नित्यत्वेन स्थितस्यैवेत्यर्थः । यथा शैवंवैष्णवादितत्तन्मते नित्यत्वेन स्थितस्य कैलासवैकुण्ठादिग्रामस्याप्तिः गमनरूपया क्रियया भवति तथैव अनित्यत्वनिरासाय नित्यत्वेन स्थितस्यैव ब्रह्मणः उपासनारूपक्रियया आप्तिरस्तीत्यर्थः । नित्यत्वेन स्थितस्यैव ब्रह्मरूपमोक्षस्याप्तिरूपसाध्योपरागेण साध्यत्वं प्राप्तिकर्मता च भवेत्तथा च ब्रह्मप्राप्तेरुपासनाजन्यत्वात्तद्द्वारा मोक्षस्याप्युपासनाजन्यत्वेन वेदान्तानां नियोगपरत्वमिति शङ्कितुरभिप्रायः ।
ब्रह्मजीवेति ।
जीवस्य ब्रह्मप्राप्तिरित्यत्र तयोरभेदे स्वस्वरूपस्य नित्यमाप्तत्वात्क्रियापूर्वकाप्यत्वानुपपत्तेर्न क्रियापेक्षया भेदे तु ब्रह्मणः सर्वगतत्वेन नित्यमाप्तत्वात् क्रियापूर्वकाप्यत्वानुपपत्तेर्न क्रियापेक्षेत्याहेत्यर्थः | नन्वभेदपक्षे कथमाप्तिः भेदनियतत्वादाप्तेस्तथा चोभयथाप्याप्तात्वादित्यनुपपत्तिरिति चेन्न । अभेदे त्वाप्तरोपचारिकत्वादिति भावः ।
मोक्षस्योत्पाद्यत्वं विकार्यत्वमाप्यत्वं च न सम्भवतीति प्रतिपादकं भाष्यं व्याख्याय संस्कारत्वं न सम्भवतीति प्रतिपादकं भाष्यं व्याख्याति –
यथा व्रीहीणामिति ।
अहं ब्रह्मास्मीति ब्रह्मोपासनया ब्रह्मरूपे मोक्षे गुणाधानाख्यः कश्चिदतिशयरूपः संस्कारो जन्यते यथा व्रीहिषु प्रोक्षणादिना गुणाधानाख्यः संस्कारस्तद्वत्तथा चोपासनारूपक्रियाजन्यत्वात्संस्कारस्य तद्द्वारा मोक्षस्यापि क्रियाजन्यत्वेन वेदानतनां क्रियापरत्वमिति शङ्कितुरभिप्रायः ।
गुणाधानं दोषापनयश्च संस्कारशब्दार्थ इत्यभिप्रेत्य ’संस्कारो ही’त्यादिभाष्यं व्याचष्टे –
गुणाधानमिति ।
व्रीह्यादौ गुणाधानलक्षणसंस्कारो नाम स्वर्गोत्पादकत्वरूपातिशयविशेषः ।
आद्य इति ।
सत्यत्वपक्षे त्वविद्यात्मकमलनाशकोपासनारूपक्रिया किमात्मनिष्ठा सती स्वरूपाभिव्यक्त्यर्थं मलं नाशयति अन्यनिष्ठा वा ? नाद्यः असङ्गाद्वितीयस्य वस्त्वन्तरसंयगित्वानुपपत्तेरित्यर्थः ।